SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह | तत्र प्रजज्ञे हृदयालयेषु कृतस्थितिः पुण्यवतो जनस्य । वृत्तोज्ज्वलः कान्तिकलापपात्रं मुक्तामणिः श्रावक सर्वदेवः ॥ २ ॥ अवदाता प्रभैवास्य तमःप्रसरवारिणः । महिमेति भुवि ख्याता बभूव सहचारिणी ॥ ३ ॥ ताभ्यां पुरस्कृतनयस्तनयोऽजनिष्ट निष्ठापरः परमसंयमिनां वरिष्ठः । राजन्यमान्यमहिमा हिमपूरगौरैः ख्यातो गुणैर्जगति संधुलनामधेयः ॥ ४ ॥ जाताऽस्य प्रेयसी मान्या सीमान्या रूपसम्पदः । पूर्णादेवीति सौभाग्यमसौ भाग्यं च बिभ्रती ॥ ५ ॥ जातमपत्यचतुष्टयमाभ्यामभ्यस्तशस्त जिनधर्मम् । भुवनगुरु बिम्बपूजनकृतादरं मन्दिरं नीतेः ॥ ६ ॥ प्रथमो देहडनामा देशलनामा सुतोऽपरस्तत्र । सोहिणि-पुनिणिसंज्ञे पुत्र्यौ पात्रं विनयलक्ष्म्याः ॥ ७ ॥ एषां मध्ये सहृदयहृदयो धार्मिकः श्रावकाणां मुख्यः श्रीमान् मथितकुमतो वर्त्तते देशलाख्यः । यस्याजस्रं श्रवणपुटकैः सद्यशः क्षीरपूरं पायंपायं कथमपि जना नैव तृप्तिं भजन्ति ॥ ८ ॥ किञ्च — गाम्भीर्येण पयोनिधिर्धिषणया वृन्दारकाणां गुरुस्तुङ्गत्वेन सुपर्वपर्वतपतेः सौम्येन शीतत्विषः । सौन्दर्येण मनोभवस्य वित्तत्वेनोत्तराशाम्पतेर्योऽत्यन्तं प्रतिपन्थ्यपि त्रिजगतीमित्रं परं कीर्त्यते ॥ ९ ॥ अन्यच्च - न्यायार्जितेन विभवेन भवान्तहेतोः स्वीयालयोचित ......... "नयेन येन । त्रैलोक्यकैरवविकाशशशाङ्कबिम्बं बिम्बं विधापितमपश्चिमतीर्थ भर्तुः ॥ १० ॥ शीलालङ्कारवती स्थिरदेवी वल्लभाऽभवच्चास्य । रेमे यदीयमनसा मनागपि न तीर्थिकवचस्तु ॥ ११ ॥ अनयोः सञ्जातास्ते तनूरुहा वाहडादयः सदयाः । मारो हतिमारोहति विलोक्य कायश्रियं येषाम् ॥ १२ ॥ अन्यदा देशलः श्रुत्वा तथाविधगुरोर्गिरम् । प्रवृत्तश्चेतसा सार्धं समालोचयितुं चिरम् ॥ १३ ॥ तथाहि —अहो भ्रतश्चेतो गुणगणनिधे किन्तु भणसि क्षणं वार्त्तामेकां शृणु ननु मदीयामवहितम् । 15 भवाम्भोधेर्मध्ये महति पततां हन्त भविनां विना जैनं धर्मं किमपि शरणं नास्ति नियतम् ॥ १४ ॥ ज्ञानादिभेदैः स पुनस्त्रिभेदः प्ररूपितो यद्यपि पूज्यपादैः । लातव्य-हातव्य-विवेकहेतुस्तथापि विज्ञानममीषु मुख्यम् ॥ १५ ॥ मतिज्ञानादिभिर्भेदेस्तच्च प्रावाचि पञ्चधा । खान्यावभासकत्वेन श्रुतज्ञानं परं परम् ॥ १६॥ हे मित्र किञ्चित्तमुत्र भक्तिं विधातुमिच्छामि धनव्ययेन । मनस्ततः प्राह विधेहि शोध्यं धर्मे न यस्मादुचितो विलम्बः ॥ १७ ॥ इदं हि बिभ्यद्धरिणीकटाक्षसहोदरं द्रव्यमुदाहरन्ति । अनेन चेन्निश्चलपुण्यराशिर्वि....... ते चारवणिज्यमेतत् ॥ १८ ॥ इत्थं निजेन मनसा मुनिनायकैश्च चक्रेश्वरेत्यभिधया प्रथितैः पृथिव्याम् । प्रोत्साहितः सपदि देशलनामधेयो ग्रन्थानलीलिखदमूंश्चतुरः सटीकान् ॥ १९ ॥ 5 Jain Education International प्रशस्तिः समाप्ता । ज्ञा० पुस्तकं श्रीयशोदेवसूरीणां श्रीश्रीप्रभसूरीणां श्रे० देशलपुत्र- यशहड-सूलणरामदेव-आल्हण श्रावकाणां ॥ 10 For Private & Personal Use Only 20 30 [ * पुस्तकमिदं स्तम्भतीर्थस्थशान्तिनाथभाण्डागारे सुरक्षितमस्ति । दृ० पीटर्सनरीपोर्ट पुस्तक १, पृ० ३६ । तत्रेयं प्रशस्तिर्नास्ति । ] 25 www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy