________________
ओशवालवंशीय पद्मश्रीश्राविकालेखितपञ्चमीकथापुस्तिकाप्रशस्तिः ।
[ लेखनकाल १३१३ विक्रमाब्द ]
संवत् १३१३ वर्षे चैत्रशुदि ८ रवौ महाराजाधिराजश्रीवीसलदेवकल्याणविजयिराज्ये तन्नियुक्तश्रीनागडमहामात्ये समस्तव्यापारान् परिपंथयतीत्येवं काले प्रवर्तमाने प्रल्हादनपुरे जिन सुंदरिगणिन्या 5 ज्ञानपंचमीपुस्तिका लिखापिता ॥ ५ ॥
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
[१२]
१
शाखासहस्रमहिते वंशेऽस्मिनोशवालसाधूनाम् । आसीद् वीरकनामा वालिणिहृदयाधिदैवतं धीमान् ॥ श्रीमानाम्रकुमारो मारतनुः श्रीकुमारनामा च । जसदू - शालिकसंज्ञौ तत्तनयाः पूर्णचंद्र इति पंच ॥ २ भगिनी विनयाचारशालिनी गुणमालिनी । पुण्यश्रीरभवत्तेषामिंद्रियाणां सुधीरिव ॥ ३ लाली शालीनविनया श्रीकुमारहृदीश्वरी । असूत सूतमन्यूनवसुदं बहुदाभिधम् ॥ ४ आम्वोधनाम्वसावथ जेसल - गुणदावसूत विजयमतिः । तद्भार्या त्वथ केल्हीं राजीं च सरखतीं ससोमलताम् ॥ ५
पद्मश्रीरिति निश्छद्मचरिता दुरितोज्झिता । द्वितीया बहुदाकस्य प्रियाsसूत सुतानिमान् ॥ ६ वाह चाहडं चाम्रदेव सालसंज्ञकौ । गांगदेवं तथा जालूं तनयां विनयानताम् ॥ ७ पद्मश्रीश्वतां स्वकीयवयसां विज्ञाय वाक्यैर्गुरोः
पुण्यश्रीमनिशं समृद्धिमधिकं नेतुं विसर्पन्मतिः । नज्ञा[ ना ] मृतपानतोऽस्त्यधिकमित्याधाय चित्ते मुहुः सद्वर्णावलिशालिका· · ••वती यत्पंचमीपुस्तकम् ॥ ८
इदं ललितसुंदर्यै गणिन्यै गुणशालिनी । सच्चरित्रपवित्रायै सा ददौ सम्मदोदयात् ॥ ९ [* पट्टनस्थसंघवीपाडासत्कभाण्डागारे स्थितमिदं पुस्तकम् ]
'संपूर्ण चेदं परिशिष्टपर्वम् ॥ ५ ॥
[१३]
प्राग्वाटवंशीयश्रे० सेवाकलेखित - परिशिष्ट पर्वपुस्तकप्रशस्तिः । [ लेखनकाल १३२९ विक्रमाब्द ]
Jain Education International
१५
ॐ ॥ दुष्टाष्टकर्मेभजयावदातः साक्षात्तपः सिंह इवांकदंभात् ।
सुखामिभक्त्या वरिवस्यति स्म पादाम्बुजं यस्य मुदे स वीरः ॥ १ इतश्चास्ति धरापीठे ग्रामो ...भिधः । विधिपक्षविधुक्षीरनीरधिः पुण्यशेवधिः ॥ २ प्राग्वाटवंश उदितोदितवंशधुर्यः श्लाघ्यः स तत्र भवति स्म सुखेन यत्र । वंश्यैः स्थितै.... " ते सुरश्रीः किं दनतामनुपमस्य न तस्य विद्मः ॥ ३ आसीत् शुभंकरस्तत्र पुराणः पुरुषः पुरा । सेवाभिधश्च तत्सूनुस्तत्पुत्रश्च यशोधनः ॥ ४ उद्धरण-सत्यदेवौ श्रीमलयप्रभपितृसुमदेवश्च । बाढू नामा तुर्यो लीलाकस्तत्सुताः पंच ॥ ५
....................
For Private & Personal Use Only
10
15
20
25
30
www.jainelibrary.org