________________
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
समाप्ता चेयं शिष्यहिता नामावश्यकटीका कृतिः शिताम्बराचार्य जिन भटनिगदानुसारिणो विद्याधरकुलतिलकाचार्यजिनदत्त शिष्यस्य धर्म्मतो याकिनी महत्तरा सूनोरल्पमतेराचार्य हरिभद्रस्य ॥
यदिहोत्सूत्रमज्ञानात् व्याख्यातं तद् बहुश्रुतैः । क्षन्तव्यं कस्य संमोहश्छद्मस्थस्य न जायते ॥ यदर्जितं विरचयता सुबोधां पुण्यं मयावश्यकशास्त्रटीकाम् । भवे भवे तेन ममैवमेव भूयाज्जिनोक्ते तु मते प्रयासः ॥ अन्यच्च संत्यज्य समस्तसत्त्वा मात्सर्यदुःखं भवबीजभूतम् । सुखात्मकं मुक्तिपदावहं च सर्वत्र माध्यस्थ्यमवामुवंतु ॥
नमो जगन्मंगलसंचयाय भगवते महावीराय धीमते । नमो मोहमहातिमिरभिदे नमो महावीरवर्द्धमानाय ॥
36
竑
आन्तर्निःसीमदानोद्यतकृतिविलसत्कीर्त्तिकल्लोलिनीभिः स्वर्गंगायाः प्रवाहैरिव विशदमिदं संगमोत्कंठयेतः । कालिंद्येव प्रयत्योपपरिहरिणया नीलरत्नांशुभिन्नच्छायां भः स्रोतसा यद्वलयिमधिकं तीर्थभूतं विभाति ॥ १ ख्यातं हिरण्यनगरं गुरु तत्र चित्रपत्रोपनिनसुवयः सुतरम्यशाखः । सद्गोत्रजोऽनुपमपर्व्वविराजमानो वंशोऽस्ति हुंबडनृणां शुभवर्णशाली ॥ २ तत्र स्ववित्तसुखतीकृतजंतुजातः कल्याणसंभृततया धनदायमानः । श्रेष्ठ्यंबकः सुहृदभून्न परंहरस्य मित्रं तथापि परमं स महेश्वराणाम् ॥ ३ अदक्षिणाशाsपूर्वाशा न पराशा मनोमुदे । उत्तरेवोत्तमा भार्या तस्य नाढीति विश्रुता ॥ ४ नलकूवर इव पुत्रः प्रेयान्वैश्रमणपितृपरमभक्तः । जज्ञेऽश्वनागनामा तस्या वित्तोपयोगपरः ॥ ५ संपूर्णा च यशोदेवी राकानुमतिसंनिभे । चंद्रस्येवास्य कान्ते द्वे प्रकाशे शुद्धपक्षतः ॥ ६ संपूर्णायाः सहुः ........वांछिततरं दानं वा ......तमं वाक् सुमानाम् । पुत्रो जज्ञे ज्ञानविज्ञानशाली शालीनात्मा सर्वदेवाभिधानः ॥ ७
यशोदेव्या यशोदायी कृत्यजातपरायणः । वीरनामाऽभवत्तस्य संजातौ द्वौ सुतोत्तमौ ॥ ८ सम्यग्बोधसुराचलेन मथिते मिथ्यात्वबंधा "यौ चंद्रामृतसोपरी मदविषा वेगानभिज्ञापरम् । सौंदर्येण च यौ: " "सर्वदेवहरणे व ....... कृताः ॥ ९ केनासौ मदनस्तृतीयनयनज्वालाकलापे हुतः किं ब्रूत त्रिपुरान्तकेन ननु सोप्याज्ञाति ..... पीयूषं .......इत्थं ... ""यद्" ....यद् पुत्रच्छलतश्चकार स पुनः पंचप्रकारं वपुः ॥ १०
........
*************
ते चामी धनदेवो वट ईलाकश्च केल्हणः खदिरः । पंचापि पंचबाणानुकारिरूपा अपि सुशीलाः ॥ ११25
Jain Education International
११
5
For Private & Personal Use Only
10
15
ये च क्रीडासदनमनखे " .............धा भरणं निभृते मूर्तिमान् पुण्यपुंजः ।
धन्यं धाम प्रणयिपरमाल्हादवृद्धेः समृद्धेर्बुद्धेः सिद्धेः शरणमरणिर्ध्यानवन्हेः शुभस्य ॥ १२ भगिनी तेषां साढीति शीलसौंदर्य धत्ते । कुलटा - कुरूपाणामपि संवेगयतीव चेतांसि ॥ १३ धनदेवप्रमुखाणां लक्ष्मीः सीता च रुरिमणी धान्धी । भार्या यशोमतिश्च क्रमेण जाता महासत्यः ॥ १४ याः कामधेनुप्रतिमा .............लाः । लीलाललामां अपि नव्यं (?) संवेगरंगांगणबद्धनृत्ताः ॥ १५ लक्ष्म्याः पुत्री झल्ला सलक्षणा, नंदनाश्च सीतायाः । आभूश्च पार्श्वनागश्च संतुकश्चेति शान्तहृदः ॥ १६
30
भागिनेयोऽश्वदेवोऽभूद्देवतातिथिपूजकः । पुत्र्योऽपि तादृश्यस्तिस्रश्चामी राजूश्च मोहिनी ॥ १७ iधिकायाः पुनः पुत्री पूर्णिका शीलशालिनी । सर्वदेवो यशोमत्याश्च
॥ १८
20
www.jainelibrary.org