________________
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
तत्रोन्नत्यविशेषशालिनि गिरिप्राप्तप्रतिष्ठे शुभ-च्छाये पर्वशतप्रशस्तविभवे प्राग्वाटवंशे ध्रुवम् । लाषाहः प्रबभूव मौक्तिकमणिः सद्वृत्तभावं श्रितः, श्रीमान् सज्जनमंडनं शुचिरुचिस्त्रासादिदोषोज्झितः ॥ २ ॥ तमोविजेतुः पुरुषोत्तमस्य सुदर्शन श्री कलितस्य तस्म । पद्मासना भोगविलासदक्षा प्रिया गुणान्याऽजनि लक्ष्मिदेवी ॥ ३ ॥ तत्तन्निर्मलधर्म्मकर्मनिरतो धर्माभिधानस्तयोः संजातस्तनयः प्रशस्यविनयः श्रीमान्निरस्तानयः । 5 आश्चर्य प्रतिपद्यपि प्रतिकलं साकल्यनैर्मल्यभाक्, यस्य स्पष्टमदीप्यत रुचित्रिंश्शेषनश्यत्तमाः ॥ ४ ॥ षष्ठाष्टममदिकविचित्रतपोविधानकावर्णनाऽस्य ननु पुष्यति कामभिख्यां ।
संसारसागरतरंडमखंडमावः संसारतारणकृतं कृतवान् कृती यः ॥ ५ ॥ श्रीमान्वयस्थो दयितान्वितोऽपि च ब्रह्मव्रतं वत्सरपंच विंशतिम् ।
स एष यावत्कथिकं प्रपालयन् न विस्मयं कस्य मनस्यवीविशत् ॥ ६ ॥ 10 श्रीशकस्तवपंचकादिविधिना वारांश्चतुर्विंशति-स्तन्वानो जिनवंदनं प्रतिदिनं यावद् भवाभिग्रहात् । सम्यक्त्वस्य सुधीः शतंत्रयमितैर्यो राजतैष्टककै रन्तर्मोदकमाहितैर्विहितवानुद्यापनं पुण्यवान् ॥ ७ ॥ इमं सती चक्रशतक्रतू रत्तूरतूतुषन्निस्तुषशीलभृत्प्रिया । गुणा यदीया हृदयंगमाः सतां श्रयंत्यजस्रं श्रवणावतंसताम् ॥ ८ ॥ इतश्च - श्रीमत्तपागणनमोऽङ्गणभास्कराणां सिद्धांतवारिधिविगाहनमंदराणाम् । श्रीदेवसुंदरगुरूत्तमपट्टभाजां श्रीसोमसुंदर मुनीश्वरसूरिराजाम् ॥ ९ ॥ पीयूषदेश्यामुपदेशभारतीं निशम्य सम्यक् श्रुतभक्तिभावितः । ग्रन्थं स लक्षद्वयमानमात्मनः पुण्याय धन्यः स्वधनेन लेखयन् ॥ १० ॥ सोमवन (१४८१) मितेऽब्दे श्रीचित्कोशे व्यलीलिखन्मोदात् ।
४८
15
20
25
॥ ११ ॥ त्रिभिर्विशेषकम् यावदू व्योमातपत्रे अहमणिखचिते मेरुसौवर्णदण्डे, श्रीधर्मस्याधिभर्तुर्भ्रमतिं वरनभोरलनीराजनेयं । तावत्तत्त्वार्थसार्थामृतरसजलघिर्नदतात्स्वस्तिशाली, मन्थोऽयं वाच्यमानः सहृदयहृदयानंदकंदांबुदः श्रीः ॥ १२ ॥
[ ४९ ]
श्रीमालवंशीय भ्रातृयुगल-श्रेष्ठिगोविन्द नगराज लेखितागमादिपुस्तकप्रशस्तिः ।
[ लेखनकाल १४७९-८० विक्रमाब्द ]
[ नंदीसूत्रटीकाप्रांते - ] इति श्रीमलयगिरिविरचिता नंद्यध्ययनटीका समाप्ता । छ । ग्रंथानं ७७३२ । सूत्रयं ७०० | छ । शुभं भवतु मंगलमस्तु समस्त संघस्य । छ ।
श्रीसर्वविदे नमः ।
पुरंदरपुरस्फाति भाति श्रीपत्तनं पुरं । धर्म्मन्यायमये यत्र नित्यं लोकस्सुखायते ॥ १ ॥
30 विभाति गांभीर्यगुणेन नानाराजाप्तवृद्धिजडभावमुक्तः । राजन्ननेकैः पुरुषोत्तमैः श्रीमालवंशांबुनिधिर्नवीनः ॥ २ ॥
* अस्य पयस्योत्तरार्द्धा मूलादर्श पतितः प्रतिभाति ।
+ एतत्प्रशस्तिसमन्वितानि ताडपत्रमयानि पुस्तकानि पत्तने संघवीपाडासत्कभाण्डागारे विद्यन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org