________________
....
15
need
.
जैनपुस्तकप्रशस्तिसङ्ग्रह । अन्येऽपि च रामसुताः प्रसिद्धिभाजो बभूवुरुपशमिनः । साहस-संधिक-अंदुकनामानो मान्यजनमान्याः ॥ ८॥ अपरौ च तीव्रतपसौ विशुद्धवृत्तेः प्रसिद्धसत्त्वस्य ।।
कुलचन्द्रस्याभवतां पुत्रौ जिनदेव-जसदेवौ ॥९॥ सर्वेऽपूर्वागमिकवचनाकर्णनाख्यानपाठप्रौढोत्साहाः परिहृतमहारम्भमिथ्यात्वकृत्याः । अर्हत्पूजा सुविहितजनोपास्त्यविच्छिन्नवाञ्छा याथातथ्यस्फुटपरिगताशेषजीवादितत्त्वाः ॥ १० ॥ कनकमिव परीक्ष्यानेकधा धर्ममन्यं प्रकटमघटमानं चावगत्य खमत्या । जिनवचसि विशुद्धे युक्तियुक्ते च चेतो विदधुरमलबोधं ये विनश्यद्विरोधम् ॥ ११ ॥
.........."रि विस्तारि पापमलवारि यशःप्रसारि। नेत्रानुकारि भवदारुविदारि हारि ज्ञानप्रदानमपराखिलदानसारम् ॥ १२ ॥
.................... [I] ....... विबुध्य बुद्ध्या सिद्धांतभक्त्या तैरिति पुस्तक [॥ १३ ॥]
................."णि शुभैः साध्ये च सत्संगमे । कस्याप्येव विलोकितस्य सुकृतैः पुंसः शिवप्रापिणो जायेतापरकार्यवर्जनवतो ज्ञानप्रदानोद्यमम् ॥ १४ ॥ एकवस्तुवि......................
............................ [॥ १५॥] तैः पाणिपंकजतले भ्रमरीव लक्ष्मीरारोपिता त्रिभुवनं गमिता च कीर्तिः।। उन्मूलिताश्च विपदः पदवी च लब्धा मोक्षस्य यैर्जिनमतं प्रविलेख्य [ दत्तम् ] ॥ १६ ॥ .........."पाणि"...."रन पुस्तको नाम.......................""जनैः ॥ १७ ॥
॥ इति मंगलं श्रीः ॥ 20 . [* पुस्तकमिदमधुना पूनानगरे भाण्डारकरप्राच्यविद्यासंशोधनमन्दिरस्थिते राजकीयग्रन्थसंग्रहे सुरक्षितमस्ति ।
See, Report on the search for Sanskrit mss. In Bombay presidency during the year 188081; by F. Kilhorn, Ph. D. p. 37.]
[२] देशलश्रावकलेखित-सटीक ज्ञाताद्यगचतुष्टयपुस्तकप्रशस्तिः।
[लेखनकाल ११८४ विक्रमाब्द] 25
सम्वत् १९८४ माघ सु ११ रवी अघेह श्रीमदणहिलपाटके महाराजाधिराजश्रीजयसिंहदेवकल्याणविजयराज्ये ज्ञाताधर्मकथाद्यवृत्तिलिखितेति ॥ शिवमस्तु० लोकः ॥१॥
ज्ञातावृत्तिः श्रीवर्धमानसूरीयश्रीचक्रेश्वरसूरीणां श्रीपरमाणंदसूरीणां श्रे० देशलपुत्रयशहड-सूलणरामदेवस्य पुस्तकमिदम् ॥ 30
प्राज्यच्छायो जन्मभूमिर्गुणानां दिक्पर्यन्तव्यापिशाखाकलापः । पत्रोपेतः पर्वभिर्वर्धमानः प्राग्वाटानामस्ति विस्तारिवंशः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org