________________
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
इत्येवमादिप्रमुखेषु सूरिवर्येषु गच्छत्सु कथाऽवशेषम् । भद्रेश्वरः सूरिरजायतास्मिन् मुनीश्वरस्तारितभव्यलोकः ॥ ३ ॥ तच्छिष्योऽप्यथ चंद्रगच्छतिलकः श्रीदेव भद्राभिधः, सूरिर्भूरिगुणालयः सुविहितश्रेणीधुरीणोऽभवत् । अक्लेशेन बभार मारविजयी श्रामण्यभारं पृथग्- भागीकृत्य सुदुर्वहं खवपुषा सैकादशांगेन यः ॥ ४ ॥
1
श्रीसिद्धसेनसूरिस्तत्पट्टविशेषको जयति यस्य । कलिकोपमानसहिता दशनावलिरेव न तपः श्रीः ॥ ५ ॥ 5 जिग्ये देवगुरुर्येन विद्यया निरवद्यया । आचार्यवर्यः समभूद् यशोदेवगुरुस्ततः ॥ ६ ॥ अदृष्टदोषस्तमसां निहन्ता भव्यारविन्दप्रतिबोधहेतुः । ततो विवखानिवं मानदेवः सूरिर्यशः पूरितदिग्वितानः ॥ ७ ॥ ततोऽभूच्चारुचारित्रचर्यामर्यादयांबुधिः । श्रीमत्रत्नप्रभाचार्यो धुर्यो माधुर्यशालिनाम् ॥ ८ ॥ तत्पादाम्भोजभृङ्गः प्रवरगुणयुतः सर्वसिद्धान्तवेत्ता, ज्ञानादिश्रीनिवासः स्मरकरिदमने सिंहपोतः सतेजाः । मायाद्यैर्दोषजालैः प्रविरहितवपुः शर्करा मिष्टवाक्य- न्यासः श्रेयः शिवश्रीं दिशतु भुवि सदा सूरिदेवप्रभोऽथ ॥ ९ ॥ व्याख्यास्यतस्तस्य गुरोर्मुखाब्जाद्येनागमं संसदि साधुवृत्तः ।
कुटुंबयुक्तः कटुको महात्मा शुश्राव सिद्धान्तरहस्यमेतत् ॥ १० ॥
चक्रे मुक्तिवधूः स्वहस्तकलिता त्रैलोक्यलक्ष्मीरपि, स्वायत्ता विदधे च दुर्गतिगतिस्तेनैव रुद्धात्मनः ।
येन खं भुजपंजरार्जितमिदं वित्तं गुरोराज्ञया, सिद्धान्ताद्भुत पुस्तकस्य लिखने साफल्यमारोपितं ॥ ११ ॥ इत्याकर्ण्य वचः सुधाकवचितं वक्त्राम्बुजात्सद्गुरोः साधुः साधितमुक्तिमार्गमतिकः सद्भावनाभावितः । 15 वर्षे सिद्धि-वियंत्कृशानु-विधुभिः संख्याकृते श्रेयसे, पित्रोः सुन्दरमुत्तराध्ययनकं ग्रन्थं मुद्दालीलिखत्॥१२॥ न केवलं पुस्तकमेकमेव विलेखयामास गुरोर्भणित्या ।
निवेशयामास गुरोः पदे च रत्नाकरं सूरिवरं गुरुं यः ॥ १३ ॥
नक्षत्राक्षतपूरितः
'II
मंगलमस्तु । प्रशस्तिरियं कृता लिखिता च श्रीरत्नाकरसूरिभिः । मंगलमस्तु श्री श्रमण संघस्य ॥
३२
10
20
[२९]
पल्लीवालवंशीय-वरहुडियान्वय-श्रे० लाहड लेखित व्यवहारसूत्रादिपुस्तकप्रशस्तिः * । [ लेखनकाल १३०९ विक्रमाब्द ]
वरहुडिया साधु० राहडसुत सा० लाहडेन श्रेयोऽर्थं व्यवहार आद्यखंडं लिखापितमिति ॥ ४ ॥ संवत १३०९ वर्षे भाद्रपद सुदि १५ ॥
25 अस्तीह श्रेष्ठपर्वप्रचयपरिचितः क्ष्माभृदाप्तप्रतिष्ठः, सच्छायश्चारुवर्णः सकलसरलताऽलंकृतः शस्तवृत्तः । पल्लीवालाख्यवंशो जगति सुविदितस्तत्रमुक्तेव साधुः, साधुत्रातप्रणता वरहुडिरिति सख्यातिमान् नेमडोऽभूत् १ तस्योच्चैस्तनया विशुद्धविनयास्तत्रादिमो राहडो, जज्ञेऽतः सहदेव इत्यभिधया लब्ध प्रसिद्धिर्जने । उत्पन्नो जयदेव इत्यवहितखांतः सुधर्मे रतः, तत्राद्यस्य सदा प्रिया प्रियतमा लक्ष्मी तथा नाइकिः ॥ २ ॥
* एतत्प्रशस्तियुक्तानि ताडपत्रमयपुस्तकानि स्तम्भतीर्थे शान्तिनाथमन्दिरस्थित भाण्डागारे विद्यन्ते । 'संवत् १३०७ वर्षे' लिपिकृते अभयदेवसूरिरचित-ज्ञाताधर्म सूत्रवृत्ति पुस्तकेऽपि एषा प्रशस्तिर्लिखिता लभ्यते । द्रष्टव्यम् - पिटर्सन्, रीपोर्ट पुस्तकं ३, पृ० ६०-६३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org