SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह । चिंतामणिः प्रणयिनां वसतिर्गुणानां लीलागृहं मधुवचो रचनांगनायाः। पुत्री ततः समजनि सुशीलरम्या मोखल्लदेव्यभिधया मतिगेहमेकम् ॥ ६ दानधर्म त्रिधाऽश्रौषीदुपष्टंभाभयश्रुतात् । भक्त्या मोखल्लदेवीह खगुरोर्मुखतोऽन्यदा ॥ ७ तत्रापि श्रुतदानस्य शुश्राव फलमुत्तमम् । तन्निदाना हि वस्तुनां हेयादेयव्यवस्थितिः ।। ८ ततश्च- यस्य ध्याननिलीनस्य हावभावप्रकाशनैः । न चेतश्चालयंति म देव्यो रूपश्रियोद्धराः ॥ ९ । तस्य श्रीशांतिनाथस्य सोमस्य श्रेयसे पितुः । चरित्रं लेखयित्वाऽदात् श्रीधनेश्वरसूरये ॥ १० यस्याः क्षीरपयोनिधिर्निवसनं हारस्रजस्तारकास्ताडंके शशिभास्करौ सुरधुनी श्रीषंडपुंडूस्थितिः। सा कीर्तिनरिनर्ति यावदमला वीरस्य विश्वत्रयी रंगे तावदमंददुंदुभितुलां धत्तामसौ पुस्तकः ।। ११ [१९] प्राग्वाटकुलीन-रंभाश्राविकाप्रदत्त-कल्पसूत्र-कालकसूरिकथा-पुस्तिकाप्रशस्तिः। 10 ___ [लेखनसमयो नोल्लिखितः, वर्णनानुसारेण १४ शताब्दी अनुमीयते ] [कालकसूरिकथान्ते-] पृषत्क ५ पक्ष २ यक्षादि १३ श्रेष्ठी प्रद्युम्नः कथां व्यधात् । प्रार्थितो मोढगुरुणा श्रीहरिप्रभुसूरिणा ।। ७४ ॥ श्रीकालिकसूरिकथा समाप्ता ॥ श्रियोगृहे घोषपुरीयगच्छे सूरिः प्रमाणंद इति प्रकृष्टः । बभूव पूर्व गुणरत्नखानिः सुचारुचारित्रपवित्रगात्रः ॥ १ विजयचंद्रगुरो(रु) गुणी श्रुतमहोदधिरस्य पदेऽभवत् । अखिलधर्मसुकर्मविधायको गुरुरिव प्रतिभाति विचक्षणः ।। २. तत्पट्टपूर्वाचलमौलिभानुर्दुरिमाररिपुशातनपंडितो यः । श्रीभावदेवः प्रबभूव सूरिः पदे तदीये श्रुतशीलयुक्तः ॥ ३ ततो जराभीरुजयी समस्ति जयप्रभः सूरिवरोऽस्यपट्टे । 20 अर्कः प्रतापेन च चंद्रमासौ कलाकलापेन बुधस्तु बुद्ध्या ॥ ४ हुडापद्रे पुरेऽप्यस्ति श्रीमान् पार्श्वजिनेश्वरः । तस्य गोष्ठीपदे ख्यातो वंश एषः प्रकीयते ।। १ प्राग्वाटवंशे भुवनावतंसे विख्यातनामाजनि चाऽऽसपालः। तद्देहिनी जासलदेवीनाम्नी तत्कुक्षिजातास्तनयास्त्रयोऽमी ॥ २ सर्वलक्षणसंपूर्णाः सर्वधर्मसमन्विताः । सहदेवश्च घेताको लषमाकः सहोदराः ॥ ३ सहदेवस्य च पत्न्याः नागलदेव्याः सुतौ शुभौ जातौ । आमाऽऽल्हौ विख्यातौ धर्मधुराभारवाहने दक्षौ ॥ ४ आमाकपत्नी जिनधर्मतत्परा रंभा सुशीला सुगुणा सुवंशजा । तत्कुक्षिजातास्तनयास्त्रयो वरा धर्मार्थकामा इव जंगमा भुवि ॥ ५ मुहुणा-पूणाकेन च हरदेवसमन्वितेन पुण्यवती । मातुः पितुः श्रियोऽर्थं प्रददौ कल्पस्य पुस्तिका गुरवे ॥६ 15 25 * पट्टनस्थसंघवीपाडासत्कभाण्डागारे पुस्तकमिदं विद्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy