________________
15
जैनपुस्तकप्रशस्तिसङ्ग्रह । तन्मध्यात् पेथुकास्त्येकाऽपराऽभून्नामसज्जनी । प्रल्हादनप्रियतमा माधलाऽस्ति विवेकिनी ॥ ११ देवसिंहः सोमसिंहः सुतौ द्वौ तिष्ठतस्तयोः । पद्मला सद्मला राणी तिस्रस्तिष्ठति पुत्रिकाः ॥ १२ पेथुका चंपलादेवी नरसिंह महामनाः । आसलस्य प्रिया पुण्यं हरिपालमजीजनत् ॥ १३ सुता राजलदेवीति चंपलायाः पतिव्रता । खकीयमातृशोकार्तिसंहारपरमौषधिः ॥ १४ वल्लभा नरसिंहस्य नायकिदेविनामिका । तत्सुता गौरदेवीति मातृवद्धर्मनिर्मला ॥ १५ विनीता हरिपालस्य माल्हणि मगेहिनी । नंदना जनितास्ताभ्यां चत्वारो रम्यमूर्तयः ॥ १६ जगत्सिहस्य दयिता सजना तनयत्रयम् । प्रसूते स्म सुतां चैकां शीलालंकारडम्बराम् ॥ १७ ज्येष्ठस्तिहुणसिंहाख्यः पूर्णसिंहाभिधोऽपरः । तृतीयो नरदेवोऽथ तनया तेजलाह्वया ॥ १८ आस्ते तिहुणसिंहस्य रुक्मिणीनाम वल्लभा । तयोर्लवणसिंहोऽस्ति सुतः सुता च लक्षमा ॥ १९ रंगात् कटुकराजेन मोहिणिः पर्यणीयत । चत्वारो नंदनास्ताभ्यां जनिता जनरंजनाः ॥ २० 10 पुत्र्यौ शीलपवित्रे च मूर्ती द्वे धर्मयोरिव । पूर्णदेवी तयोराद्या वयजेत्यपरा मता ॥ २१ धौरेयः सोहियो नाम सहजाकाभिधोऽपरः । तृतीयो रत्नपालोऽभूदमृतपाल इत्यथ ॥ २२ सोहियस्य प्रिया ज्येष्ठा ललितादेविसंज्ञिता । तत्सुता प्रीमलादेवी जैत्रसिंहस्य वल्लभा ॥ २३ ताभ्यां जातौ कलावंतौ सुतौ द्वौ धर्मनिर्मलौ । परोपकारसामर्षो धारावर्षोऽग्रजोऽभवत् ॥ २४ द्वितीयो मल्लदेवोऽस्ति कुलालंकारकौस्तुभः । तत्प्रिया गौरदेवीति श्वश्रूशुश्रूषणोद्यता ॥ २५ सोहियस्य द्वितीयास्ति शीलुकेत्याख्यया प्रिया । गुरुत्वगुणगंभीरा पतिभक्तिपवित्रिता ॥ २६ तयोरासीसुतो भीमसिंहनामाग्रजः सुधीः । महत्त्वसत्त्वमुख्यानां गुणानां जन्मभूमिका ॥ २७ परः प्रतापसिंहोऽस्ति गुरूणां भारहारकः । नाम्ना चाहिणिदेवीति प्रिया तस्यास्ति पावना ॥ २८ पुन्यौ द्वे सोहियस्याथ शीलुकाकुक्षिसंभवे । जाते जात्यमहारत्नतेजोनिर्मलमानसे ॥ २९ नालदेवी तयोर्मध्यादाद्या दानविशारदा । परा कील्हणदेव्याख्या साक्षादिव सरस्वती ॥ ३० आसीत् सुहागदेवीति सहजाकस्य वल्लभा । तयोर्माल्हणदेवीति सुताऽस्ति शीलशालिनी ॥ ३१ विरक्तोऽमृतपालोऽथ सर्वान् संबोध्य मातुलान् । गच्छे श्रीमलधारीणां व्रतं जग्राह साग्रहः ॥ ३२ सोमराजस्य वर्ति(वति ? )त्वं धर्मसीमासमन्वितम् । न केषामुपकाराय जातं वात्सल्यवारिधेः ॥ ३३ सुसाधोः कुलचन्द्रस्य विख्यातव्यवहारिणः । सुता जासलदेव्याश्च जैनधर्मेण वासिता ॥ ३४ नाम्ना राजलदेवीति राणकस्य प्रियाऽभवत् । यस्यां सत्यां गृहे भर्तुः क्लेशलेशोऽपि नाजनि ॥ ३५ 25 तयोः संग्रामासंहाख्यः सुतो जातोऽस्ति विश्रुतः । श्रियोपकुर्वता येन निजानां जगृहे मनः ॥ ३६ सुताऽभयकुमारस्य सलक्षणांगसंभवा । सुहडादेविरस्यास्ति प्रिया दानदयाप्रिया ॥ ३७ तदीयो हर्षराजोऽस्ति पुत्रखगोत्रपावनः । मातापित्रोः समादेशं यो न कुत्रापि लंघते ॥ ३८ हर्षराजेन रागेण लखमादेविसंज्ञिका । परिणीता विनीतात्मा सतीव्रतविभूषिता ॥ ३९ गौरदेवीति नामास्ति कनिष्ठाऽस्य सहोदरा । पीयूषप्रायवचनैर्माननीया मनीषिणाम् ॥ ४० सुत[:] संग्रामसिंहस्य सुहडादेविसंभवः । नाम्ना कटुकराजोऽस्ति द्वितीयो नयनामृतम् ॥ ४१ श्रीमलधारिसूरीणां हितामाकर्ण्य देशनाम् । श्रेयसे सुहडादेव्या सिद्धान्तातीव भक्तया ॥ ४२ भर्तुः संग्रामसिंहस्य साहाय्याद विशदाक्षरैः । पुण्या पर्युषणाकल्पपुस्तिका लेखिता नवा ॥ ४३ खामिनां शृण्वतां व्याख्याकारिणां पुण्यसंचयम् । वर्द्धयंती सदा सर्वैराचंद्रं वाच्यतामसौ ॥ ४४
॥ मंगलमस्तु ॥ [ * पुस्तकमिदं पट्टनस्थसंघसत्कभाण्डागारे विद्यते ।]
20
30
35
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org