SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 10 जैनपुस्तकप्रशस्तिसङ्ग्रह । तस्याः कुक्षिसरस्यां च राजहंस इवामलः । अवतीर्णो वज्रसिंहः कर्मादौ वज्रसन्निभः ॥ १५ तस्यानुजो विजयते जगति प्रतीतः सौभाग्यभाग्यसुविवेकविराजमानः । यस्याख्यया नरपतिपमाननीयो सत्त्वोपकारकरणैकरसात्मकश्च ॥ १६ नरपतेः प्रिया चास्ति नीनदेवीति शुद्धधीः । प्रसूता सा सुतं भव्यं नरसिंहाभिधोऽस्ति यः ॥ १७ नरपतेरनुजोऽस्ति धरणः साधुधीरधीः । अभिधा नायकिदेवी प्रिया प्रियगुणान्विता ॥ १८ श्रद्धाजलेन विमलेन सुशीतलेन संपूरिते सुकृतनीरजराजमाने। . सन्मानसे लसति यस्य विवेकहंसः सोऽयं जयी महणसिंह इति प्रतीतः ॥ १९ भीणलाख्या प्रिया तस्य प्रभूतगुणशालिनी । मान्या खजनवर्गेषु सदौचित्यपरायणा ॥ २० अन्यच्च -नित्यां प्रपां ज्ञानसुधारसाढ्यां तत्त्वोपदेशासमसत्रगेहाम् । मोहांधकारेषु समीपदीपं सत्पुस्तकं लेखयतीह धन्यः ॥ २१ इत्यादिदेशनां श्रुत्वा सुपुत्रः कुलदीपकः । साधुमहणसिंहाख्यो गुणग्रामपवित्रितः ॥ २२ श्रीवामेयजिनेशस्य खपितुः श्रेयसे मुदा । पवित्रस्य चरित्रस्य पुस्तकोऽयमलीलिखत् ॥ २३ नंद-शैल-शिखि-चंद्रवत्सरे रत्नपूर्वतिलकाख्यसद्गुरोः । ज्ञानकीर्त्यभिधशिष्यसन्मुनेः पुस्तकं च विधिना प्रदत्तवान् ॥ २३ 15 संवत् १३७९ वर्षे अश्विनसुदि १४ बुधे गूर्जरज्ञातीय साधु शोभनदेवसुत साधुमहणसिंहेन श्रीपार्श्वनाथचरित्रपुस्तकं लेखयित्वा पं० ज्ञानकीर्तेः प्रदत्तम् ॥ दानेन धर्मेण सदैव सोढः विराजते सर्वजनस्य सौख्यम् । द्रव्येण कायेन तथैव वाचा कर्ता च लब्द्धा सुकुले प्रसूति ॥ [१८] श्रीमालज्ञातीय-श्राविकामोखल्लदेवी-लेखित-[ हेमचन्द्रीय] शान्तिजिनचरित्र पुस्तकप्रशस्तिः । [ लेखनसमयो नोल्लिखितः, परं लेखानुसारेण १३ शताब्दी सम्भाव्यते ] शाखासंततिसंनिरुद्धभुवनः सद्वृत्ततासंगतः प्रोद्यत्पर्वपरंपरापरिगतः प्राप्तप्रतिष्ठो भुवि । रत्नानां खनिरुन्नतो मुनिमतः श्रीमानृजुः प्रायशो वंशो वंशसमः समस्ति विदितः श्रीमालसंज्ञः परः ॥१ तसिंश्चारुभटश्रेष्ठिकुलाब्धिसोमसंनिमः । शीलूकुक्षिसरोहंसः श्रेष्ठी सोमाभिधोऽभवत् ॥ २ खस्थश्चेतसि सस्पृहश्च यशसि प्रद्वेषवानागसि मंदो नर्मणि पापकर्मणि जडः सक्तः शुभे कर्मणि । साधुः साधुजने विधुः परिजने बंधुः परस्त्रीजने यो लिप्सुश्चरणे पटुर्वितरणे दक्षः क्षमाधारणे ॥ ३ सलक्षणाभिधा पत्नी लक्ष्मीर्विष्णोरिवाभवत् । तस्य लक्षणसंपूर्णा मधुरालापसारणिः ॥ १ स्फुरितनयविवेको नागपालो विनीतो जिनमतगतशंको विद्यते तस्य पुत्रः । जिनपतिपदभक्तः शुद्धधर्मानुरक्तः कुमतगमविरक्तो दानदाक्षिण्ययुक्तः ॥ ५ * पट्टनस्थसंघवीपाडासत्कभाण्डागारे पुस्तकमिदं विद्यमानमस्ति । 25. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy