________________
10
जैनपुस्तकप्रशस्तिसङ्ग्रह। आद्याया जिनचंद्र इत्यनुदिनं सद्धर्मकर्मोद्यतः, पुत्रश्चाहिणी संज्ञिता सहचरी, तस्य त्वमी सूनवः । ज्येष्ठोऽभूत्किल देवचंद्र इति यो द्रव्यं व्ययित्वा निजं, सत्तीर्थेषु शिवाय संघपतिरित्याख्यां सुधीर्लब्धवान् ॥ ३ ॥
नामंधराख्योऽथ महधराख्योऽतो वीरधवलाभिध-भीमदेवौ । पुत्री तथा धाहिणी नामिकाऽभूत् सर्वेऽपि जैनांग्रिसरोज गाः ॥ ४ ॥ श्रीदेवभद्रगणिपादसरोरुहालेर्भक्त्यानमद् विजयचंद्रमुनीश्वरस्य ।।
देवेन्द्रसूरिसुगुरोः पदपद्ममूले तत्रांतिमौ जगृहतुर्यतितां शिवोत्कौ ॥५॥ नाइकेस्तु सुता जातास्तत्र ज्येष्ठो धनेश्वरः । खेतू नाम्नी प्रिया तस्य अरसिंहादयः सुताः ॥ ६ ॥ द्वैतीयीकस्सुसाधुश्रुतवचनसुधास्वादनातृप्तचित्तः, श्रीमज्जैनेन्द्रबिम्बप्रवरजिनगृहप्रोल्लसत्पुस्तकादौ । सप्तक्षेत्र्यां प्रभूतव्ययितनिजधनो लाहडो नामतोऽभूत् , लक्ष्मीश्रीरित्यभिख्या सुचरितसहिता तस्य भार्या सदार्या ॥७॥ अभयकुमाराभिख्यो तृतीयोऽजनि नंदनः । यो दधे मानसं धर्मश्रद्धासंबंधबंधुरं ॥ ८ ॥
धर्मे सहाया सहदेवसाधोः सौभाग्यदेवीति बभूव जाया ।
पुत्रौ च षेढाभिध-गोसलाख्यौ प्रभावको श्रीजिनशासनस्य ॥ ९॥ किञ्च-यौ कृत्वा गुणसंघकेलिभवनं श्रीसंघमुच्चैस्तरां, श्रीशत्रुञ्जय-रैवतप्रभृतिषु प्रख्याततीर्थेषु च । न्यायोपार्जितमर्थसार्थनिवहं स्वीयं व्ययित्वा भृशं, लेभाते सुचिराय संघपतिरित्याख्यां स्फुटां भूतले ॥१०॥ आधस्य जज्ञे किल षीवदेवी नाना कलत्रं सुविवेकपात्रं ।।
15 तथा सुता जेहड-हेमचन्द्र कुमारपालाभिध-पासदेवाः ॥ ११ ॥ अभवद् गोसलसाधोर्गुणदेवीति वल्लभा । नंदनो हरिचन्द्राख्यो देमतीति च पुत्रिका ॥ १२ ॥ जयदेवस्य तु गृहिणी जाल्हणदेवीति संज्ञिता जज्ञे । पुत्रस्तु वीरदेवो देवकुमारश्च हालूश्च ॥ १३ ॥ शुभशीलशीलनपरा अभवंस्तेषामिमाः सधर्मण्यः । विजयसिरी-देवसिरी-हरसिणिसंज्ञा यथासंख्यं ॥ १४ ॥ एवं कुटुम्बसमुदय उज्ज्वालवृषलिहितवासनाप्रचयः । सुगुरोर्गुणगणासुगुरोः सुश्राव सुदेशनामेवम् ॥ १५॥ 20
दान-शील-तपो-भावभेदाद्धर्मश्चतुर्विधः । श्रवणीयः सदाभव्यैर्मव्यो मोक्षपदपदः ॥ १६ ॥ विषयजसुखमिच्छोर्गेहिनः कास्ति शीलं, करणवशगतस्य स्यात्तपो वापि कीडग् ।
अनवरतमदप्रारंभिणो भावना किं, तदिह नियतमेकं दानमेवास्य धर्मः ॥ १७ ॥ ज्ञानामयोपग्रहदानभेदात् तच त्रिधा सर्वविदो वदन्ति । तत्रापि निर्वाणपथैकद्वीपं सज्ज्ञानदानं प्रवरं वदन्ति ॥ १८॥ कालानुभावान् मतिमान्यतश्च तच्चाधुना पुस्तकमंतरेण । न स्यादतः पुस्तकलेखनं हि श्राद्धस्य युक्तं नितरां विधातुम् ॥१९॥ 24
इत्याकर्म्य सकर्णः ततश्च निजमुजसमर्जितधनेन । व्यवहाराद्यसुखंडस्य पुस्तकं लेखयामास ॥ २० ॥* यावयोमसरोवरे विलसतो विश्वोपकारेच्छया, सन्नक्षत्रसितांबुजौघकलिते श्रीराजहंसाविह । अज्ञानप्रसरान्धकारविधुरो विश्वे प्रदीपोपम-स्तावन्नंदतु पुस्तकोऽयमनिशं वावच्यमानो शुचिः ॥ २१ ॥
* इयमेव प्रशस्तिः व्यवहारसूत्र द्वितीयखंडपुस्तकप्रान्तेऽपि लिखिता लभ्यते । तत्र, इदं पद्यमेतद्रूपं विद्यते-.. त्याकर्ण्य सकर्णः ततस्खविभवैः सुपुस्तकेऽस्मिन् । सत्पत्रैर्व्यवहारद्वितीयखंडं व्यलीलिखत ॥२०॥
पुनः कल्पसूत्रभाष्यादिसंप्रहपुस्तकस्य-संवत् १३२१ वर्षे लिपिकृतस्य-प्रान्तभागेऽपीयं प्रशस्तिलिखिता दृश्यते । तत्रेदमन्त्यपद्यमीग् पठ्यते इत्याकर्ण्य ततो निजविभवैः श्रीकल्पसूत्रभाष्यस्य । श्रीपंचकल्पचूर्णेश्व पुस्तकं लेखयामास ॥२०॥
(द्रष्टव्यम्, पिटर्सन रीपोर्ट पु. ३, पृ० १८०-१८२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org