SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह । संवत् १४३६ वर्षे भाद्रपद वदि ५ भूमे लक्षतानि । पं० मलयचंद्रशिष्य आल्हाकेन लिखितमिति भद्रं॥छ ॥ छ । भमपृष्ठिकटिश्रीवासूक्ष्मदृष्टिरधोमुखैः । कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेत् ॥ छ । जितो गत्या गजो यस्य सेवाहेवाकितां गतः । चिह्नापन्हवतः सोऽस्तु श्रियै श्रीअजितो जिनः ॥ १॥ श्रीमाले भुवनोत्तंशे वंशे मौक्तिकवत्पुरा । देवसिंहाभिधः श्रेष्ठी जातो जिनमतोच्छ्रितः ॥२॥ 5 विमुक्तमाया जया च तस्य देवलदेव्यभूत् । माऊ नाम्नी हि (सु ! ) ता पुण्ये सामतस्य तु भ्रातृजा ॥ ३ ॥ __ दया-दाक्षिण्य-दमता-दान-मानादिभिर्गुणैः । माऊनाम्नी विहायान्यां नाज्ञासिष्म वयं भुवि ॥ ४॥ इतश्च-श्रीमत्कोरंटंगच्छाब्धिसमुल्लाससुधानिधिः । सूरिः सैद्धान्तिको जज्ञे सावदेवः प्रभुः पुरा ॥ ५॥ तत्पकमलाकेलिशैलः शीलकलोज्ज्वलः । श्रीनन्त्रसूरिसूरींद्रस्ततो जयति संप्रति ॥ ६॥ तन्मुखाद्देशनां श्रुत्वा पित्रोः पुण्यविवृद्धये । श्रीजिनाजितनाथस्य सा चरित्रमलीलिखत् ॥ ७ ॥ गते विक्रमतो वर्षे सप्ताग्निखरैसंख्यके । श्रीमद्भ्यो नन्नसूरिभ्यस्त्रेभ्यस्तत्मददे तया ॥ ८ ॥ यावन्मेरुः स्थिरो यावदुदेति दिनकृद्दिवि । वाच्यमानं बुधैस्तावत्पुस्तकं नंदतादिदं ॥९॥ ॥ छ । मंगलं भूयात् गुरुभ्यः ॥ [३९] उकेशवंशीय-श्रेष्ठिमाला-लेखित-धर्मसंग्रहणिवृत्ति-पुस्तकप्रशस्तिः। 15 [लेखनकाल १४३७ विक्रमाब्द] संवत् १४३७ वर्षे अश्विनवदि प्रतिपदतियौ शनिवारे । धर्मसंमहणिनामग्रन्थस्य पुस्तकं लिखापितमस्ति ॥ जैनत्वाव्यभिचारिभावसुभगाः सर्वेऽपि यस्मिञ्जना-स्तस्मिन् धर्मयशःस्मृद्धिविशदे वंशे उकेशाहये । श्राद्धोऽभूनरसिंह इत्यभिधया साधुः प्रसिद्धः सुधी-स्तस्य प्रौढगुणा बभूव नयणादेवीति चिचप्रिया ॥१॥20 तयोरभूबन तनयास्त्रयोऽमी मूंजाल-माला-महीपालसंज्ञाः । 'मालाभिधस्तेषु विशेषधर्मी खर्वीकृतद्रोहकमोहगर्वः ॥२॥ पुण्याय पाणिग्रहणे निषेधी धीरः सुशीलोत्तमगेहमेघी । जिनेश्वरार्चादिविशिष्टनित्यानुष्ठाननिष्ठः सुकृतालिपुष्टः ॥ ३ ॥ साक्षातीर्थ मिलातले सुविपुले बांद्रे कुले श्रीतपागच्छव्योमविभूषणं वितमसस्तेजखिनोऽकेंन्दुवत् । श्रीगच्छाधिपपूज्यसगुरुजयानंदाहयाः सूरयः श्रीमंतो गुरुदेवसुंदर इति ख्याताश्च सूरीश्वराः ॥ ४ ॥ तेषां गुरूणामुपदेशयोगाद् दानं सदानंदरमानिदानम् । विज्ञाय विज्ञो वपते स सप्तक्षेत्र्यां नयोपार्जितमात्मवित्तं ॥५॥ शास्त्रलेखनमिहापि हि सारं ज्ञानसत्रसदृशं यत एतत् । इत्यवेत्य विशदाशयवृत्तिधर्मसंग्रहणिवृत्तिमिमां सः॥६॥ साधुमल्ल इह लेखयति स स्तंभतीर्थनगरे गरिमाये । भूधुराग्नि-जलँधीन्दु-मिताके वत्सरेऽश्वयुजि निर्मलपक्षे ॥ ७ ॥ सुराद्रिदंडस्थितिमिद्धतारामुक्तावलीकं वियदातपत्रम् । श्रीसंघराजी परियावदास्ते सत्पुस्तकं नंदतु तावदेतत् ॥ ८॥ 30 * एतस्प्रशस्तिसमन्वितं ताडपत्रात्मकं पुस्तकं पत्तने संघवीपाडास्थितभाण्डागारे विद्यते । ६० पु० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy