________________
15
१२
[ लेखनकाल १४४२ विक्रमाब्द ]
संवत् १४४२ वर्षे भाद्रपदसुदि २ सोमे लिखितमिदं पुस्तकं || श्रीस्तंभतीर्थनगरे लिखितं ॥ 5 आभूश्रेष्ठी पल्लीवालकुले तत्सुतश्च वीराकः । तस्य सुतौ विदितौ जगति महणसिंहास्य-बीजाख्यौ ॥ १ ॥ बीजाकस्य श्रीरिति समनि भार्या सुतास्त्रयस्तस्य । ज्येष्ठः कुमारपालो द्वावनुजौ भीम-मदनाख्यौ ॥ २ ॥ आद्यस्य जायामहणदेव्यामंगभवास्त्रयः 1 राणिगो वइराभिख्यः पूनाकश्चेति नामतः ॥ ३ ॥ तेषु राणिगपुत्रस्य झांझणस्य तनूद्भवाः । सलषा-विजपालाख्य-निरया- जेसलसंज्ञिताः ॥ ४ ॥ सषाकस्यास्ति खीमसिंह - संज्ञस्तनूरुहः । विजपालस्य पुत्रौ द्वौ जयसिंहो गुणैकभूः ॥ ५ ॥ 10 नरसिंहश्च निरयाकस्य श्लाध्यगुणांबुधेः । भार्यायां नागलदेव्यां जाताः संति सुतास्त्रयः ॥ ६ ॥ ते चैते लखमसिंहो रामसिंहश्च गोवलः । सत्क्रियौदार्ययात्राद्यैः कृत्यैयें सज्जनोत्तमाः ॥ ७ ॥ वंशः प्रौढो भीमस्य जनिकर्पूरदेविजायायाम् । मदनस्य सरखत्यां देपालाख्यो बभूव सुतः ॥ ८ ॥ तस्याथ धर्मज्ञजनालिसीम्नो भीमस्य निस्सीमगुणांबुराशेः । पुत्राः पवित्राश्चरितैकपात्रं चत्वार आसन् विशदावदाताः ॥९॥ तेषामाद्यः पद्मनामा यदीयो धीधाख्योऽभूत्सूनुरन्यूनबुद्धिः ।
धौरेयो यो देवगुर्वादिकायें पूनाह्वानस्तस्य पुत्रोंऽधुनाऽस्ति ॥ १० ॥
20
द्वितीयः साहणो यस्य पौत्रोऽस्ति कडुयाभिधः । तृतीयस्तनयो जज्ञे सामतः संमतः सताम् ॥ ११ ॥ “तुर्योऽथ सौवर्णिकवर्ण्य सूराभिधः सुधापेयलसच्चरित्रः । तस्य प्रिया सूहवदेवि नाम्नी तयोरभूतां च सुतौ गुणाढ्यौ ॥१२॥ प्रथमोऽत्र प्रथिमसिंहः पाल्हण सीहो द्वितीयकः ।
सूनुस्तस्य च पाल्हणादेव्यां लींबा - आंबाभिधौ तनयौ ॥ १३ ॥
जैनपुस्तकप्रशस्तिसङ्ग्रह |
[ 80 ] पल्लीवालकुलीन श्रेष्ठिसाल्हा -लेखित पुस्तकप्रशस्तिः* ।
25
अथ प्रथिमसिंहस्य सौवर्णिकशिरोमणेः । प्रिया प्रीमलदेवीति पुण्यप्रेमपराऽजनि ॥ १४ ॥ तयोश्च तनयाः पंच सदाचारधुरंधराः । स्वावदातशतैर्भूमिसुस्थिरीकृतकीर्त्तयः ॥ १५ ॥
सोमा रतनसिंहाक - साल्हा- डूंगरसंज्ञिताः । तेषु सोमाभिधानस्य सौम्यत्वादिगुणांबुधेः ॥ १६ ॥ भार्यायां साजणदेव्यां चत्वारः सन्ति, सूनवः । संगुणा नाराण- ब्राछा- गोधा-राघव-संज्ञिताः ॥ १७ ॥ रत्नो द्वितीयोऽजनि सिंहयुक्तो दानाम्बुशीतीकृतभूरिलोकः । संधाधिपत्वं विमलाचलादि - श्रीतीर्थयात्राकरणाद्य आप ॥ १८ ॥
प्रियायां रतनदेव्यामस्य पुत्रा गुणास्त्रयः । धनः सायर नामा च सहदेवस्तृतीयकः ॥ १९ ॥
तृतीयकस्तस्य सुतोऽस्ति सिंहाभिधः सुधीरोपनृमानमात्रम् ।
गुणाः प्रभूतप्रतिभाप्रभाद्या व्यधुस्तरां यत्र दृढानुबन्धम् ॥ २० ॥
श्री[म] दूजयानंद गुरुसूरिश्रीदेवसुंदरगुरूणां । सूरिपदमहश्च येन महान् खंद्विभुवनाब्दे (१४२०) ॥ २१ ॥ 30 तस्य च सहचारिण्यः पुण्याचरणैकमानसास्तिस्रः । सोषलदेवी - दुल्हादेवी - पूजीति विख्याताः ॥ २२ ॥
* इयं प्रशस्तिः पत्तने संघवीपाडागत भाण्डागारे विद्यमानपञ्चाशक वृत्तिपुस्तकप्रान्ते लिखिता लभ्यते । ताडपत्रीय पुस्तकयान्तिमपत्रविनष्टत्वात् प्रस्तुतप्रशस्तिर पूर्णरूपा एवोपलब्धाऽस्माभिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org