SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 10 15 जैनपुस्तकप्रशस्तिसङ्ग्रह। या नित्यशः सहजभूषणभूषितांगी लज्जानवद्यवसना शुचिशीलचर्चा । जैनागमश्रवणकुंडलभाक् सुवर्णालंकारभृच्छुभवचःक्रमुका"वक्त्रा ॥ २१ चत्वारस्तनया बभूवुरनयोः संपन्नकोशोच्छ्या......भ्यासपराः क्षमाभरधराः प्राप्तप्रतिष्ठाः कलौ । सत्यागा गुरुविक्रमाः सुयशसः सच्चक्रसाराः प्रजाः पूज्याः सद्विनयाः सुनीतिसदनं संतो नरेंद्रा इव ॥ २२ तत्राद्यश्चाहडो नाम बोहडिस्तु द्वितीयकः । आसडाख्यस्तृतीयस्तु तुर्य आशाधरस्तथा ॥ २३ पापारिप्रहतिसहाः सुबाणयुक्ताः सुवंशसंजाताः । अध्यारूढगुणा ये धनुलता इव विराजन्ते ॥ २४ राहडश्रेष्ठिनस्तत्र जाता वध्व इमा वराः । अश्वदेवी च मुंधी च मादू-तेजुय-राजुकाः ॥ २५ तथा-यशोधर-यशोधीर-यशाकर्णादयोऽभवन् । पौत्राः पौत्र्यश्च घेऊय-जासुकाद्या जयंतुकाः॥२६ एवं कुटुंबयुक्तस्य राहडस्य श्रावकस्य तस्याथ । बोहडिनामा पुत्रः पंचत्वमुपागतः सहसा ॥ २७ अथ तद्वियोगविदुरः स राहडश्रावकः स्म चिंतयति । हा घिग्धिक्संसारखरूपमतिनिंदितं विदुषाम् ॥ २८ तथा हि-जीवितं यौवनं सद्वपुः संपदः सारसीमंतिनीसंगमः सज्जनाः । सर्वमित्यादिकं वस्तुजातं महामेघमध्यस्थविद्युल्लताचंचलम् ॥ २९ __ अतो मनुष्येण विधेय एव चतुःप्रकारोऽपि जिनेंद्रधर्मः । __ उशंति तत्रापि वसु प्रशस्यं सज्ज्ञानदानं मुनिकुंजरेंद्राः ॥ ३० अतोऽहं ज्ञानदानं तत् करोमीति विचिंत्य सः । चरितं लेखयामास शान्तबिंब च कारितम् ॥ ३१ खभुजोपात्तवित्तेन पूर्वं सत्पित्तलामयम् । गृहपूजोचितं स्फारं पुण्योपार्जनहेतवे ॥ ३२ नृपतिगृहमिवोच्चैश्चंचदन्तःसुवर्णं विहितरुचिरचित्रं चारुपत्रेण शोभि । ............."कृतबहुजनमोदं पुस्तकं तच्चकास्ति ॥ ३३ संवच्छरे नगभुजाई (१२२७) मिते नभस्ये मासे पुरेऽणहिलपाटकनामधेये । सुश्रावके कुमरपालनृपे च राज्यं कुर्वत्यलिख्यत सुपुस्तकमेतदंग ॥ ३४ श्रीमत्परमानंदाचार्येभ्यः श्रीयसःप्रभाचार्य.............. शिष्येभ्यः ॥ ३५ यावन्नभःश्री जननीव तोषं पयोधरक्षीरभवं प्रजानाम् । तनोति ताराभरणा सुपुष्पदन्ताऽस्तु तावद् भुवि पुस्तकोऽयम् ॥ ३६ श्रीचक्रेश्वरसूरेः श्रीपरमानंदसूरिभिः शिष्यैः । विहिता प्रशस्तिरेषा पर्यंते पुस्तकस्यास्य ।। ३७ ॥ मंगलं महाश्रीः॥ [ * पट्टनस्थसंघवीपाडासत्कभाण्डागारे विद्यते पुस्तकमिदम् । ] [६] रामदेवश्रावकलेखित [नेमिचन्द्रसूरिविरचित]-महावीरचरित्रपुस्तकप्रशस्तिः । [लेखनकाल १३ शताब्दी] | प्राच्या वाटो जलधिसुतया कारितः क्रीडनाय तन्नाम्नैव प्रथमपुरुषो निर्मितोऽध्यक्षहेतोः । तत्सन्तानप्रभवपुरुषैः श्रीभृतैः संयुतोऽयं प्राग्वाटाख्यो भुवनविदितस्तेन वंशः समस्ति ॥ १ तस्मिन्नभूत्सुचरितः शुभवृत्तशाली श्रेष्ठी गुणैकवसतिद्युतिमान्प्रसिद्धः । मुक्तामणिप्रतिकृतेः नियमाततान त्रासादिदोषरहितः सहडू प्रतीतः ॥ २ स्फु " 20 25 80 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy