SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह । चुन्नी जसदेवसूरिरइया तह लहुयवीरचरियं च । रयणच्चूडकहा वि य दसमंमि य पोत्थमंमि फुडं ॥ २६ ॥ अन्यच्च सिद्धभार्यापि राजमत्यभिधानिका । कथंचिद्दिवमावाप्तौ तया चोचे निजो वरः ॥ २७ ॥ भगवतीपुस्तके रम्ये कार्ये मत्पुण्यहेतवे । तेन तद्वचनात्पूर्ण कारितं पुस्तकद्वयम् ॥ २८ ॥ एकत्र भगवतीसूत्रं द्वितीये वृत्तिरुज्ज्वला । लेखिता चारुवर्णाढ्या मोक्षमार्गान्तरप्रपा ॥ २९ ॥ संवत्सरे मुँनिर्वसुस्मरवैरिसंख्ये, श्रीमत्पुरेऽणहिलपाटकनामधेये । पृथ्वीं च शासति नृपे जयसिंहदेवे निष्पादितः प्रवरपुस्तकवर्ग एषः ॥ ३० ॥ श्री शालिभद्राभिधसूरि [शिष्य ] श्री वर्धमानप्रभुपादपद्मे । इंदिंदिराकारजुषां ततः श्रीचक्रेश्वराचार्यविशिष्टनाम्नाम् ॥ ३१ ॥ समर्पितः पुस्तकवर्ग एष निरंतरं शोधनवाचनाय । इदं च तन्मध्यगतं सुवर्ण - सत्पुस्तकं राजति वाच्यमानम् ॥ ३२ ॥ यावन्नभोंगणगताः शशिभानुतारा राजंति लोकतिमिरं सततं क्षिपत्यः । यावद् ध्रुवः सुरगिरिश्च चकास्ति तावत् श्रीपुस्तको विजयतामिह पठ्यमानः ॥ ३३ ॥ संवत् १९८७ कार्तिक सुदि २ लिखितं भगवती विशेषवृत्तिपुस्तकं श्रीचक्रेश्वरसूरीणां श्रे० सिद्धश्रावकस्य ॥ [ * पट्टनस्थसंघसत्कभाण्डागारे पुस्तकमिदं सुरक्षितं विद्यते [ ४ ] वाजकभावकलेखित [ देवभद्राचार्यकृत ] - पार्श्वनाथचरित्रपुस्तकप्रशस्तिः । [ लेखनकाल - ११९९ विक्रमाब्द ] जलधिवलयवेलामेखलायामिलायां कलितविपुलशाखः सद्गुणानां निवासः । विततविशदपर्वा संश्रितप्रीतिहेतुर्जितधरणिधरर्द्धिः पत्रशाली विशालः ॥ १ श्रीमान् प्राग्वाटवंशोऽस्ति तत्र मुक्ताफलप्रभः । सद्भूषणं शुचिः श्रेष्ठी बकुलः समजायत ।। २ चंचच्चार्विदुरोचिश्चयहरहसिताकार कीर्तिच्छटाभिः सप्र्पतीभिः समंताद्धवलितवसुधः शुद्धबुद्धेर्निधानम् । दिक्कांताकर्णपूरप्रतिमगुणगणः सज्जनानंददायी संतोषापारवारः करणरिपुबलं हेल्या यो जिगाय ॥ ३ शीलेन सीतेव जनौघरंजिका सौभाग्यसंगेन जिगाय पार्वतीम् । या क्षांतियोगेन निरास काश्यपीं लक्ष्मीति जायास्य बभूव सा शुभा ॥ ४ ॥—इति श्रीप्रसन्नचंद्रसूरिपादसेवक श्रीदेव भद्राचार्य विरचितं श्रीपार्श्वनाथचरितं समाप्तं ॥ संवत् ११९९ अश्विनवदि ६ रवावद्येहाशापल्ल्यां गौडान्वयकायस्थकवि सेल्हणसूनुना पुस्तकं वल्लिगे - 20 नेद्रं लिख्यतेऽथ समाप्यते ॥ ५ ॥ सूनुस्तस्याः समजनि सच्छायो विबुधजनमनोहारी । वेल्लक इति विख्यातो नीरनिधेः पारिजात इव ॥ ५ सुविहित पदां भोजे सेवारतिर्मधुपाधिका सुजनकमलासंगे बुद्धिर्मरालकुलोज्ज्वला । अमृतमधुरा सारा वाणी सतां हृदयंगमा विमलमनसो यस्यावश्यं बभूव मनोहरा ॥ ६ चरणचंचुरसाधुकृतादरो गुणगृहं दमदानदयापरः । गुरुपदांबुरुहप्रणतिः सुधीस्तदनुजोऽजनि वाजकनामकः ॥ ७ Jain Education International 5 For Private & Personal Use Only 10 15 2.5 30 www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy