________________
जैनपुस्तक प्रशस्तिसङ्ग्रह ।
साढाकनामा सुविशुद्धमध्यस्यासादिदोषैः परिवर्जितश्च । अजायतास्मिन्कुमुदावदातो सुक्तामणिर्भाखरकान्तिदीप्रः ॥ २ ॥
समुद्र इव गम्भीरः शशाङ्क इव शीतलः । दानवर्षी राज इव साढाकः श्रावकोऽभवत् ॥ ३ ॥ साढाकस्य सुताः पश्च जज्ञिरे पाण्डवा इव । येऽर्थिसंघातजातानां कौरवाणां क्षयं व्यधुः ॥ ४ ॥ सर्वेऽपि धर्मरसिकाः सर्वेऽपि हितभाषिणः । पुमर्थसाधनपराः सर्वे जनहितैषिणः ॥ ५ ॥ आद्य आशाधरस्तेषां प्रमुखो गुणशालिनां । महीधरो द्वितीयस्तु गुणग्रामैकमन्दिरं ॥ ६ ॥ बोल्हानामा समभूतृतीयो हारवद् गुणी । शशाङ्ककाशशङ्काशयशःपूरितभूतलः ॥ ७ ॥ यशोवीरश्चतुर्थोऽभूद्दानेश्वरशिरोमणिः । लोकोत्तरचरित्रोऽभूत्पञ्चमः पाजडस्तथा ॥ ८ ॥ महीधरस्य संजज्ञे सजातोज्ज्वलपुत्रका । गेहिनी देहिनीव श्रीः महाश्रीरिति संज्ञिता ॥ ९ ॥ केल्हणो नाम संजातस्तनयस्सनयस्तथा । सद्गुरुचरणद्वन्द्वस्तमाराधनतत्परः ॥ १० ॥ अजायत प्रिया तस्य कमलश्रीर्महायशा । सत्यापितसुभद्रादिसतीलोका गुणैर्निजेः ॥ ११ ॥ सागरा इव लावण्यकलिताश्चतुराशयाः । अजायन्त सुधर्मिष्ठाश्चत्वारस्तनयास्तयोः ॥ १२ ॥ चन्दनादपि मनोज्ञवागभूदाद्य एष कटुकस्ततः पुनः । रासलः सहजधर्म कर्मठो पेसलस्तु गुणशशिपेशलः ॥१३॥ गाङ्गाकस्तदनु गाङ्गवारिणा सन्निभः शुचितया विचक्षणः । देवपूजनरतो निरन्तरं वासनारसनिवासमानसः ॥ १४ ॥ बल्लभास्तदनु जज्ञिरे क्रमात् शीलभूषण विभूषिताङ्गकाः । भर्तृपादपद्मकदृष्टयो मूर्तिभाज इव सङ्गाताश्रियः ॥ १५ ॥ पल्न्योऽभूवन्कुलोत्पन्ना निःसपत्नाः प्रियम्वदाः । पद्मश्रीश्चेति राज्यश्री- लक्ष्मीश्रीरिति संज्ञिताः ॥ १६ ॥ पद्मश्रियास्त्रयः पुत्राः सञ्जाताः शुद्धबुद्धयः । प्रवाहा इव गङ्गाया जगतीपावनक्षमाः ॥ १७ ॥ प्रथमो मोहनस्तेषां जनमानसमोहनः । द्वितीयो विजयपालो बालोऽपि हि महामतिः ॥ १८ ॥ तृतीय लिंबदेवाख्यो मातुरत्यन्तवल्लभः । सहकारसमाकारो निवासः सम्पदामिव ॥ १९ ॥ आजुका च सुता जाता बाल्यादपि महासती । तपःकर्मणि सर्वस्मिन्निरता विरता भवात् ॥ २० ॥ द्वितीया महणूनाम सञ्जाता तनया तथा । राज्यश्रियाः सुता जाता बनुलूनाम विश्रुता ॥ २१ ॥ श्रिया च तनया जाता गोसली नाम सूपभाक् । प्रतध्माना चन्द्रस्य कलेव विमलाकृतिः ॥ २२१ तथा यशोवीरस्य संताने सुतो नरपतिस्तथा । शिरपालश्च सञ्जातः शांतिगस्तत्सुतोऽभवत् ॥ २३॥ पाजडस्य प्रिया जज्ञे जयश्रीर्नामविश्रुता । तथा सुतद्वयं जातं छाडा - आसलनामकम् ॥ २४ ॥ छाडाकस्य प्रिया यज्ञे लीलीकेति विशालवाक् । आसलस्य तथा जाता जाया आसमतिः शुभा ॥ २५ ॥ 25
15
तस्याः सुतत्रयं जातं आद्यो जगधरस्तथा । द्वितीयः सूरको नाम तृतीयो धीधलः पुनः ॥ २६ ॥ धीलधस्य प्रिया यज्ञे लाबूरिति शुभाशया । * इत्येवमादि सकलं साढाकस्य कुटुम्बकम् ॥ २७ ॥
इतश्च -
श्रीमान् सत्त्वगृहं गभीरिमनिधिर्निःशेष भूभूषणैर्व्याकीर्णः शुचिसाधुरलनिकरैः पाठीनपीठान्वितः । संसेव्यः सुमनोभिरक्षयगुणात्ज्ञानामृतोत्कंठितै-र्नन्द्याद्दूरमपारसंवरवरः श्रीचन्द्रगच्छार्णवः ॥ १ ॥ आद्यश्रीनन्न सूरिः समजनि जनिताशेषदोषप्रमोषः, सद्वादींद्वैरजय्यो गुरुरमितयशो वादिसूरिततश्च । सूरिः श्रीसर्वदेवस्तदनु समभवद्वादिवृंदैकवंद्यः, श्रीमान्प्रद्युम्न सूरिः सकलकलिमलक्षालने वारिपूरः ॥ २ ॥
* पिटर्सनस्य ३ रीपोर्ट पुस्तके ( पृ० ८६ ) इयं प्रशस्तिः इत एवारभ्य मुद्रिता लभ्यते । साढाककुटुंबवर्णनात्मकः सर्वोऽप्युपरितनभागः परित्यक्तोऽस्ति ।
Jain Education International
३१
For Private & Personal Use Only
5
10
20
30
www.jainelibrary.org