________________
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
[११] पल्लीपालवंश्यश्रीपाललेखित [हेमचन्द्रीय] अजितनाथादिचरित्रपुस्तकप्रशस्तिः।
_[लेखनकाल १३०३ विक्रमाब्द] तन्वाना खकलाकलापमधिकं वर्जिवालंकृतं लक्ष्मीशनटीव यं श्रितवती खद्गुणाध्यासितम् । रंगानोत्तरणाभिलाषमकरोद् व्यावर्ण्यतामागता पल्लीपाल इति प्रसिद्धमहिमा वंशोऽस्ति सोऽयं भुवि ॥ १ वंशेऽभवत्तत्र सोही मुक्तात्मा श्रावकाग्रणीः । निह्यन्महामहातेजा अजाड्योऽपि सुशीतलः ॥ २ तस्योढा सुगुणैः प्रौढा शुभधीः सुहवाभिधा । पासणागस्तयोः पुत्र एक एव गुणैरपि ॥ ३
पउसिरिनाम्नी भार्या तस्याभूद्धर्मकार्यकृत् । तयोः पुत्रत्रयं पुत्रीद्वयं चाद्वंद्वमानसम् ॥ ४ तदादिमः साजणनामधेयः समुल्लसन्निर्मलभागधेयः । सत्यं च शौचं कलिराजभीतं हृदुर्गमाशिश्रयदाशु यस्य ।। ५ 10 धैर्येणाद्भुतराणकप्रतिकृतिर्जज्ञे ततो राणको दिक्चक्रं परिपूरयन् शुचियशोनिःश्वासदानोदयात् ।
योऽसाध्यत्परलोकमाशु हृदये श्रीवीरनाम स्मरन् सद्धर्मेण गुणान्वितेन विशिखारोपेण सत्त्वोत्कटः ॥ ६ मोहादित्रयसंहर्ता तृतीय आहडोऽभवत् । जिनधर्मरक्तचेता जेता दुःकर्मजालस्य ॥ ७
___ आद्या तयोरद्भुतधर्मधाम पनी द्वितीया जसलं च नानी ।
___ दानादिधर्माबुनिषेकयोगैरात्मा यकाभ्यां विमलोऽभ्यधायि ॥ ८ सहजमतिः सज्जनस्याभूत्पत्नी पतिव्रता । तत्पुत्री रतधा नामा सुतौ मोहण-साल्हणौ ॥ ९ आहडस्याथ भार्याभूच्चांदूश्चंद्रकलोज्ज्वला । पंचापत्यानि तयोः क्रमादिमानीह जातानि ॥ १० तेषां आशाभिधो ज्येष्ठ आशादेवीति तत्प्रिया । तयोर्बभूव सगुणा जैत्रसिंहादिसंततिः ॥ ११ अद्वितीयो द्वितीयोऽपि श्रीपाल इति विश्रुतः । तत्पत्नी वील्हुका नाम्ना पुत्रो वील्हाभिधः सुधीः ॥१२
तृतीयो धांधको नामा कलत्रं तस्य रुक्मिणी । लक्ष्मीप्रियः पद्मसिंहस्तुर्यो रत्नाद्यपत्यकः ॥ १३ 20 पुत्री च जज्ञे ललतूबलसा धर्मकर्मणि । वास्तूश्चास्यांगजा जाता व्रतान्मदनसुन्दरी ॥ १४
कर्पूरी च तथा पद्मसिंहजा भावसुन्दरी । कीर्तिश्रीगणिनीपादौ द्वाभ्यामाराधितौ मुदा ॥ १५ न्यायोपात्तस्य वित्तस्य फलं धर्मनियोजनम् । अनय॑स्येव रत्न[ स्य यथा ] किरीटकादिषु ॥ १६
. परोपकाराच्च परो न कश्चिदत्रास्ति धर्मो भुवनत्रयेऽपि । .
[सोऽपि ] श्रुतात्तच्च सुपुस्त[क]स्थं व्याख्यायमानं दुरितावसानम् ॥ १७ 25 श्रीमत्कुलप्रभगुरोराकण्यैवं विशुद्धमुपदेशम् । मोहादिकदनकालः श्रीपालो धर्मसुविशालः ॥ १८ दुःप्रतिकारौ पितराविति च ज्ञात्वा पितुः सुकृतहेतोः । अजितादि-शीतलांतं सुपुस्तकं लेखयामास ॥१९
-चतुर्भिः कलापकम् । त्र्यग्रत्रयोदशशतेषु [ गतेषु ? ] सत्सु श्रीविक्रमाद् विधियुतं सुधियां च तेन । व्याख्यापितं च सुकुलप्रभसूरिपट्टलक्ष्मीविशेषकनरेश्वरसूरिपार्थात् ॥ २० यावत्तारकचक्रघर्घरधरो दिक्कुंभिशैलूषवान् मेरुश्चारुनटः प्रताडयति तज्योत्स्नालतातंतुभिः ।
वध्वा व्योममृदंगकं रविशशिप्रोद्यत्पुटद्वंद्वकं तावन्नंदतु पुस्तकोऽयमसकृद् व्याख्यायमानो बुधैः ॥ २१ . संवत् १३०३ वर्षे कार्तिकशुदि १० रवावयेह श्रीभृगुकच्छे ठ० समुधरेण पुस्तकं लिखितमिति ॥१॥
[ * पट्टनस्थसंघवीपाडासत्कभाण्डागारे विद्यते पुस्तकमिदम् । ]
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org