________________
10
जैनपुस्तकप्रशस्तिसङ्ग्रह। इति सकलकुटुंबज्ञातिपीयूषपात्रं जिनपतियतिपूजादानदत्तावधानः । अकृत सुकृतिरत्नं प्रातरन्येद्यु चिंतां सुगुरुगदितवाक्याद् ईलकः श्रावको यः ॥ १९ इह हि जगति संपत् पंककाकारसारा रतिरपि मदमत्तप्रेयसीभ्रूविलोला । ललितमपि वधूनां ध्वंसिवंतुश्च(?) बंधस्तदिह शरणमेकं धर्ममित्रं पवित्रम् ॥ २०
सोऽनेकधा यद्यपि वादिमुख्यैर्निगद्यते मुक्तिकृते मुनींद्रैः । तथापि तं दिवर्जितान्य......................॥ २१ अतो विवेकैकविवृद्धिहेतुरावश्यकं यद्विधमप्यलेखि । श्रेयःकृते खस्य तदीलकेन कुटुंबमालोच्य विवेकभाजा ॥ २२
___ इतश्वश्रीचंद्रगच्छे समभूत् ........"धर्मघोषः। श्रीवर्द्धमानो मुनिपो....मेन प्रार्थितः मुदा यः ॥ २३
पट्टे तदीये निजबुद्धियोगात् निवित तत्रैदशसूरिबोधः () ।
शुद्धांतरात्मा गुणरत्नभूरिः श्रीमान् श्रुतो'... "भुवि देवसूरिः॥ २४
....... "भूव...'नूतिलकः । संसारांबुधिसेतुः केतुः साक्षादेवंगस्य (?) ॥ २५ श्रीयशश्चंद्रसूरेस्तु तत्पदस्थस्य पुस्तकम् । पठनायेल्लकश्राद्धपुंगवेन समर्पितम् ॥ २६
जीवाजीवादिवस्तुव्यतिकरलहरीभंगसंगाभिरामः
कारुण्यं सप्रवाहप्लवशमित(?) भवा सत्यसंतोषसंपत् । यावत् सिद्धान्तसिंधुर्जयति जिनपतेः स्यात्पदोदात्तनक्र
स्तावद् भूयाद् बुधानामयमपि रतये पुस्तकः पठ्यमानः ॥ २७ संवत् ११९२ वर्षे.... पुस्तकं सिंधुराजेन लिखितं इति ॥ शुभं भवतु ॥ [* पुस्तकमिदं सुरक्षितमस्ति पट्टनस्थ-संघवीपाडासत्कभाण्डागारे । ]
[१०] प्राग्वाटवंशीयसूहडादेवीश्राविकालेखित-पर्युषणाकल्पपुस्तिकाप्रशस्तिः।
[लेखनसमयो नोल्लिखितः; परं वर्णनानुसारतः १३ शताब्दी अनुमीयते ।] वंशः प्राग्वाटनामास्ति सर्ववंशशिरोमणिः । यो जातश्चित्रमाधारो महतामपि भूभृताम् ॥ १ तत्राभूद् भरतो नामा पुरुषः पुण्यपूरितः । सदाचाराध्वपाथेयो धौरेयो धर्मधारिणाम् ॥ २ सुतस्तस्य यशोनागो गुणानां जन्ममंदिरम् । यशोभि तभूभागः सुभगो वामचक्षुषाम् ॥ ३ पद्मसिंहः सुतो जातस्तस्य सिंहपराक्रमी । येन भूपाज्ञया प्राप्तं पदं श्रीकरणादिषु ॥ ४ जज्ञे तिहुणदेवीति पत्नी तस्य शुभाशया । यया पितुश्च भर्तुश्च गुणैवंशो विभूषितः ॥ ५ तयोः क्रमेण चत्वारस्तनयाः पुण्यशालिनः । आसन् धार्मिकधौरेयाः सुशीले द्वे च पुत्रिके ॥ ६ तेषामाद्यो यशोराज आशराजस्ततोऽपरः । तृतीयः सोमराजाख्यश्चतुर्थो राणकाहयः ॥ ७ सोढुकेत्याख्यया ज्येष्ठा कनिष्ठा मोहिणिराह्वया । धर्मेण निर्ममे शुद्धे सोदुकाहृदये पदम् ॥ ८ महान्यापारनिष्ठस्य यशोराजस्य वल्लभा । जज्ञे सूहवदेवीति सतीसीमंतमौक्तिकम् ॥९ । तयोराद्यः सुतः पृथ्वीसिंहाख्योऽभूत् कलाम्बुधिः । परः प्रल्हादनो नामा विजयी पुत्रिके उभे ॥ १०
20
25
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org