________________
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
[३०] प्राग्वाटवंशीय-श्रे० आसपाल-लेखित-विवेकमञ्जरीप्रकरणवृत्ति-पुस्तकप्रशस्तिः ।
[ लेखनकाल १३२२ विक्रमाब्द]
ॐनमः श्रीवीतरागाय ॥ यन्नाममात्रवशतोऽपि शरीरभाजां, नश्यति सामजघटा इव दुष्कृतौघाः । . पादानलांछनमृगेंद्रभुवा भियेव देवः, स वः शिवसुखानि तनोतु वीरः ॥ १॥ विस्तीर्णोऽयं क्षितिरुह इव श्लाघ्यमूलपतिष्ठः, प्राग्वाटाख्यो गरिमगुणवानन्वयोऽस्ति प्रधानः । लक्ष्मीर्यसिन्नवकिसलयश्रेणिशोमां बिभर्ति, ज्योत्स्नाकारा विकचकुसुमस्तोमसाम्यं च कीर्तिः ॥ २॥ आत्यस्तत्रानवद्यश्रीः सीदः श्रीद इवाभवत् । विश्राणनेन यश्चित्रं तत्याज न कुलीनताम् ॥ ३ ॥
वीरदेव्यभिधया शुभशीला तस्य शीलपरिपालनशीला ।
गेहिनीव कमला विमलाऽभूनेहिनी सुकृतनिर्मलबुद्धेः ॥ ४ ॥ चंद्र इव पूर्णदेवः सुतस्तयोः सुगुणकिरणसंपूर्णः । दोषाश्रितो न चित्रं कलंकितां न भजते यस्तु ॥ ५॥
लोकोपकारकरणाद्विजयाद्यसिंहस्रेरुपास्तिजननाजिनबिंबलप्तः ।
- पुत्रद्वयव्रतविधापनतश्च चक्रे यः सार्थकं द्रविणमायुरपि खकीयम् ॥ ६ ॥ 15 तस्य च प्रियतमाऽजनि रम्या वाल्हिविः शशिसमुज्वलशीला। वीतरागचरणार्चनचित्ता क्षेत्रसप्तकवितीर्णसुविता ॥७॥
कृत्तोपतापनिधनं विधिनोपधानाभिख्यं तपः शिवसुखाय विधाय धैर्यात् ।।
मालाधिरोपणमकारयदात्मनो या द्वेषद्विषो विजयसिंहगुरोः करेण ॥ ८॥ त्रपामणिक्षोणिरसावसूत सूतान्दिगीशास्फुटमष्टसंख्यान् । ये पुण्यकाष्ठाश्रितचेतसोऽपि चित्रं न संक्रन्दनयोगमापुः ॥९॥
भोगिभोगायितभुजस्तंभः कुलगृहं श्रियः । आद्यस्तत्राभिरामश्रीब्रह्मदेवोऽभवत्सुतः ॥ १० ॥ अभिरामगुणग्रामद्रुमारामवसुंधरा । दयिता पोहणिस्तस्य बभूव प्रियसंभवा ॥ ११ ॥
वासनावासितखांतश्चंद्रावत्यां महत्तमे । यश्चैत्ये कारयामास बिंबं वीरजिनेशितुः ॥ १२॥ ... या पद्मदेवसूरेगुरोः कृते शुभमतिः खवित्तेन । चरितं त्रिषष्ठिमध्यादलेखयत्प्रथमतीर्थकृतः ॥ १३ ॥
द्वैतीयीको बोहडिरभवत्तनुजो गुणवजनिकेतम् । एतस्यांबीति कुटुंबिनी च चंचद्गुणकदंबा ॥ १४ ॥ खकीयवंशे भुवनावतंसे ध्वजानकारं दधदंगजन्मा । सद्धर्मनिर्मापणदत्तवितचित्तस्तयोविल्हणसंज्ञ आद्यः ॥ १५॥ 25 सती सतीसंहतीशीर्षरत्नं तस्य प्रिया जैनपदाज गी । बभूव दानादिगुणप्रधाना सन्मानसा रूपिणिनामधेया ॥१६॥
द्वितीय आल्हणश्चाभूभाग्यसौभाग्यजन्मभूः । अनन्यजनसामान्यसौजन्यमणिरोहणः ॥ १७ ॥ जल्हणस्तृतीयसूनुश्चतुर्थो मल्हणाभिधः । समभून्मोहिनी चापि सुता खजनमोहिनी ॥ १८ ॥
जल्हणस्य तृतीयस्य नाऊ जाया शुभाशया । वीरपालो वरदेवो वैरसिंहः सुतास्तयोः ॥ १९ ॥ * ताडपत्रात्मकं पुस्तकमिदं स्तम्भतीर्थे शान्तिनाथमन्दिरस्थितभाण्डागारे विद्यमानमस्ति । द्रष्टव्यम्-पिटर्सन् , रीपोर्ट पुस्तक ३, पृ०.१०४-९।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org