________________
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
यो सुतः शोभनदेवनामा मुख्यो यशोदेव इति द्वितीयः । जातोऽभिजातो नृपमान्यतादिगुणैरशेषैर्भुवि सुप्रसिद्धः ॥ ७ ॥
तत्र शोभनदेवस्य ठकुरस्य गृहद्वयम् । सुहव महणूसंज्ञं सोडूनामा सुता पुनः ॥ ८ ॥ नाककायाः पाणिग्रहणं कृतवानसौ यशोदेवः । तत्रातिरत्नभूतेति रत्नदेवीति विदितेयम् ॥ ९ ॥ या शीतेब कलौ कलंकविकलप्रोल्लासिशीलोज्ज्वल, धर्मानुष्ठितिनिष्ठया त्रिभुवने प्राप्तप्रतिष्ठा हि या । लब्धागण्यवरेण्यपुण्यनिवहा या चैत्यकृत्यादिभि - ग्लनास्थानपुरा दिधार्मिकसभा प्रख्यातनामा च या ॥ १० ॥
ज्ञानं मोहमहांधकारदलने रत्नप्रदीपायते, ज्ञानं दुर्गति दुर्गकूपपतने हस्तावलंबायते ।
गंभीरे भगवारिधौ भवभृतां ज्ञानं सुपोतायते, ज्ञानं कामितवस्तुलाभविषये सत्कामधेनूयते ॥ ११ ॥ इत्येवं शुभदेशनां बहुविधां श्रुत्वा गुरूणां मुखा देषा दोषपराङ्मुखी जिनमते रक्ता विरक्ता भवे । सप्तक्षेत्रन्रिजार्श्वबीजवपनासक्ता विशेषात्पुन- नीनापुस्तक लेखने कृतमतिर्नारिह श्राविका ॥ १२ ॥ इतश्चतुर्भिः संबंधः
श्रीशीलगणसूरीशपूज्यपट्टप्रतिष्ठितैः । बाल्यादपि महापुण्यश्रेण्या नित्यमधिष्ठितैः ॥ १३ ॥ श्रीमानतुंग सूरिभिराराध्यैस्तत्र यज्जयंत्याख्यम् । प्रकरणमकारि शुभदं भगवत्यंगान्मनोहारि ॥ १४ ॥ तस्योपरि गुरुभक्त्या विदधे सुधिया मनोरमा वृत्तिः । श्रीमलयप्रभसूरिभिरिह या पूज्यैः प्रसन्नतमैः ॥ १५ ॥ तामिह सा नाऊका ज्ञानाराधनधिया सुगुरुभक्त्या । लेखितवती गुणवती महासती शुद्धशुभभावा ॥ १६ ॥ 15 यावच्चारुमरीचिसंचयचिते चंद्रार्कयोर्मंडले, राजेते गगनश्रिये मणिमये दिव्ये चलत्कुंडले ।
[ २४ ] गुर्जरश्रीमालवंशीय-आंबड- पाल्हण भ्रातृद्वयलेखित [ वर्द्धमानाचार्यकृत ] ऋषभदेव चरित्र पुस्तकप्रशस्तिः * ।
२५
ताराश्रेणिरियं पुनः सुकुसुमालंकार शोभावहा, तावत्पुस्तकमेतदद्भुततमं व्याख्यायतां सूरिभिः ॥ १७ ॥ स्वस्ति श्रीविक्रमनरेंद्रसंवत् १२६१ वर्षे अश्विनवदि ७ रवौ पुष्यनक्षत्रे शुभयोगे श्रीमदणहिलपाटके माहाराजाधिराजश्री भीमदेव कल्याणविजयराज्ये प्रवर्त्तमाने श्रीप्राग्वाटज्ञातीयश्रेष्ठिधवल-मरूपुत्र्या ठ० नाऊश्राविकया यात्ममेजन इंडितजालहस्तेन संकुशिकाने जयंती तदेवसूरीणां निजभक्त्या समर्पितमिति ॥ शुभं भवते ॥ मंगळ्सन्त ॥ संपर्क नहीशीः ॥
बेखमित्वा श्रीअजि- 20
हृद्यप्रोद्यदखर्वपर्वसुभगः सच्छाययाऽलंकृतः, सद्वृतोज्ज्वलमत्य मौक्तिकमणिर्भूभृत्प्रतिष्ठोन्नतः । प्रेंखत्पत्रपरिष्कृतः परिलसच्छाखावृतो गुर्जरः, श्रीमालाभिध इत्युदारचरितः ख्यातोऽस्ति वंशः क्षितौ ॥ १ ॥
* ताडैपन्नात्मकं पुस्तकमिदं पत्तने संघसत्कभाण्डागारे विद्यते । द्रष्टव्यम् - पिटर्सन् रिपोर्ट पुस्तक ५, पृ० ८१ ४ जै० पु०
[ लेखनकाल १२८९ विक्रमाब्द ]
संवत् १२८९ वर्षे माघवदि ६ भीमावचेह श्रीप्रल्हादनपुरे समस्त राजावली समलंकृतमहाराजाधिरा श्री सोमसिंहदेवकल्याणविजयराज्ये श्रीऋषभदेवचरित्रं पंडि० धनचंद्रेण लिखितमिति ॥ मंगलं महाश्रीरिति भद्रम् ॥
Jain Education International
5
For Private & Personal Use Only
10
25
30
www.jainelibrary.org