SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ 10 15 जैनपुस्तकप्रशस्तिसङ्ग्रह । सद्धर्माभिरतिर्गुणैकवसतिः संतोषपुष्यद्वतिर्ज्ञानाभ्यासरतिर्गृहीतविरतिः सौजन्यवारांपतिः । साधूपास्तिकृतादृतिर्गजगति(रः प्रसन्नाकृतिः कल्याणव्रततिर्निरस्तकुगतिः प्राणिप्रणुन्नक्षतिः ॥ ८ वीरणागाभिधः पुत्रस्तृतीयः सुगुणास्पदम् । जाउकांहा पितुर्जानिर्भगिन्येषां तु वेल्लिका ॥९ या सीतेव कलंकचक्रविकलं शीलं दधाना सती जाता ख्यातिमती सतीति गुणिनां चेतश्चमत्कारिणी । कृत्याकृत्यविवेककारिधिषणा धर्मैकचिंतारतिः सज्जाया शितदेव्यभून्मतियुता सा वेल्लकस्य प्रिया ॥ १० चाहिणी वाजकस्याद्या पत्नी जाता द्वितीयका । शृंगारमतिराज्ञायां जिनेशस्य व्यवस्थिता ॥ ११ वाजकश्चिंतयामास सारसंवेगसंगतः । अन्यदा स्फटिकाकारे मानसे शुद्धधीर्यथा ॥ १२ कल्पांतप्रबलप्रवृत्तपवनव्यावृत्तदीपांकुराकारा प्रीतिरनंगसंगिललनाभ्रूभंगुरा संगमाः । धर्मक्लांतमृगेंद्रवक्त्रकुहरव्यालोलजिह्वाचलं लावल्यं(ण्यं) लवलीदलापविलसद्धिंदूपमं जीवितम् ॥ १३ शरदभ्रसमाः सर्वे पदार्थाः सुखहेतवः । संत्रासोद्भांतसारंगीविलोचनचलं बलम् ॥ १४ माद्यत्कुंजरकर्णतालति रतिः............... वामाडंबरति प्रभुत्वमबलाचेतः शरन्मेति । ..'शक्रशरासनत्यनुकलं संध्याभरागत्यहो तारुण्यं विषया धराधरधुनीवेगंति नृणां यतः ॥ १५ तस्मात्संसारवल्लीवलयवि........................क्षोभरंभामलनमदकलः काललीलाविजेता । मोक्षस्त्रीसंगदूती सुगतिपथरतः संपदाह्वानमंत्रो ध्वस्ताशेषव्यपायो निखिलसुखखनिर्धर्म एवात्र कार्यः ॥ १६ प्रभवति स च धर्मो ज्ञानतस्तच्च शुद्धं जिनवचनसरोजाज्जायते सौरभं वा । तदपि सततमेधाहासभावान्न क.........................................द्विरिच्य॥ १७ ततश्च-कामोरुदावे विषयोरुतृष्णाच्छेदाय वन्यैः प्रति तन्यतेऽसौ । संसारसत्रे भविनां जिनाज्ञाज्ञानामृतांभःसरसी विलेख्य ॥ १८ विशेषतो युक्तं ज्ञानदानं......॥ 20 समस्तधरणीतलप्रथितकीर्तिकल्लोलिनीविनिर्गमकुलाचलो विमलकेवलालोक.....। ............................शकाग्रतो वरां न चरणक्रियां विशदबोधयोगं विना ॥ १९ मोहध्वांतांशुमाली भववनगहनोत्सर्पिदावानलाभो मानामानागशृंगप्रहतिहरिहयोद्दामहेतीयमानः । खस्थानप्राप्तिवाहः क्षितिविततमहाकोपदावांबुवाहो दौर्गत्यभ्रंश.................... 'तुः ।। २० प्रभवति कृतिनोत्र ज्ञानदानाभियोग इति मनसि निवेश्यालेखयामास शुद्धम् । रसिकहृदयचक्षुर्मोदहेतुः सुवर्ण प्रकटितवरभावं पुस्तकं चित्रतुल्यम् ॥ २१ वाजको वेल्लकस्योचैर्निजभ्रातुर्दिवालयम् । गच्छता भणितस्तेन श्रेयसे............ ॥ २२ ................"ल क्रमुकतिलकितो मालतीकुंदपुष्पैः ___ रम्यः कल्लोलमालाकरकमलतलैः शुक्तिमुक्ता विकीर्य । क्रीडन्नास्ते धरायां नृपतिशिशुरिव खःसवंतीप्रवाहो 30 यावत्तावन्मुनींद्रेः कुमतविदलनोऽधीयता................ ॥ २३ . श्रे० वउल् । लक्ष्मी भार्या । जाउका भगिनी । पुत्रा वेल्लक् वाजक् वीरणाग् । आद्यभार्या शिवादेवी द्वितीयभार्या शृंगारमतिः । तत्पुत्रोऽस्त्याशादेवः ।। [ एतत् पश्चादन्याक्षरैर्निम्नगता पंक्तिलिखिता लभ्यते ] प्रान्काटवंशभूषण व्य० अणंता भार्या मटू सुता माऊ । सुतौ च व्य० अभयपालश्रवणस्य गृहीतदीक्षस्य खश्रेयोऽर्थ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy