SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 10 15 जैनपुस्तकप्रशस्तिसङ्ग्रह । अथाशाधरकांताऽभूत्खेतूः क्षेत्रं सुकर्मणाम् । लक्ष्मीधरस्तयोः पुत्रो लक्ष्मीवर इवापरः ॥ १३ ॥ रूपला रुक्मिणीवास्ति तस्य सद्धर्मचारिणी । तत्सुतो हरपालाख्यः छाडू दक्षा च तत्सुता ॥ १५ ॥ एवं खकुटुंबयुतः साधुर्मलूः खमातृश्रेयसे । श्रीमन्महावीरचरित्रं गृहीतं निजगुरुभिर्वाचयांचके ॥ १६ ॥ तसिन्विस्मयकारिहारिचरितः कृष्णर्षिशिष्यः पुरा, चंचञ्चंद्रकुलध्वजः समजनि श्रीननसूरिः प्रभुः । 5 उद्गीते दिवि किन्नरैर्यदमलश्लोके सुरा धुन्वते, मूर्ध्नः कांचनकिंकिणीकवचितश्रोत्रं गजास्यं विना ॥ १७ ॥ -संवत् १३६८ वर्षे कोलापूर्या श्रीमन्महावीरचरितं श्रीनन्नसूरिभिः सभाव्याख्याने व्याख्यातं । श्रावकमूलू-वहरासत्कम् ॥ [३७] श्रावक-रणसिंह-लेखित-पार्श्वनाथचरित्र-पुस्तकप्रशस्तिः।* [लेखनकाल १४३६ विक्रमाब्द] संवत् १४३६ वर्षे पौषसुदि ६ गुरौ श्रीपार्श्वनाथचरित्रपुस्तकं लिखापितमस्ति ॥ छ । श्रीअर्बुदाभिधमहीधरपार्श्ववर्ती ग्रामोऽस्ति नांदियवराभिधया प्रसिद्धः । श्रीवर्द्धमानजिननायकतुङ्गशृङ्गप्रासादराजपरिपावितभूमिभागः ॥ १ ॥ तत्रास्ते रणसिंहः सुश्राद्धः श्राद्धधर्मधौरेयः । धार्मिकमतल्लिका सोऽन्यदैवमशृणोत् सुगुरुवाक्यं ॥ २ ॥ न ते नरा दुर्गतिमामुवन्ति न मूकतां नैव जडखभावम् । ___न चांधतां बुद्धिविहीनतां च ये लेखयन्तीह जिनस्य वाक्यम् ॥ ३ ॥ निजवित्तस्य साफल्यकृते ज्ञानावृतेर्भिदे । स ततो लेखयामास श्री पार्श्वचरितं मुदा ॥ १ ॥ श्रे वीरा-भारतूसुतेन धार्मिकरणसिंहेन श्रीतपागच्छगगनभास्कर श्रीदेवेन्द्रसूरि तत्पट्टालंकरण श्रीविद्यानंदसूरि तत्प० श्रीधर्मघोषसरि तत्प० श्रीसोममभसूरि तत्प० श्रीविमलप्रभसूरि' श्रीपर20माणंदसूर' श्रीपद्मतिलकसूरि जगद्विख्यात श्रीसोमतिलकसूरि तत्प० श्रीचंद्रशेखरसूरि श्रीजयानंदसूरि चरणकमलचञ्चरीकाणां सांप्रतं गच्छनायक भट्टारकप्रभु श्रीदेवसुंदरसूरिवराणां श्रीज्ञानसागरसूरि श्रीकुलमंडनसूरि श्रीगुणरत्नसूरि महोपाध्याय श्रीदेवशेखरगणि पं० देवप्रभगणि पं० देवमंगलगणि प्रमुखपरिवारसहितानां श्रीसंघसभामध्यव्याख्यानार्थ श्रीपत्तनीय सं० सोमसिंह सं० प्रथमादि श्रीसंघस्य लेखयित्वा समर्पितम् ॥ छ । [३८] माऊ नाम्नी श्राविका-लेखित-[ हेमचन्द्रीय ] अजितजिनचरित्रप्रतिबद्ध द्वितीयपर्व-पुस्तकप्रशस्तिः ।। _[लेखनकाल १४३७ विक्रमाब्द ] - समाप्तं चेदमजितखामिचक्रवर्तिप्रतिबद्धं द्वितीयं पर्वेति ॥ छ । मंगलं महाश्रीः ॥ छ । * ताडपत्रोपरि लिखितमेतच्चरित्रपुस्तकं पत्तने संघवीपाडास्थितभाण्डागारे सुरक्षितमास्ते । + एतत्प्रशस्तिसमङ्कितं पुस्तकं पत्तने संघसत्कभाण्डागारे विद्यते । ताडपत्रसदृशाकारा कागदमयी प्रतिरियम् । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy