________________
15
जैनपुस्तकप्रशस्तिसङ्ग्रह। पत्नी सहडूकस्याभूच्छेष्ठा गागीति संज्ञिता । सद्धर्मकर्मनिरता जज्ञिरे तनयास्तयोः ॥ ३ आद्योऽभून् मणिभद्राख्यः शालिभद्रस्तो गुणी । तृतीयः सहलको नाम प्रिये तस्य बभूवतुः ॥ ४ आद्या बाबी गुणाधारा तत्सुतो वेल्लकाभिधः । सच्छीलाम्बरशालिनी पुत्री सेहडिसंज्ञिता ॥ ५ थिरमत्या द्वितीयायास्तनयाः पञ्च जज्ञिरे । आद्यौ धवल-वेलिगौ यशोधवलः कलाभृत् ॥ ६ रामदेवोऽपि निःशेषकलासङ्केतमन्दिरम् । ब्रह्मदेवो यशोदेवः पुत्री वीरीति विश्रुता ॥ ७ महौजा धवलसूनुरासदेवो विवेकवान् । वेलिगस्यापि सत्सूनुरासचन्द्रः कलालयः ॥ ८
इतश्चआसीचन्द्रकुले शशाङ्कविमले सूरिर्गुणानां निधिस्त्रैलोक्येऽभयदेवसूरिसुगुरुस्सिद्धान्तविश्रामभूः । स्थानाङ्गादिनवानवृत्तिकरणप्राप्तप्रसिद्धिर्भृशं येन स्तम्भनके जिनस्य विशदा सम्यक्प्रतिष्ठा कृता ॥९ तत्पट्टे हरिभद्रसूरिरुदभून्निश्शेषशास्त्रार्थवित्तच्छिष्योऽजितसिंहसुरिरुदभून्निस्सङ्गिनामग्रणीः। 10 तच्छिष्योऽजनि हेमसूरिसुगुरुगीतार्थचूडामणिस्तत्पादाम्बुजषट्पदो विजयते श्रीमन्महेन्द्रप्रभुः ॥ १० करिकर्णास्थिरा लक्ष्मीः प्राणास्तु क्षणनश्वराः । इत्थं व्याख्यां ततः श्रुत्वा श्रद्धासंविनमानसः ॥ ११ यानपात्रं भवाम्भोधौ मज्जतां प्राणिनामिह । पततां दुर्गतौ कूपे रज्जुकल्पं हि पुस्तकम् ॥ १२ इत्येवं मनसि ज्ञात्वा रामदेवेन लेखितम् । श्रीमहावीरचरितमात्मनः श्रेयसे मुदा ॥ १३ मनोज्ञपत्रसंयुक्तं सदक्षरविराजितम् । भुवनचन्द्रगणये दत्तं सद्भक्तियोगतः ॥ १४ [ * पुस्तकमिदं पत्तननगरे खेतरवसतिपाडासत्क उपाश्रयस्थभांडागारे विद्यते । ]
[७] महामात्यवस्तुपालसुतजैत्रसिंहलेखितपुस्तिकाप्रशस्तिः ।
[लेखनकाल १३ शताब्दी] प्राग्वाटान्वयमण्डनं समजनि श्रीचंडपो मण्डपः श्रीविश्रामकृते तदीयतनयश्चण्डप्रसादाभिधः। 20
सोमस्तत्प्रभवोऽभवत्कुवलयानन्दाय तस्यात्मभूराशाराज इति श्रुतः श्रुतरहस्तत्त्वावबोधे बुधः ॥ १॥ तज्जन्मा वस्तुपालः सचिवपतिरसौ सन्ततं धर्मकर्मालंकर्मीणैकबुद्धिर्विबुधजन[चम ?]त्कारिचारित्रपात्रम् ।। प्राप्तः सङ्घाधिपत्वं दुरितविजयिनी सूत्रयन् सङ्घयात्रां धर्मस्योज्ज्वल्यमाधात्कलिसमयमयं कालिमानं विलुप्य ॥२॥
यस्याग्रजो मल्लदेव उतथ्य इव वाक्पतेः । उपेन्द्र इव चेन्द्रस्य तेजःपालोऽनुजः पुनः ॥ ३ ॥ चौलुक्यचन्द्रलूणप्रसादतनुजस्य वीरधवलस्य । यो दधे राजधुरामेकधुरीणं विधाय निजमनुजम् ॥ ४ ॥ 25 विभुता-विक्रम-विद्या-विदग्ध-वित्त-वितरण-विवेकैः । यः सप्तभिर्विकारैः कलितोऽपि बभार न विकारम् ॥५॥
अपि चाप्यायिता वापीप्रपाकूपसरोवरैः । पोषिता पोषधागार्जीर्णोद्धारैः समुद्धृता ॥ ६ ॥ श्रिया प्रीतया निर्व्याजं पूजिता सङ्घपूजनैः । प्रशस्तिविस्तरस्तोमैः सरस्वत्यापि संस्तुता ॥७॥ शौर्येणोर्जस्वितां नीता स्फीता नव्योक्तिसूक्तिभिः । प्रीतार्थिसार्थसत्कारैरुपकारैः पुरस्कृता ॥ ८ ॥ वासिता साधुवादेन तोरणैस्तुङ्गतां गता । हैमस्रग्दामकुम्भेन्द्रमण्डपाद्यैश्च मण्डिता ॥ ९॥
30 नित्यं शत्रुञ्जयाद्रौ नवजिनभुवनोत्तुङ्गशृङ्गाग्रजापद्वातव्याधूतधौतध्वजपटकपटाद्यस्य नर्ति कीर्तिः । तस्येयं गेहलक्ष्मीविभवति ललतादेचिनाम्नी तदीयः पुत्रोऽयं जैत्रसिंहः स्फुरति जनमनःकन्दरामन्दिरेषु ॥ १० ॥
दृष्ट्वा वपुश्च वृत्तं च परस्परविरोधिनी । विवदाते समं यस्मिन्मिथस्तारुण्य-वार्द्धके ॥ ११ ॥
२ जै० पु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org