________________
10
जैनपुस्तकप्रशस्तिसङ्ग्रह । प्रातः प्रयातः सुगुरोः समीपे, तदेव तत्रैव तथा निशम्य । ततः प्रबोधार्कसुदृष्टवस्तुना, समाधिना ध्यायति सर्वमप्यदः ॥ १९॥
तथाहिदेहं दुःखैकगेहं जलनिधिलहरीचंचलं जीवितव्यं, संपत्तिः प्राणभाजां प्रसृमरपवनोद्धृतकेतूपमेया । 5 सौंदर्य सुश्रुनेत्रांचललुलितसमं बंधुसंगोऽप्यनित्यो, जैन धर्म विनान्यन्नहि मनुजभवे शाश्वतं किंचिदस्ति ॥ २० ॥
दानशीलतपोभावभेदैर्धर्मश्चतुर्विधः । मुख्यतो यतयो दानमेवैकं संप्रचक्ष्यते ॥ २१॥ यद्यपि त्रिविधं शास्त्रं तद्दानं ननु विश्रुतम् । तथापि ज्ञानदानान्नो दानमन्यत्प्रशस्यते ॥ २२ ॥ ज्ञानं श्रुताश्रितं प्रोक्तं श्रुतं शास्त्रमिति स्मृतम् । तच्च द्विधा समाख्यातं कल्पिता-चरितक्रमात् ॥ २३ ॥ तदृद्वयोोतितं किंचिच्चरितं सुनिरूपये । इति चिंतयतस्तस्य स्मृतिगोचरतां गतम् ॥ २४ ॥
चरित्रं समरादित्यभूभुजः प्रशमास्पदम् । संसारिजीववैराग्यरसनिस्पंदभाजनं ॥ २५ ॥ द्वेषव्याघ्रहुताशनं शमधुनीपूरार्णवं दुर्णय-ध्वांतध्वंसनभास्करं कलिमलप्रक्षालनैकामृतम् । एतत्सच्चरितं सुचारु समरादित्येशितुः शास्त्रतो, बद्धं श्रीहरिभद्रसूरिगुरुणा संवेगसंगाय नः ॥ २६ ॥ यदिष्टं वस्तु संसारे तदिष्टेषु नियोज्यते । अन्यदिष्टं हि नो दृष्टं मातरं पितरं विना ॥ २७ ॥
इति मातृजयतुकाया निजपितृजाजाह्वयस्य पुण्याय । 15
समरादित्यचरित्रं विलेखितं लाषणेनैतत् ॥ २८॥ येन द्रव्यमुपार्जितं शुभवशादेकांतवीरेण तत् , क्षेत्रे सप्तमिते निवेश्य विहिता सद्वृत्तिरूपा वृतिः । तत्सीग्नि प्रकटो जिनेशसुगुरोरादेशतः शाश्वतो, जैनः श्रीसमरार्कपुस्तकतया घाटः समारोपितः ॥ २९ ॥
नंद-नेव-भानुवर्षे पित्रोः सुकृताय लाषणः कुलजः ।
समरादित्यचरित्रव्याख्यानं कारयामास ॥ ३०॥ 20 यावन्नालति नागराट् नलिनति क्षोणीतलं दिगतति-यंत्र स्तोमति केसरत्यहिमरुक् किंचांबरं गति । तावत्तत्समराभूपचरितं चैतन्यविस्तारकं, श्रोतृणां समसंपदं वितनुतां व्याख्यायमानं बुधैः ॥ ३१ ॥ नंद-नव-भीनुवर्षे श्रीरत्नप्रभसूरिणा शुभध्यानात् । श्रीस्तंभतीर्थनगरे व्याख्यातं कार्तिके मासि ॥ ३२ ॥
[२८] धर्कटवंशीय-श्रेष्ठिकटुक-लेखित-[ नेमिचन्द्रसूरिकृत ] उत्तराध्ययनसूत्रलघुवृत्ति-पुस्तकप्रशस्तिः ।
[लेखनकाल १३०८ विक्रमार्क ] सं० १३०८ वर्षे ज्येष्ठ वदि ७ बुधे ॥ नमो जिनागमाय ॥
प्रशस्यधर्मप्रभवः सुपर्वा विशालशाखो वरपत्रशोभः ।
महीभृतां मौलिषु माननीयः श्रीधर्कटानां प्रथितोऽस्ति वंशः ॥ १ ॥ * एतत्प्रशस्तिसमन्वितं ताडपत्रमयं पुस्तकं स्तम्भतीर्थे शान्तिनाथमन्दिरस्थितभाण्डागारे विद्यते । द्रष्टव्यम्-पिटर्सन् रीपोर्ट पुस्तक ३, पृ. ८६-८९।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org