________________
जैनपुस्तकप्रशस्तिसङ्ग्रह । खातुः श्रेयसेऽलेखि ततस्तेन सबन्धुना । ज्ञाताधर्मकथाजादिषडङ्गी वृत्तिसंयुता ॥ ११॥ जंघरालाभिधस्थाने युगादिजिनमन्दिरे । सङ्घस्य पुरतो व्याख्यातैषा देवेन्द्रसूरिभिः ॥ १२ ॥ -सं० १२९७ वर्षे व्याख्यातमिति ॥
[२७] पल्लिपालवंशीय श्रेष्ठिलाखण-लेखित-समरादित्यचरित-पुस्तकप्रशस्तिः। 5
[लेखनकाल १२९९ विक्रमाब्द] वंशः श्रीपल्लिपालोऽस्ति सशाखः सत्पर्ववान् । भूभृतोऽप्यधरीचक्रे येनैकच्छत्रितात्मना ॥१॥
अजनि विनयपात्रं तत्र पुंरत्नचूडा-मणिरमलिनकीर्तिः साढदेवाभिधानः ।
निरुपमजिनराजस्मेरपादारविंदा-ऽविचलविहितसेवावाप्तविश्वप्रतिष्ठः ॥ २ ॥ शीलवतदृढा सासंज्ञिता तस्य वल्लभा । जिनक्रमयुगांभोजे यन्मनो हंसकायते ॥ ३ ॥
10 भ्राताऽभूत् साढदेवस्य दोसलः सत्यशालिनः । पदमीनामधेयाथ प्रिया तस्य विवेकिनी ॥ ४ ॥ आसीत् श्रेष्ठिकसाढदेवतनुभूर्जाजाकनामा जिन-श्रेणिध्याननिशाणशोणितमतिप्राकाश्यनश्यत्तमाः। शश्वद्यस्य यशःप्रसूनमसमं राकानिशानायक-ज्योतिःक्षालितनिर्मलांबरतलामोदाय यजातवान् ॥ ५ ॥ जाया तस्य जयत्तुका समभवदीनानुकंपारसा-ऽऽसारासिक्तविवेककंदलवनप्रस्तारबद्धादरा । नित्यध्यातजिनेश्वरांघ्रिनखरुग्ध्वस्तांधकारांकुरो, यस्याश्चित्तगृहोदरे प्रतिपदं धर्मः सुखं खेलति ॥६॥ पुत्रो लाषणसंज्ञितोऽजनि तयोः पुण्यैकपात्रं कृती, नीतिज्ञो विनयी नयी सुकुलजो दक्षः क्षमादक्षिणः । येनोतुंगनिजावयाइयमहाप्रासादमूर्ध्नि स्फुटं, दिग्विस्तारियशःसुकेतनपटः प्रस्तारयामासिवान् ॥ ७॥
जाजाकस्साभब्रह्माता जसपालाभिधः सुधीः । संतुकासंज्ञिता तस्य दयिता दानशालिनी ॥८॥
जातौ तयोः सुतौ रन-धनसिंहाभिधावसी । भगिनी नाउका नामी बभूवानायभूषणं ॥९॥ जायाऽजायत लाषणस्य कुलजा दानोद्यता रुक्मिणी, नाम्ना दीनसुवच्छलाऽवयविनी पुण्ये दिरा मंदिरे । 20 यस्या मानसपंकजं त्यजति नो पक्षद्वयीनिर्मलो, धर्मो हंसयुवा युतो वरलया तीर्थेशभक्त्याख्यया ॥ १० ॥
नरूपतिरिति नामा लाषणस्यांगजन्मा, तदनु भुवनपालाख्यो यशोदेवसंज्ञः ।
क्रमश इह तनूजा जज्ञिरे तस्य तीर्था-ऽधिपतिसुगुरुपूजालब्धलक्ष्मीविकाशाः ॥ ११ ॥ जाल्हणदेवीति सुता जासीनामा तथापरा पुत्री । सद्धर्मकर्मनिपुणा क्रमादिमा दुहितरोऽभूवन् ॥ १२ ॥ आसीत्कुलीनचरिता नायिकदेवीति नरपतेर्दयिता । अपरा च गौरदेवी तनुभूः सामंतसिंहाख्यः ॥१३॥ 25 प्रिया भुवनपालस्य पउंदेवीति संज्ञिता । बभूव भाग्यभूः शीलरत्नरत्नाकरावनिः ॥ १४ ॥ यशोर्णवस्य पत्नी सोहरासंज्ञा पतिव्रता जज्ञे । तस्याः समभवत्पुत्रः सांगणनामा स्फुरद्धामा ॥ १५ ॥
मातुस्तातो राजपालाभिधानो, मातुर्माता यस्य राणीति नाम्नी।
___ मातुर्माता राणिगो बूटडिश्च, मातुः पक्षो लाषणस्येत्थमुक्तः ॥ ६ ॥ श्रीमजिनेशप्रभुहस्तपद्मा-धिवासतो लाषणनामधेयः । तीर्थेशयात्रादिककर्मनिर्मलः, कुलप्रदीपः सुजनोपकारी ॥१७॥ 30 अथान्यदा लाषण एष हृष्टः, सुदृष्टशास्त्रार्थविनीतचेष्टः । भवखरूपं क्षणदृष्टनष्टं, विभावयामास निशावसाने ॥१८॥
15
* एतत्प्रेशस्तिसमन्वितं पुस्तकं स्तम्भतीर्थे शान्तिनाथमन्दिर-भाण्डागारे विद्यते । द्रष्टव्यम् , पिटर्सन रीपोर्ट पुस्तक ३, पृ० ११८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org