________________
10
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
[२२] श्रीमालवंशीय श्रे० देवधर-लेखित [हेमचन्द्रीय] योगशास्त्रवृत्ति-पुस्तकप्रशस्तिः ।
[ लेखनकाल १२५१ विक्रमाब्द] ग्रन्थश्लोक १२००१-संपूर्ण योगशास्त्रविवरणमिति । मंगलं महाश्रीः । भृङ्गीणामिव पक्षपातललितैर्लीलागृहं सुश्रियां, सुच्छायो विततोऽतिविस्मयकरः श्रीमालवंशोऽस्त्यसौ। 5 उद्यत्पर्वमनोहरे क्षितिधरप्राप्तप्रतिष्ठोदये, यत्र च्छत्रपरम्परा ननु परा दृश्यन्त एवानिशम् ॥ १॥ आसीद्वंशे वरगुणगणे तत्र मुक्तानुकारी, कांत्युल्लासैनिरुपमतमः साधुवृत्तानुसारी। शुद्धध्यानोपचितसुकृतो देवपूजादिनिष्ठः, श्रेष्ठी श्रेष्ठः सुनयविनयैः सामदेवो गरिष्ठः ॥२॥ पासिलाख्यः सुतस्तस्मादत्यद्भुतसुवैभवात् । सुमनोवर्गमुख्योऽभूजयन्त इव वासवात् ॥ ३ ॥ अगण्यपुण्यलावण्या तस्य पूनाविनामिका । सीतेव रामचंद्रस्य जाता पत्नी पतिव्रता ॥ ४ ॥ तौ सर्वदेव-साभाख्यौ तत्कुलव्योममण्डनं । जज्ञाते ज्ञातमाहात्म्यौ चन्द्रार्काविव विश्रुतौ ॥५॥ एतयोः सोहिणी मी भमकंदर्पशासना । जिनशासनधरा जज्ञे सज्ज्ञानांभोजदीर्घिका ॥ ६॥ श्रेष्ठिनः सर्वदेवस्य पार्श्वनागसुतोऽजनि । लक्ष्मीकुक्षिभवा शान्ता तस्य त्वामिणिरात्मजा ॥ ७ ॥ जाते सधर्मचारिण्यौ धर्मकर्मातिकर्मठे । साभाकस्य सदा भक्ते वीरी-चयजसंज्ञिते ॥ ८॥ वीरीकायाः सुते जाते जातिलाध्ये शमान्विते । शीता-जास्यौ जिनाधीशधर्माराधनतत्परे ॥ ९॥ 15 सत्पुत्रस्तत्र सीताया आसदेवाभिधोऽभवत् । ततो भूतौ सुतावाभू-शोभनदेवनामकौ ॥ १०॥ अभूतां नंदनौ जास्यास्तु वूटडि-यशोधरौ । जिंदा-यशकुमाराख्यौ बभूवतुस्तयोः सुतौ ॥ ११ ॥ वयजाख्या तु तत्पनी पंचासूत सुतोत्तमान् । कुंतीव पांडवान् पांडुयशःशुभितभूतलान् ॥ १२ ॥ तेषामाम्रप्रसादाख्य आयो देवधरस्ततः । रामदेवस्ततश्चांडूत्यशोधवलसंज्ञितौ ॥ १३ ॥ पंचाप्यद्भुतधर्मकर्मनिरताः पंचापि पुण्यांचिताः, पंचाप्युप्रभवप्रपञ्चविमुखाः पञ्चापि सत्यप्रियाः। 20 एते पञ्चमहाव्रतेकरुचयः पञ्चापि शुद्धाशयाः, प्रापुः पञ्चजनौघमौलितिलकाः पञ्चापि कीर्ति पराम् ॥ १४ ॥ अभूदानप्रसादस्य सज्जनी वरगेहिनी । ज्ञानविज्ञानयोः पात्रं तनूजः सोहडस्तयोः ॥ १५ ॥ जाया देवधरस्यासीत् श्रेष्ठिनः श्रेष्ठतानिधेः । सांतूकायाः सुता माहूः शमकैरवकौमुदी ॥ १६ ॥ आभडो नरसिंहश्च जज्ञिरे सूनवस्तयोः । जगद्देवाख्य-लाखाक-चाहडाः श्रुतशालिनः ॥ १७ ॥ आधा प्रियमतिनामा संजाता तदनु कुमारदेवीति। लघ्वी त्वविहवदेवी वधूटिका तस्य विनययुता ॥१८॥25
भार्याभद्रामदेवस्य पदमी नंदनास्त्वमी । शंबो वयरसिंहश्च पुण्यश्च जयतूः सुता ॥ १९ ॥ अन्यच्च- येन जिग्ये जगहेवगुरुभक्ताखिलं भृशं । जगद्देवस्य तस्यासीदैवाद् ग्लानिकारणम् ॥ २० ॥
इतश्चतुर्भिः संबंधःज्ञात्वा येन लघीयसापि सहसा खस्यांतकालं क्षणा-दानाय्य वतिनः स्वयं तदखिलं कृत्वात्यकृत्यं स्फुटं। त्यक्त्वा नेहमशेषमात्मवदनेनोचार्य धर्मव्ययं, जिग्ये मोहमहामहीपतिरपि प्राज्यप्रभावोऽप्यसौ ॥ २१॥ 30
* एतत्प्रशस्तिसमलकृतं ताडपत्रमयं पुस्तकं स्तम्भतीर्थे शान्तिनाथमन्दिरस्थितभाण्डागारे विद्यते । द्रष्टव्यम्-पिटर्सन् रिपोर्ट पुस्तक ३, पृ०७४.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org