________________
जैन पुस्तक प्रशस्ति सङ्ग्रह ।
श्रीविक्रमार्कन्नृपतेः समयादतीते खत् त्रयोदशशते शरदामनूने ।
एकोनविंशति शुचौ लिखितं दशम्यां संघाय पुस्तकमिदं प्रददातु भद्रम् || ३५ सं० १३२९ वर्षे श्रावणसुदि ८ वरदेवपुत्रलेखक नरदेवेन लिखितं । परिशिष्टपर्वपुस्तिका समाप्ता ॥ * पुस्तकमिदं पट्टनस्थसंघवीपाडासत्कभाण्डागारे विद्यमानमस्ति । ]
[१४]
श्रीमालवंशीय श्रे० तेजः पाल लेखित - पर्युषणाकल्प-पुस्तिकाप्रशस्तिः * । [ लेखनकाल १३३० विक्रमाब्द ]
पायाद्वः पूर्वतीर्थस्य शिखाली श्रोत्रयोरधः । दग्धाष्टकर्मकक्षस्य धूमलेखेव लक्ष्यते ॥ १ भूयात्सद्भाविनां भूरि भग्नसंसारविभ्रमः । स्वर्मोक्षफ [ल]दः खामी श्रीवीरः कल्पपादपः ॥ २ अस्ति भूमंडलव्यापी वंशो वंशोत्तमः किल । श्रीमद् श्रीमाल इत्याख्यो लक्षशाखाभिर्विश्रुतः ॥ ३ प्रसिद्धपुरुषप्रक्षा यस्य च्छायानिषेविनः । इहैवाद्यापि दृश्यते तद्विदः श्रुतिकोविदाः ॥ ४ तद्वंशसंभवो जैनश्रेयसैनःप्रखंडनः । बभूव वूटडिश्रेष्ठी सुदृष्टिः श्राद्धसत्तमः ॥ ५ पत्नी धांधलदेवीति शीलस्खकुलपावनी | हंसवत्खेलते यस्या जैनश्रेयः सुमानसे ॥ ६ तत्तनूजो जितक्रोधस्तेजः पालोऽस्ति धर्म्मधीः । यस्याद्यजिनपादाने भृंगवद्रमते मनः ॥ ७ शीलसद्गुणतः खच्छा लच्छी संज्ञाऽस्ति तद्वधूः । जैनपुण्यायने रक्ता सद्गुरुप्रणतौ नता ॥ ८ पवित्रचारुचारित्ररत्नराशिमहार्णवः । गणिश्रीदेव [चं ] द्रोऽभूत्संयमाधृतसंभृतः ॥ ९ तत्पट्टव्योमसोमस्य सदा सद्वृत्तशालिनः । श्रीमद्विजयचंद्रस्य सूरिणः सद्गुरोर्मुखात् ॥ १० आकर्ण्य कर्णसुखदां विशदां धर्मदेशनाम् । ततः संजातसद्भावः सिद्धांतोद्धारकारणे ॥ ११ अथ पर्युषणाकल्पमनल्पश्रेयसः पदम् । विमान्य व्यक्तवर्णाढ्यां लेखायामास पुस्तिकाम् ॥ १२ यावच्चंद्र-दिवानाथौ यावद् व्याप्ता वसुंधरा । विबुधैर्वाच्यमानाऽसौ तावन्नंदतु पुस्तिका ॥ १३ संवत् १३३० श्रावणवदि १२ रवौ पुस्तिका लिखितेति ॥ शिवमस्तु सुश्रावकेभ्यः ।
*
[१५]
श्रीमालवंशीय श्रे० लाडण -लेखित - सूक्तरत्नाकर-पुस्तिकाप्रशस्तिः ।
[ लेखनसमय १३४७ विक्रमाब्द ]
[ प्रन्थान्ते - ] यस्मिन् पुष्यति विश्वविस्मयकरे खः श्रेणिनिःश्रेणिका, द्रागंगप्रतिमां पदस्थितिमतीद्वारां चतुःसप्ततिः । सोयं भव्यजनप्रबोधजनको धर्माधिकारः पुरः, काव्ये सर्वरहस्यवीचिनिचिते श्रीसूक्तरत्नाकरे ||
इति श्रीसूक्तिरत्नाकरनामनि महाकाव्ये धर्माधिकारोऽयं प्रथमः संपूर्णः ॥ ग्रंथा ४३४० || मंगलं महाश्रीः | विद्यासिंहतनूद्भवः सुचरितो वैजल्लदेव्यंगभूः, श्रीमन्मन्मथसिंह एवं विदधे श्रीसूक्तरत्नाकरम् । नानाशास्त्रगृहीतसूक्त लहरीलीलायितं तत्र सत्, धर्माख्यं प्रथमं समाप्तमखिलं द्वारं निदानं श्रियः ॥ १ ॥ ६ ॥ पुस्तकमिदं पट्टनस्थसंघसत्कभाण्डागारे रक्षितमस्ति ।
१ 'प्राप्रा' इति टिप्पनी । २ 'कोटिशोपि हि' इति टिप्पनी ।
+ पट्टनस्थसंघवीपाडा सत्कभाण्डागारे विद्यतेयं पुस्तिका ।
३ जै० पु०
Jain Education International
For Private & Personal Use Only
१७
5
10
15
20
25
www.jainelibrary.org