________________
जैनपुस्तकप्रशस्तिसङ्ग्रह । दानं धनस्योत्तममस्ति लोके ज्ञानात्पुनस्तत्कथितं जिनेन्द्रैः ।
तत्रापि सिद्धांतसमं न ज्ञानं दानं तु तस्यैव महत्प्रधानम् ॥ १६ इत्याकर्ण्य स गौतमस्य वदनांभोजे सुभुंगावली-कल्पं चैवमलीलिखद् भगवतीसूत्रं सटीकं मुदा । श्रीसिद्धांतविचारसार..........................................पेथडः ॥ १७ वेद-बाणे- हुताशे-दु-मिते विक्रमवत्सरात् । वर्षे पुस्तकव्याख्यानं कारयामास यः पितुः ॥ १८ तिग्मांसो युवराजतां सचिवतामारोप्य जीवे कवौ छायाक्ष्मासुतयोः पुरावनपदं सल्लेखकत्वं बुधे । राज्यं तारकपत्तियुक् प्रकुरुते खं दक्षजे............... .....""""""प्रकाशं सताम् ॥ १९
संवत् १३५३ वर्षे अघेह वीजापुरे सोमतिलकसूरिभिः श्रीभगवतीसूत्रपुस्तकव्याख्यातं । वाचितं पं० हर्षकीर्तिगणिना ॥ शुभं भवतु । श्रीसकलसंघस्य ॥ ५ ॥ [१७]
10 गूर्जरवंशीय-साधुमहणसिंह-लेखित [ भावदेवसूरिकृत ] पार्श्वनाथचरित्र
पुस्तकप्रशस्तिः ।
[लेखनकाल १३७९ विक्रमाब्द] जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् । विमलस्नातविरहितस्त्रिलोकचिन्तामणिवीरः ॥ १ सद्धर्महेतुः सरलखभावः सुपर्वरम्यः कलशब्दशाली । मुक्ताफलारंभ इह प्रसिद्धः श्रियान्वितो गूर्जरवंश एषः ॥ २ 15
सौम्योज्जनि प्रवरधीर्विपुलेऽत्र वंशे यः सोमकान्त इव सज्जनदर्शनीयः ।
श्रीमजिनमभविभोर्भवभित्प्रसादमासाद्य सद्गुणनिधिर्विदधे सुधर्मम् ॥ ३ तस्य मुक्ताफलपायौ द्वौ सुतौ सुकृतोज्ज्वलौ । आद्यो वर्णकनाम्ना तु द्वितीयोऽभून् मदनाभिधः ॥ ४ वर्णकस्य प्रिया जज्ञे वील्हणदेवीति नाम्नी । तत्कुक्षिसरसीहंसा जाता षट् सहोदराः ॥ ५ आद्यः कामाभिधानस्तु द्वितीयः शोभनधीरधीः । पेथडस्तृतीयोऽभूच्चतुर्थः कृष्णनामतः ॥ ६ अर्जुनः पंचमो जातः षष्ठोऽभयसिंहाभिधः । पुत्री हांसीति विख्याता सतीत्वगुणशालिनी ॥ ७ शोभनदेवस्य प्रेयस्यासीत्सुशीलसंयुता । नामतः सुहडादेवी भूरिगुणविभूषणा ॥ ८ तस्यां च गुणशालिन्यां जाताः सप्त सहोदराः । निर्मलेन चरित्रेण राजते ऋषिवत्सदा ॥ ९
तेषु मुख्यपदवीसमाश्रितो विश्रुतोऽस्ति विनयादिसद्गुणैः ।।
धर्मकर्मणि तथाभिधानतो यः सल्लक्ष इह सज्जनाग्रणीः ॥ १० तस्यास्ति दयिता साध्वी देवी भावलनामतः । तस्याः कुक्षिमलंचक्रे पुत्ररत्नचतुष्टयी ॥ ११ सोमः सौम्यगुणोपेतः ततो जज्ञे नरोत्तमः । दानादिकचतुर्भेदधर्माराधनतत्परः ॥ १२ श्रीदेवी तस्य दयिता भाति सर्वगुणोत्तमा । देवताराधने रक्ता सीलालंकारधारिणी ॥ १३ दानसौंडो रतो धर्मे विवेकीति विशारदः । सोढलाख्यस्तृतीयस्तु देवी संगार वल्लभा ॥ १४ * पुस्तकमिदं पहनस्थ-संघवीपाडासत्कभाण्डागारे विद्यते ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org