________________
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
[३] श्रे० सिद्धश्रावकलेखित-भगवतीविशेषवृत्तिपुस्तकप्रशस्तिः ।
[लेखनकाल-११८७ विक्रमाब्द]
5
10
खभुजविधापितसव्यकारितानेकतीर्थकृद्धिंपाः(बाः) । सद्धर्मनिरतमनसो जाताः पुत्रास्तयोश्धामी ॥ ४ ॥ प्रथमो वोढकसंज्ञो वीरडाख्यो द्वितीयकः । तृतीयो वदुडो नाम चतुर्थों द्रोणकाभिवः ॥ ५॥
तेषां च मध्ये जिनसाधुभक्तः श्रेष्ठी गरिष्ठः किल वीरडाख्यः । एतस्य भार्या धनदेविनाम्नी बद्धादराभूजिनराजधर्मे ॥ ६॥ तयोश्च पुत्रः सरलखभावो जिनेशधर्मस्थिरचित्तवृत्तिः ।।
कृपापरो दुःखितजंतुवर्गे सतां मतः पूजितपूजकश्च ॥ ७ ॥ येनाकारि मनोहररूपं श्रीवीरनाथतीर्थकृतः । सत्पित्तलामयमघध्वंसकर श्रीसमवसरणम् ॥ ८ ॥ यो व्यधापयनिंद्यमुत्तमं पापकर्मपटलक्षयक्षमम् । उत्तराध्ययनवृत्तिपुस्तकं ज्ञानभक्तिवशगः स्वमुक्तये ॥९॥ किंबहुना यः खं खं धर्मस्थानेष्वयोजयद् बहुशः । यश्चाजस्रंवंदनकगुणनसद्ध्यानरतचित्तः ॥ १०॥ श्रेष्ठी वरदेवाख्यः समजनि लक्ष्मीरिति प्रिया तस्य । लक्ष्मीः सौरेरिव हृदयहारिणी चारुरूपाढ्या ॥ ११ ॥
तयोश्च पुत्रः समभूत्प्रसिद्धः सिद्धाभिधः पुण्यधनकधामा । आदेयवाग् यो गुणिपक्षवर्ती वीरः कृतासौ रतिकान्तरूपः ॥ १२ ॥ बद्धादरो यो जिनराजधम्में यश्चोपचक्रे जिनमंदिरेषु ।।
यो लब्धमव्यों(?)बुधिवत्सुमेधा यो राजलोकेऽतिमतो गुणैः खैः ॥ १३ ॥ दृढप्रतिज्ञः प्रतिपन्नकार्ये दाक्षिण्यपाथोनिधिरस्तदोषः । दानाम्बुवर्षित्वपयोदकल्पः सदा सदाचारपरायणो यः ॥१४॥ 20 भगिनी यस्य चांपूश्रीरासीच्चामृतदेविका । जिनमतिर्यशोराजी पाजूकांबा तथा परा ॥१५॥
यश्च दधिपद्रपत्तनवास्तव्योऽपि प्रकथ्यते लोकैः । पूर्वनिवासापेक्षावशेन मड्डाहडपुरीयः ॥ १६ ॥ द्वे भायें तस्य संजाते पत्याज्ञारतमानसे । राजमत्यभिधानका श्रियादेवी द्वितीयका ॥ १७ ॥
वीरदत्तांवसरणादयः सूनवो वीरिका जसहिणिप्रभृतयः पुत्रिकाः ।
तस्य जाताः सदाचारिमार्गे रताः सर्वलोकीयचेतःप्रमोदावहाः ॥ १८ ॥ 25 अथान्यदा सिद्धपिता स्वकीयं पर्यन्तमासन्नतरं प्रमत्य । परत्र पाथेयमतो जिघृक्षुः सिद्धाभिधं पुत्रमिदं जगाद ॥१९॥ मच्छ्रेयसे वत्स वरेण्यतीर्थयात्रासु संघे जिनराजधिष्णोः । विशेषतः पुस्तकलेखनेषु वित्तं नियोज्यं भवता यथेच्छम् ॥२०॥
अथासौ खर्गते ताते लक्षं ग्रंथस्य साधिकम् । पुस्तकेषु पवित्रेषु दिशसंख्येष्वलीलिखत् ॥ २१ ॥ तत्थ गंथा सुयग्गडंगवित्ती ससुत्त-निजुत्ती । तहय उवासगदसियाइ-अंगसुत्ताणि वित्तीउ ॥ २२ ॥ तह ओवाइयसुत्तं वित्तीं रायप्पसेणइयसुत्तं । तह कप्पसुत्तभासा चउत्थए पंचमे य पुणो ॥ २३ ॥ कप्पचुण्णी छटे दसवेयालियवित्तिसुत्तनिजुत्ती । उवएसमाल-भवभावणाण दो पुत्थया रम्मा ॥ २४ ॥ तह पंचासगवित्ती सुत्तं लिहियं च नवमयं एयं । पिंडविसुद्धी-वित्ती पढमगपंचासगस्स तहा ॥ २५ ॥ आद्यानि त्रीणि पद्यानि केनचित् पश्चाद्विनाशितानि ।। प्रिोपीटर्सन नामधेयेन पण्डितेन खीय ५ रीपोर्टपुस्तके इत आरभ्य एवेयं प्रशस्तिः समुद्धृता । द्रष्टव्यम्-तत्पुस्तकम्, पृष्ठ० ५८ ।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org