SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह । आबाल्यादपि येन पूर्णविधिना भक्त्यार्चितः श्रीजिन-स्तात्पर्यादतिसेविताः सुगुरवोऽभ्यस्तं च शास्त्रं परम् । आत्मीयैर्विनयादिभिर्वरगुणैराचंद्रकालं कलौ, चंद्रांशूज्वलकांतकीर्तिरतुला खल्पैदिनैरर्जिता ॥ २२ ॥ योगशास्त्रवृत्तेर्देवधरेणात्मपुत्रसहितेन । निस्संगचित्तमुनिवत्सावद्यारंभरहितेन ॥ २३ ॥ साधुजनजनिततोषं निर्दोषं पुस्तकं प्रवरमेतत् । तस्यात्मसुतस्य जगद्देवस्य श्रेयसेऽलेखि ॥ २४ ॥ यदोषैरकलङ्कितं गुणगणैर्युक्तं मनोहारिभिनित्याभ्यासवशेन निर्वृतिकरं दिव्योक्तसाधुक्रियम् । श्रीभूपालकुमारपालसहितं श्रीहेमचन्द्रप्रभोः, कर्मव्याधिविबाधकं विजयतां तद् योगशास्त्रं सदा ॥ २५ ॥ सूर्याचन्द्रमसोर्यावद् द्योतयन्ते भुवं रुचः । अश्रान्तं पुस्तकं तावत् कोविदैर्वाच्यतामिदम् ॥२६॥ 10 स्वस्ति श्रीविक्रमनृपतः संवत् १२५१ वर्षे कार्तिकसुदि १२ शुक्र रेवती नक्षत्रे सिद्धयोगे महाराजश्रीभीमदेवविजयिराज्ये अवनिवनिताप्रशस्तकस्तूरिकातिलकायमानलाटदेशालंकारिणि सकलजनमनोहारिणि विविधधार्मिकविराजमानदर्भवतीस्थाने श्रीमालवंशीय श्रे० साभानंदनेन जगदानंदनेन निर्मलतमसम्यक्त्वधरेण श्रे० देवधरेण सकलधर्मकर्मावहितेन ठ० आमड-नरसिंहादिसुतसहितेन निजपुत्र जगद्देवश्रेयोनिमित्तं श्रीवटपद्रकपुरप्रसिद्धप्रबुद्ध पं० केशवसुत पं० वोसरिहस्तेनाशेषविशेषज्ञानवतश्चमत्का15 रकारीदमप्रतिमप्रतापश्रीजिनशासनप्रभावकश्रीकुमारपालभूपालविधापितस्य श्रीहेमचन्द्रसूरिविरचितस्य योगशास्त्रवृत्तिपुस्तकं लिखितमिति ।। ॥ मंगलं महाश्रीः। शुभं भवतु लेखकपाठक-वाचकानामिति ॥ [२३] प्राग्वाटवंशीय-नाऊश्राविका-लेखित-जयन्तीवृत्ति-पुस्तकप्रशस्तिः । 20 [लेखनकाल १२९१ विक्रमाब्द] दिव्यश्रीसदनं सदा क्षितिधराधारः सुपात्रास्पदं, क्षोणीमंडलमंडनं सुविदितः प्राग्वाटवंशोऽस्ति सः । यत्र च्छत्रपरंपरावति तते संप्राप्य पर्वस्थिति, जायतेऽद्भुतमत्र वांछितफलैः सौहित्यभाजो जनाः ॥१॥ मुक्तावत्तत्र वंशे समजनि विदितो धाहडः श्रेष्ठिवर्यः, सद्वृत्तः कांतकांतिः प्रवरगुणगणः प्रास्तनिःशेषदोषः । आनंदाधायिमूर्तिस्त्रिभुवनभवनोत्संगरंगत्सुकीर्तिः, स्फूर्जत्पुण्यप्रवाहोद्भववशविलसत्प्राभवत्स्फूर्तिमूर्तिः ॥ २ ॥ 25 नयविनयविततिविटपितसितांशुसितकीर्तिधवलितदशाशः । पुण्याचारपवित्रस्तत्पुत्रो धवलनामासीत् ॥ ३॥ अजनीह मरुसंज्ञा मरुस्थली पापपंकजवनस्य । तस्य प्रवरा जाया विशुद्धशीला विगतमाया ॥ ४ ॥ तत्पुत्री ठकुराणी समभवदसमक्षांतिविस्तीर्णशीला, नाऊनामा शशांकद्युतिधवलितगुणैः साधुशस्यैर्विशाला । धर्मानुष्ठाननिष्ठा विधिवशविकसत्कीर्तिसंभारसारा, प्राज्यस्फूर्जद्विवेकप्रतिहतविततोद्दामदुर्वारमारा ॥५॥ . इतश्च30 संजातोऽत्रैव वंशे निरुपममहिमा भाग्यसौभाग्यभूमिः, श्रीपालष्ठकुराठ्यः प्रथितशुचियशाः पालितप्राग्र्यनीतिः । दिव्यश्रीकेलिगेहं समजनि परमं मंडनं धाम लक्ष्म्याः , श्रीदेवी तस्य पत्नी विकृतिकलुषतालोलतानां सपत्नी ॥ ६॥ * एतत्प्रशस्तिसमन्वितं ताडपत्रमयं पुस्तकं स्तम्भतीर्थे शान्तिनाथमन्दिररक्षितभाण्डागारे विद्यमानमस्ति । द्रष्टव्यम्-पिटर्सन् रीपोर्ट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy