________________
जैनपुस्तकप्रशस्तिसङ्ग्रह । [प्रशस्तिः -].......
.......[॥१॥] सुपर्वः सरलोत्तुंगः शाखाशतसमावृतः । श्रीमान् श्रीमालवंशोऽस्ति सर्वत्रापि प्रमाणकृत् ॥ २॥ श्रेष्ठी जयंत इत्यासीत् तत्र मुक्तामणेः समः । पातू नाम्नी च तत्पनी गेहलक्ष्मीरिवांगिनी ॥ ३ ॥
श्रीसंघकृत्यधौरेयाः सम्यक् सम्यक्त्वशालिनः । तत्पुत्राः क्रमशोऽभूवन् गुरुभक्तिभृतो ह्यमी ॥ ४ ॥ 5 विद्वान् महणनामाद्यो मदनाख्यो महत्तमः । सामंतो झांझणाख्यश्च लाडणोऽनल्पवासनः ॥ ५॥
वयजू तेजू च सुते सुदुस्तपस्तपोंचिते । लाडणस्य तु ललतादेवीति दयिताऽभवत् ॥ ६ ॥ तत्सुता अरिसिंहाद्याः; एवं वंशे विवर्द्धिते । श्रीरत्नसिंहसुगुरोलाडणो धर्ममशृणोत् ॥ ७ ॥ ततः खस्यैव पुण्यार्थी सूक्तरत्नाकरस्य तु । चतस्रः पुस्तिकाः पुण्या लेखयामास लाडणः ॥ ८॥
ज्योतिर्मुक्तावतंसा रविरजनिकरस्फारताडंकपत्रा, ज्योत्स्नाक्लप्तांगरागा जलनिधिवसना वर्णदीहारयष्टिः । 10 यावन्ननर्तिकीर्तिश्चरमजिनपतेर्विश्वरंगेऽत्र तावत् , मन्द्रकाख्याननादैः कलयतु तुलनां दुंदुभेः पुस्तकोऽयम् ॥९॥ सं०१३४७ वर्षे आषाढवदि ९ गुरौ आशापल्यां महं वीरमेन श्रीसूक्तरत्नाकरपुस्तिका लिखिता॥
[१६] प्राग्वाटवंशीय-श्रीमत्पेथड-लेखित-भगवतीसूत्र-पुस्तकप्रशस्तिः ।
[लेखनकाल १३५३ विक्रमाब्द] श्रीद्वादशांगहिमरस्मिसमुद्रतुल्याः कल्याणपंकजविकाशनभानुभासः ।
अज्ञानदुस्तरतमोभरदीपिकामा विश्वं पुनातु किल वीरजिनस्य वाचः ॥ १ सम्यक्सम्यक्त्वसिंहाश्रितसुकृतिमनःकंदरः स्थैर्यसारः, प्रस्फूर्जत्कीर्तिचूलो विनयनयशमामूल्यरत्नाभिरामः । दानाद्युद्दामधर्मप्रवरवनवृतः श्रीसमिद्धः पृथिव्या-मस्ति प्रारवाटवंशस्त्रिदशगिरिरिवानेकसत्कृत्यशृंगः ॥२ योऽचीकरन्मंडपमात्मपुण्यवल्लीमिवारोहयितुं सुकर्मा । ग्रामे च संडेरकनानि वीरचैत्येऽजनि श्रेष्ठिवरः स मोखूः ॥३ 20 मोहिनीनाम तत्पत्नी चत्वारस्तनयास्तयोः । यशोनागो धर्मधुर्यः वाग्धनः शुद्धदर्शनः ॥ ४
प्रल्हादनो जाल्हणश्च गुणिनोऽमी तनूभवाः । वाग्धनस्य गृहिण्यासीत् सीतू सम्यक् शीलभाक् ॥ ५ तत्कुक्षिभूस्तत्पुत्रश्चांडसिंहो विशुद्धधीः । सद्धर्मकर्मनिष्णातो विनयी पूज्यपूज्यकः ॥ ६ पंचपुध्योऽभवन् खेतू मूंजल-रत्नदेव्यथ । मयणल"...."सर्वा निर्मला धर्मकर्मभिः ॥ ७
इतश्च-बीजाभिधोऽभवन्मंत्री खेतू नाम्नी च तत्प्रिया । तत्पुत्री गोरिदेवीति पुण्यकर्मसु सोद्यमा ।। ८ 25 तां तूढवांश्चांडसिंहस्तत्तनूजा गुणोज्वलाः । आद्यः पृथ्वीभटो धीमान् रत्नसिंहो द्वितीयकः ॥९ - वदान्यो नरसिंहश्च तुर्यो मल्लस्तु विक्रमी । विवेकी विक्रमसिंह-श्चाहडः शुभाशयः ॥ १०
मूंजालश्चेत्यमीषां तु कल्याणाय कृतोद्यमा । खसा खोखी रता धर्मे पत्यश्चैषां क्रमादिमाः ॥ ११ प्रथमा सूहवदेवी सुहागदेव्यथापरा । निपुणा नयणादेवी प्रतापदेव्यथा मता ॥ १२
सीटला चांपलादेवी पुण्याचारपरायणा । आसां च पुत्राः पुत्र्यश्चाभूवन् भाग्यभरांचिताः ॥ १३ 30 श्रेष्ठि..... धनस्येव देशे () वृद्धिमुपेयुषि । श्रीरत्नसिंहसूरीणां पार्थे शुश्राव देशनाम् ॥ १४ ।।
पेथडः प्रवराचारः प्रयुक्तो निजबंधुभिः । जनकस्य सदा भक्तो रक्तो धर्मगुणार्जने ॥ १५
15
* पट्टनस्थसंघवीपाडासत्कभाण्डागारे पुस्तकमिदं सुरक्षितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org