________________
जैनपुस्तकप्रशस्तिसङ्ग्रह । गोत्रे कांकरिकाभिधे भुवि बभूवोदाभिधानः सुधीः __ श्राद्धः शुद्धनयस्तदीयतनयो धींधाभिधः श्रीलयः । कांता धांधलदेविकास्य तनुजास्तत्का जयंति त्रयः ____पुण्या मोहण-कृष्ण-कांकुण इति ख्याताः सुता मुक्तिका ॥१॥ मोहणेन निजमातृसुपुण्यश्रीनिमित्तमिदमुत्तमं पुस्तं । ध्युत्तराध्ययनसूत्रसुवृत्त्योः संप्रगृह्य घनमूल्यधनेन ॥ २॥ श्रीजिनलब्धियतीश्वरगुरवे प्रादायि वाचनाविधये । यावजिनमतमेतन्नंदतु मुनिवाच्यमानमिह ॥ ३ ॥ युग्मम् ॥
[१०२] 10 ओकेशवंशीय-श्रा० वर्जू-लेखित-चन्द्रप्रज्ञप्तिसूत्रवृत्ति-पुस्तकप्रशस्तिः ।
[लेखनसमय सं० १४४५ विक्रमाब्द ] ओकेशवंशे विशदे सौवर्णिकपुंगवोऽस्ति जयसिंहः। सुश्रावकगुणयुक्तश्चत्वारश्चाभवन् पुत्राः ॥ १ ॥ पुन्यौ पूनी वर्जू द्वितीयका साधुवइजपुत्रेण । लींबाकेन व्यूढा सद्भक्तिकृतादरा सुगुणा ॥ २ ॥
[श्रीदेवसुंदरगुरु ] सूरीणामुपदेशतः । सा वर्जूश्राविका पुण्यप्रभूतोद्भववासना ॥ ३ ॥ 15 श्रीस्तंभतीर्थे नगरे चंद्रप्रज्ञप्तिवृत्तिवरशास्त्रं । शर-वार्द्धि-श वर्षे (१४४५) शिवाप्तये लेखयामास ॥ ४ ॥
[१०३] पल्लीपालवंशीय-ठकुरधंधसन्तानीय-लेखित-सार्द्धशतकवृत्ति-पुस्तकप्रशस्तिः ।
[प्रशस्तेरपूर्णत्वात् लेखनमिति!पलब्धा] नम्रनाकिसुरशत्रुनरेन्द्रः स्थैर्यनिर्जितसुमेरुनगेन्द्रः । विश्वविश्वनयनो गततन्द्रो विष्टपे जयति वीरजिनेन्द्रः ॥ १॥ 20 भूभामिनीहारललाटपट्टललामकल्पं नगरं समस्ति । ख्यातं जने वीरपुराभिधानं धनाढ्यलोकाभिनिवासरम्यम् ।।२॥ पुण्यागण्यगुणान्वितोऽतिविततस्तुंगः सदा मंजुलच्छायाश्लेषयुतः सुवर्णकलितः शाखाप्रशाखाकुलः । पल्लीपाल इति प्रभूतमहिमा ख्यातः क्षितौ विद्यते वंशो वंश इवोच्चकैः क्षितिभृतो मूनोंपरिष्टात् स्थितः ॥ ३ ॥
तस्मिन्नभूत् ठक्करधंधनामा श्राद्धः सुधीः सर्वजनाभिमान्यः ।।
तस्याभवद् रासलदेविकाह्वा जनी च दाक्षिण्यदयानिवासा ॥ ४ ॥ x x x [अग्रे अपूर्णा ] x x x
25
* पुस्तकमिदं स्तम्भतीर्थे शान्तिनाथमन्दिरस्थितभांडागारे विद्यते । + पुस्तकमिदं पत्तने संघवीपाडावस्थितज्ञानभाण्डागारे विद्यते। अन्तिमपत्रस्य विनष्टवात् त्रुटितेयमत्र प्रशस्तिः। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org