________________
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
[९९] नागरवंशीय-श्रे० धांधा-लेखित-पर्युषणाकल्प-पुस्तिकाप्रशस्तिः ।
__[लेखनसमय अनुल्लिखित] वंशे नागरसंज्ञे वाहडनामा बभूव सुश्रेष्ठी । सद्धर्मकर्मनिरतो विरतोऽपरदूषणग्रहणात् ॥१॥ आनंदो नंदनस्तस्य सद्धार्मिकशिरोमणिः । येन पिल्लाहिकामामे जैनमंदिरमुद्धृतं ॥ २॥ पत्नी ह्यनुपमा तस्य संजज्ञे गुणधारिणी । सद्धर्मवासितखांता कांता खजनसंततौ ॥ ३ ॥ तयोः पुत्रत्रयं जज्ञे जिनधर्मपरायणं । आयो धांधा द्वितीयस्तु सुश्रेष्ठी रत्नसंज्ञकः ॥ ४ ॥ तृतीयश्च जगत्सिहो न्यायवान् गुरुपूजकः । तत्र पूर्वसुतस्तस्य श्रेयोऽथ शुद्धभावतः ॥५॥ सार्वज्ञशुद्धसिद्धांतलेखनोद्यतबद्धधीः । श्रीपर्युषणाकल्पस्य लेखयामास पुस्तिकां ॥ ६ ॥ [१०.]
10 वणिक्-श्रीधरसुत आनन्द-लेखित-दशवैकालिकसूत्रवृत्ति-पुस्तकप्रशस्तिः।
[लेखनसमयांका विनष्टप्रायाः, वर्णनानुसारतः १३ शताब्दी परिज्ञायते] संवत् ............. दोषारुचि चंद्रकुलं प्रजनितबहुलक्षपापहरणत्वे । यच्चरिते सद्भासां तजयति महातपो हितं सकलं ॥
तस्मिन् बभूव भुवनत्रयगीतकीर्तिः श्रीमान् कृती सुकृतवान् मुनिचंद्रसूरिः । यस्याद्भुतैकचरितांबुनिधेर्गुणानां सद्ध्यानजातपरिमा गुरुणापि कर्तुः ॥ सूरिश्रीमानदेवाभिधान[त]स्तच्छिष्योऽभूद् भूषणं भूरमण्याः ।
बद्धस्पर्द्धा यद्गुणाः कीर्तिवध्वा सो ईगूर्वी (1) खकौतुकेन ॥ . शिष्यस्तस्याजनि बहुमतः श्रीयशोदेवसूरियस्यात्यर्था गुरुगुणगणाः प्रत्यहं वृद्धिभाजः ।
ब्रह्माण्डान्तर्निजनिवसनस्थानसम्बाधभीत्या शंके प्रेमुस्त्रिभुवनमदो वीक्षितुं सर्वदैव ॥ नागपालसुतः श्रीमान् श्रीधराख्योऽभवद् वणिक् । जगदानन्दनस्तस्याभूदानन्दाभिधः सुतः ॥ १ ॥ स इदं लेखयामास दशवकालिकाभिधं । पुस्तकं सूरये तस्मै श्रीमते शुद्धमानसः ॥ २ ॥
[१०१] कांकरिकागोत्रीय-सामोहणकीत-उत्तराध्ययनसूत्र-पुस्तकप्रशस्तिः ।
संवत् १४०१ वर्षे माघमासे शुक्लत्रयोदशीदिने सा० धींधासुत सा० मोहणसुश्रावकेण खमातु-25 धांधलदेविसुश्राविकापुण्यार्थ श्रीउत्तराध्ययनसूत्रवृत्तिपुस्तकं मूल्येन गृहीत्वा श्रीखरतरगच्छे श्रीजिनपद्मसूरिपट्टालंकारश्रीजिनलब्धिसूरिसुगुरुभ्यः प्रादायि । प्रतिदिनं च वाच्यमानं मुनिभिश्चिरं नंदतात् ॥ * एतत्प्रशस्तियुक्ता पुस्तिका अहमदाबादे ऊजमबाईधर्मशालासंज्ञकस्थानस्थितभांडागारे विद्यते । + पुस्तकमिदं जेसलमेरुमहादुर्गस्थवृहद्भाण्डागारे विद्यते । द्रष्टव्यम्-जे. सू० पृ० १६ । पुस्तकमिदं पुण्यपत्तने राजकीयग्रन्थसंग्रहे विद्यते। द्र. कीलहोर्न, रीपोर्ट पुस्तक, पृ०५।
15
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org