SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह | ३५ बहुदेवस्तु तृतीयो यश्चारित्रं च सूरिपदवीं च । संप्राप्य नाम लेभे सूरिः श्रीपद्मदेव इति ॥ २० ॥ चतुर्थ आमणश्चारुगुणमाणिक्यमंडितः । पंचमो वरदेवाख्यः सत्संख्य विहितोद्यमः ॥ २१ ॥ षष्ठः पंडितसंहतिचतुरःःस्फूर्जद्यशा यशोवीरः । आचार्यपदे लेभे श्रीपरमानंद इत्यभिधाम् ॥ २२ ॥ सप्तमो वीरचंद्राख्यो जज्ञेऽनूनगुणावलिः । समभूज्जिनचंद्राहः प्रकृष्टवपुरष्टमः ॥ २३ ॥ वोहडिजविल्हणस्य च पुत्र चतुष्टयमनूनगुणरूपम् । रूपिणिकुक्षिसरोवर कलहंसनिभं विवेकयुतम् ॥ २४ ॥ आशापालः कीर्तिवल्यालवीलः सीधूनामा भूरिधामा द्वितीयः । तार्त्तीयीकोऽभूज्जगत्सिंघसंज्ञस्तूर्यः सूनुः पद्मसिंहाभिधानः ॥ २५ ॥ वीरीति पुत्री सुगुणैः पवित्रा मनोहरा सा हरिणीसुनेत्रा । अभूच्छुभाचारपवित्रपात्रा सद्रूपलावण्य विशुद्धगात्रा ॥२६॥ जग्राह यः पुत्र इह तृतीयः कामप्रदां संयमराज्यलक्ष्मीं । क्षिप्रं तथा सूरिपदं च लेभे सुदुर्लभं पुण्यवतापि पुंसा ॥२७॥ प्रथमस्यास पालस्य खेतुका कुक्षिसंभवाः । सज्जनोऽभयसिंहाख्यस्तेजाकः सहजः सुताः ॥ २८ ॥ सीधुकाख्यद्वितीयस्य सोहरेत्यभवद्वधूः । अंगण्यपुण्यदाक्षिण्यलावण्यादिगुणान्विता ॥ २९ ॥ तूर्यस्य पद्मसिंहस्य वालूनाम्नी प्रियाऽभवत् । सुतस्तयोः समुत्पन्नो नागपालाभिधः सुधीः ॥ ३० ॥ किंच - रूपं बलं च विभवो विषयाभिसंगो नीरोगता लवणिमा प्रियसंप्रयोगः । वातावधूतपटचंचलमेव सर्वं विज्ञाय धर्मनिपुणैर्भविभिर्विभाव्यम् ॥ ३१ ॥ अंगुष्ठमात्र यो बिंबं कारयत्यर्हतां बुधः । सिद्धिनारीपरीरंभभवं स लभते सुखं ॥ ३२ ॥ न मनः पर्ययमवधि न केवलज्ञानमत्र नैवास्ति । पुस्तक लिखनंमेतत्तद्यष्टिर्दृष्टिहीनानाम् ॥ ३३ ॥ श्रीरत्नप्रभसूरेर्गुरोः सकाशान्निजस्य सद्धंधोः । संसारांभोधितरीं श्रुत्वेत्यथ देशनां विशदाम् ॥ ३४ ॥ डाहापद्रपुरे चैत्ये कारयामास भावभाक् । श्रीमतः सुमतेर्बिंबमर्हतस्त्रिजगत्पतेः ॥ ३५ ॥ आलेखयत्सैष किलासपालः श्रेयः श्रिये स्वस्य पितुः प्रधानम् । विवेकमंजर्यभिधां दधानं सत्पुस्तकं निर्वृतिदीपकल्पम् ॥ ३६ ॥ यावत्पूर्वाद्रिशृंगोदित इह जगति स्वप्रतापेन हंति, प्रोद्यन्नीली विनील तिमिरभरभरं तापनस्तत्समंतात् । यावच्छेषाहिराजः क्षितिवलयमसौ स्फूर्त्तिमान्संबिभर्ति, श्रेयोधिष्ठानयानप्रवरर" भः पुस्तकस्तावदास्ताम् ॥ ३७ ॥ - लोचन - विष्ट पात्रिनयनप्रोद्भूत (१३२२) संवत्सरे, मासे कार्तिकनाम्नि चंद्रसहिते कृष्णाष्टमीवासरे । वृत्तिर्निर्वृतिमार्गदीपकलिका तुझ्या विनीतात्मना, रामेण खयमादरेण लिखिता नंद्यादनिंद्याक्षरा ॥ ३८ ॥ प्रशस्तिः समाप्ता || शुभमस्तु ॥ पूज्यश्री प्रद्युम्नसूरिभिः प्रशस्तिः शोधितेति ॥ ५ ॥ [३१] ऊकेशवंशीय श्रे० सपुण्य-लेखित कल्पसूत्र- कालिकाचार्य कथा - पुस्तिकाप्रशस्तिः * । [ लेखनकाल १३४४ विक्रमाब्द ] केशवंशे भुवनाभिरामच्छायासमाश्वासितसत्त्वसार्था । शौराणकीयाsस्ति विशालशाखा साकारपत्रावलिराजमाना ॥ १ ॥ * इयं ताडपत्रीया पुस्तिका पत्तने संघवीपाडा स्थित भाण्डागारे विद्यते । Jain Education International For Private & Personal Use Only 5 10 15 20 25 30 www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy