SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ पुरातनसमयलिखित जैनपुस्तकप्रशस्तिसङ्ग्रह । [3] आवश्यक - विशेषभाष्य [ कोट्याचार्यकृतवृत्तियुत ] पुस्तकप्रशस्तिः । [ लेखनकाल- ११३८ विक्रमाब्द ] [अन्तभाग–] समाप्तमिदं विशेषावश्यकम् ॥ ५ ॥ कृतिर्जिन भद्रगणिक्षमाश्रमणपूज्यपादानाम् ॥ ६ ॥ भाष्यं सामायिकस्य स्फुटविकटपदार्थोपगूढं यदेतच्छ्रीमत्पूज्यैरकारि क्षतकलुषधियां भूरिसंस्कारकारि । तस्य व्याख्यानमात्रं किमपि विदधता यन्मया पुण्यमाप्तं प्रेत्याहं द्राग्लभेयं परमपरिमितां प्रीतिमत्रैव तेन ॥ लिखितं पुस्तकं चेदं नेमिकुमारसंज्ञिना । प्राग्वाट कुलजातेन शुद्धाक्षरविलेखिना ॥ सं० ११३८ पौषवदि ७ ॥ कोट्याचार्यकृता टीका समाप्तेति । ग्रंथाग्रमस्यां त्रयोदश सहस्राणि सप्तशताधिकानि ॥ १३७०० ॥ ॥ पुस्तकं वेदं विश्रुतश्रीजिनेश्वरसूरिशिष्यस्य जिनवल्लभगणेरिति ॥ [ पुस्तकलेखयितृप्रशस्तिः । ] इतश्च Jain Education International "जंतुनिवहस्य कृतप्रमोद गङ्गावतार" *** D " यस्याधुनाऽपि स मुनिप्रभुराम्रदेवः ॥ २ ॥ .... .... .... .... .... .... ..सदा स देवसूरि (?) [ ॥ ३ ॥ ] विस्फूर्जितं यस्य गुणैरुदात्तैः शाखायितं शिष्यपरम्पराभिः । पुष्पायितं सद्यशसा स सूरिर्जिनेश्वरोऽभूद् भुवि कल्पवृक्षः ॥ ४ ॥ *******...... “[ ॥ १॥ ] शाखाप्ररोह इव तस्य विवृद्धशुद्धबुद्धिच्छदप्रचयवंचितजात्यतापः । शिष्योऽस्ति शास्त्रकृतधीर्जिनवल्लभाख्यः सख्येन यस्य विगुणोऽपि जनो गुणी स्यात् ॥ ५ ॥ दृढ [रोहो] विततावकाशः स्वविस्तृतिव्याप्तदिगन्तरालः । क्षात्रः पवित्रः प्रथितोऽत्र धात्र्यां वंशोऽस्ति तुंगः स्फुटभूरिपर्व्व ॥ ६ ॥ तत्राभूतां भूतलावाप्तकीर्ती श्रद्धावन्तौ धार्मिकौ धर्मशुद्धौ । लोकाचाराऽबाधयाऽऽरब्धवृत्ती धीमानेको चिज्जट : फेरुकोऽन्यः ॥ ७ ॥ For Private & Personal Use Only *************** 5 10 15 20 www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy