________________
जैनपुस्तकप्रशस्तिसङ्ग्रह । प्रथमोऽजनिष्ट तेषां पार्श्वकुमाराभिधो गुणैः प्रथमः । विनयद्रुमालवालः पित्राज्ञापालनप्रवणः ॥ २६ ॥ बभूव प्रेयसी तस्य पृथ्वीदेवीति नामतः । विनीतविनया नित्यमौचित्यप्रियकारिणी ॥ २७ ॥ तदनु तनयो द्वितीयः समजनि धनसिंहनामको विनयी । निर्मलकलाकलापस्त्रैणक्रीडादिरभिरामः ॥ २८॥
नाम्ना धांधलदेवीति संजज्ञे तस्य गोहनी । पुष्ट्या वार्जितश्लाघा श्लाघ्यकाभिरंजिका ॥ २९ ॥ ततस्तृतीयोऽजनि रत्नसिंहः संतापकारिव्यसनेमसिंहः । दूरं परित्यक्तविरुद्धसंगः श्रीमजिनेंद्रक्रमपद्मभृगः ॥ ३०॥ तस्याजनिष्ट दयिता नाना राजलदेविका । पेथुकाख्या तयोः पुत्री समस्तानंददायिनी ॥ ३१ ॥
अनन्यसौजन्यजनानुकीर्णो विवेकलीलोज्ज्वलचित्तवृत्तिः ।
सार्वत्रिकौचित्यनिधिप्रवीणो जज्ञे जगत्सिंहसुतश्चतुर्थः ॥ ३२ ॥ पत्नी जाल्हणदेवीति नाम्ना तस्य समजनि । कुत्राप्यनुत्सेकवती प्रदानविनयान्विता ॥ ३३ ॥ सोलुकाख्या ततः पुत्री बभूव प्रियवादिनी । यस्याः शीलजलैः शुद्धैः पुण्यवल्ली प्रवर्द्धिता ॥ ३४ ॥ 10
पत्नी ततोऽजायत पाल्हणस्य माणिक्यमालास्फुरदंशुशीला ।
जिनोपदेशश्रुतिकर्णसारा कृपाप्रपा माणिकिनामधेया ॥ ३५ ॥ समजनि तयोस्तनूजो वरणिगनामा समस्तगुणपात्रम् । निखिलसुकुलैकधुराधुरंधरः स्मितमधुरभाषी ॥ ३६॥
बभूव प्रेयसी तस्य धनदेवीति विश्रुता । दाक्षिण्योज्ज्वलशीलेन सर्वेषां मोददायिनी ॥ ३७॥ अजायत ततस्तिस्रः शीलालंकरणाः सुताः । कर्पूरदेवी-भोपलदेव्यो वील्हणदेव्यपि ॥ ३८॥ 15 अभूदेवकुमारस्य प्रेयसी छडिकाभिधा । पतिव्रता समाचारचातुर्यार्जितसद्यशाः ॥ ३९॥ कुमारपालसुतोऽभूत् पितुराज्ञोद्यतस्तयोः । जिनशासनानुरागी विरागी दोषवस्तुषु ॥ ४० ॥
विवेकरविरन्येद्युः स्फुरति स्मातिनिर्मलः । संतोषाय मानसादेर्विद्राविततमस्ततिः ॥ ४१ ॥ घातत्रस्ततुरंगमांगतरलाः संपत्तयोत्यूर्जिताः, लुभ्यल्लुब्धकबिभ्यदर्भकमृगीचंचलं यौवनम् । चंचप्रेमतडिल्लताधुतिचलं चैतत्तथा जीवितं, मत्वैवं जिनधर्मकर्मणि मतिः कार्या नरैः शाश्वते ॥ ४२ ॥
सोऽनंतसुखनिदानो धर्मोऽपि ज्ञायते श्रुतात् । श्रुतं च पुस्तकाधीनं तत्कार्यः पुस्तकोद्यमः ॥ ४३ ॥. पुस्तकं लेखयामास खसुः श्रेयोर्थमांबडः। संतोषनाम्न्याः स्नेहेन पाल्हणभ्रातृसंयुतः ॥ ४४ ॥ प्रोद्यन् यावदसौ बिभर्ति तपनः प्राचीपुरंधीमुखे, कांतिव्यक्तदिशं सुवर्णतिलकश्रीसंनिभं विभ्रमम् । श्रीनामेयजिनस्य चारु चरितं तावत्कथाश्चर्यक-नन्द्यादत्र विचार्यमाणमनघप्रज्ञैः सदा सौविदैः ॥ ४५॥ [२५]
25 धर्कटवंशजात-निर्मलमतिगणिनी-लेखित-योगशास्त्रवृत्तिपुस्तिकाप्रशस्तिः ।
[ लेखनकाल १२९२ विक्रमाब्द] भासीचंद्रकुलांबरैकतरणिः श्रीमानदेवाभिध-स्तद्वंशे प्रभुमानतुंगगणभृत् प्राज्यप्रभावः प्रभुः । तत्राजायत बुद्धिसागरगुरुः प्रद्युम्नसूरिस्तत-स्तच्छिष्योऽजनि देवचंद्रगणभृद् गच्छाग्रणीर्विश्रुतः ॥ १ ॥
श्रीदेवचंद्रस्य मुनीश्वरस्य जातौ सुशिष्यौ जगति प्रशिष्यौ।। श्रीमानदेवः प्रथमो गणेशः श्रीपूर्णचंद्रो गणभृत्तथान्यः ॥ २ ॥
20
30
* एतत्त्रशस्तिसहितं ताडपत्रात्मकं पुस्तकं स्तम्भतीर्थे शान्तिनाथमन्दिरभाण्डागारे विद्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org