________________
5 तेषां जविष्ठोऽजनि भांडशाली ख्यातो गुणैर्लोलकनामधेयः । श्रीमज्जिनाज्ञाकरणप्रतिज्ञाविभूषणं वक्षसि यस्य जज्ञे ||५|| शुद्धात्माऽजनि भांडशालिकयशश्चन्द्राभिधानोऽपरः, श्रीमद्देवगुरुप्रयोजनविधौ बद्धादरोऽनारतं । येनौदार्यगुणैरनर्गलतरैरावर्य विश्राणिता, पात्रेषु स्थिरता प्रवर्तनकृते लक्ष्मीर्मनः खीच्छया ॥ ६ ॥ ततोऽभवद्देवकुमारनामा सुतो गुणैर्देवकुमारमूर्त्तिः । प्रवर्त्तयन्निः कपटं जिनानां वर्यां सपर्यामवदातचित्तः ॥ ७ ॥ लोलाकस्याभवद्भांडशालिनो भांडशालिनी । लक्ष्मीरित्यभिधानेन जिनपूजापरायण ॥ ८ ॥
भांडशालिनो द्वौ पुत्रौ लोलाकस्य बभूवतुः । धंधूकाभिधः प्रथमः श्रीमदाद्यजिनार्चकः ॥ ९ ॥ वाहिनी गेहिनी तस्य बभूव प्रियवादिनी । यशोवीरस्तयोः पुत्रः सुशीला सिंधुका सुता ॥ १० ॥ धर्मोच्छृंखलभांडशालिकयशश्चंद्रस्य दानप्रिया, नित्यौचित्यविनीततार्जवगुणालंकारशृंगारिता । वर्यौदार्यगुणैर्विवेकविशदैर्दूरं यया रंजिता, आत्मन्यप्रतिमप्रमोदपरतां नीताः समस्ता जनाः ॥ ११ ॥ सा जज्ञे गेहिनी नाम्ना जिंदिका भांडशालिनी । सुकृतोपार्जिका श्रीमद्देवसद्गुरुपूजया ॥ १२ ॥ यशश्चंद्रस्य जज्ञाते द्वेऽपत्ये भांडशालिनः । खगृहश्रियः सीमंतमौक्तिकतिलकोपमे ॥ १३ ॥ आद्या पुत्री समजनि वरा राजिका नामधेया, मंदाकिन्युल्लसितलहरीशी लसं भूषितांगी । यस्या अंतःकरणमृदुतासंगतं जंतुजातं, लक्ष्मीः साक्षादिव निजगृहे जंगमा याऽवतीर्णा ॥ १४ ॥ ठकुरशोभनदेवस्तामथो परणीतवान् । संतोषभूषिता जाता संतोषाख्या तयोः सुता ॥ १५ ॥
श्रीसर्वज्ञपदांबुजार्चनरतिः संप्राप्तपुण्योन्नतिः, किंचिन्मीलितमालतीदलभरखच्छेऽतिशीले मतिः । भक्त्यावेशसमुल्लसद्गुरुनतिर्विस्तीर्णदानस्तति-र्निच्छद्मैकतपोविधानवसतिर्यस्या गुणैः संगतिः ॥ १६ ॥ दाक्षिण्योदधिभांडशालिकयशश्चंद्रस्य पुत्रोऽपरो, धर्मोद्दामनरायणी रिह यशःपालाभिधः शुद्धधीः । पण्यस्यापि न केवलैव महती भांडस्य शाला कृता, श्रीआद्यं वरिवस्यतां जिनपतिं येनात्र धर्मस्य च ॥ १७ ॥ भांडशालियशःपालस्याभवज्जय देविका । औदार्यशीलप्रमुखैः प्रेयसी श्रेयसी गुणैः ॥ १८ ॥ अभवंस्तयोस्तनूज़ाः सच्चरित्रास्त्रयो गुणैः । आनंददायिनः पित्रोरन्योन्यं प्रीतिशालिनः ॥ १९ ॥ आद्यः सुतः संश्रितधर्म्मकर्मा विवेकवेश्माजनि पार्श्वदेवः । अभ्यर्थन .....भीरुः प्रकल्पित श्रीजिननाथसेवः ॥ २० ॥ अन्यो बभूवांबडनामधेयः कस्याप्यसंपादित चित्तपीडः । खकीयसंतानधराधुरीणः स्ववेश्मलक्ष्मीहृदयै कहारः ॥ २१ ॥ सर्वौचित्याचरणनिपुणः प्रीतिपूर्वोभिलापा
10
15
20
25
२६
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
वंशे तत्र बभूव मौक्तिकसमः सद्वृत्तशैत्याश्रितः ख्यातो लल्लकभांडशालिक इति खच्छखभावान्वितः । चित्रं छिद्रसमुज्झितोऽपि नितरां भूत्वा गुणानां पदं, विश्वप्राणिहृदि व्यधत्त वसतिं यच्छद्मवंध्याशयः ॥ २ ॥ तस्याभूल्ललना नाम्ना लल्लिकाभांडशालिनी । शीलमुक्तावली कंठे यया दधे समुज्ज्वला ॥ ३ ॥ संतस्तयोस्त्रयः पुत्राः पवित्राश्चरितैः शुभैः । अजायंतागारभारोद्धारधुर्यत्वविश्रुताः ॥ ४ ॥
30
........... तातयीकस्तदनु तनुजः पाह्रणाख्यो बभूव ॥ २२ ॥
पार्श्वदेवस्य संजज्ञे पद्मश्रीनामिका प्रिया । यस्याः पतिव्रतात्वेन स्वकुलं निर्मलीकृतम् ॥ २३ ॥ अथांबडस्योचितकृत्यदक्षा मंदोदरी नाम बभूव पत्नी ।
स्फुरद्विवेक ज्वलसारहारा खमंदिरे मूर्तिमतीव लक्ष्मीः ॥ २४ ॥
हरेरिव भुजदंडाश्चत्वारस्तनयास्तयोः । अजायंत सदाचारगृह भारधुरंधराः ॥ २५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org