SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ९२ 5 10 11 तस्मादेवं माहणः पद्मसिंहः सामंताख्यो माणिकिस्तु खसैका ॥ ३॥ अयं हि पुस्तकः स्वस्तिहेतावस्तु निरंतरं । सूरिभिर्वाच्यमानस्तु श्रीमदादिजिनेशितुः ॥ यतः कल्पद्रुमनिभश्चिन्तितार्थप्रदायकः । स एव भविनामस्तु सर्वदा सर्वसिद्धिदः ॥ ५ ॥ त्रिंशत् त्रयोदशे वर्षे विक्रमाद् भक्तितस्तया । श्रीजयसिंहसूरीणां पुस्तकोऽयं समर्पितः खःशैलखर्णदण्डोपरि खचित (?) ककुभशालभंजीसशोभं तारामुक्तावचूलं जलनिधिविलसज्झल्लरीसुन्दरान्तं । 15 यावद् व्योमातपत्रं तपनतपमथो बद्धगंगादुकूलं तावद् व्याख्यायमानो जगति विजयतां सूरिभिः पुस्तकोऽयं ॥ ७ ॥ ॥ शुभमस्तु सर्वजगतः परहित ६ ॥ ॥ 20 25 30 जैनपुस्तकप्रशस्तिसङ्ग्रह । [ ९७] | लेखनसमय १३३० विक्रमाब्द | वर्षे त्रयोदशात् त्रिंशे मार्गे श्वेतेऽह्नि पंचमे । वृषभस्य कृतं ( ? ) वृत्तं श्रीजयसिंह सूरिभिः ॥ धत्ते कुन्तलसन्ततिर्जिनपतेर्यस्मात्सदंशस्थितिः, वक्त्रांभोरुहसौरभा कुलमिलद्भृंगावलीविभ्रमम् । स श्रेयः श्रियमातनोतु जगतीनेता विनीतावनीपावित्र्य प्रथमावतारचतुरः श्रीनाभिसूनुर्जिनः ॥ १ ॥ श्रीमालान्वयसंभवः शुभमतिः श्रेष्ठी पुरा जेसलः, तत्पुत्रो विजयाभिधो गुणनिधिः सिंहावतारः पुरः । तत्पत्न्यस्ति त्रपलाऽऽसपसुता तत्कुक्षिसंभूतया लक्ष्म्याऽलेखि युगादिदेवचरितं श्रेयोऽर्थमत्रात्मनः ॥ २ ॥ जज्ञे यस्या आंबडो बन्धुराद्यः सोभाकाहः सालिगो भीमसिंहः । [९] ऊकेशवंशीय श्रा० लंबिका लेखित शब्दानुशासन-पुस्तकप्रशस्तिः । 1 Jain Education International [ लेखनसमय सं० १४७० विक्रमाब्द ] विघ्नावलीविफलवल्लिलवित्रगोत्रः पार्श्वः स वः शिवकृते पदपूतगोत्रः । श्रीअश्वसेननरराजगरिष्ठगोत्रचूडामणिर्गुणगजव्रजविन्ध्यगोत्रः ॥ १ ॥ केशवंशतिलको जनकोऽजयच्छिति (?) विश्रुतो जगति । व्यवहारिदेदाख्यः सोऽभूद् भूपालनिभविभवः ॥ २ ॥ तस्यापरा सुजाया शीलालंकार भूषितशरीरा । कल्हणदेवीनाम्ना धाम्ना भूम्ना च विश्रुता जगति ॥ ३ ॥ श्रीमद्विजे सीपितृ (?) नाम लंबिका पुत्र्या पवित्राशयया सविस्तरं । श्रीक[रा]वासिविशालवंशया तयेदमालेखितमात्मभूतये ॥ ४ ॥ श्रीजैनशासननभोऽङ्गणभास्कराणां श्रीमत्त पोगणमहाब्धिनिशाकराणां । श्रीसोमसुन्दरगुरुप्रथिताभिधानां धर्मोपदेशश्रवणाज्जगदुत्तमानां ॥ ५ ॥ ॥ संवत् १४७० आषा[ढ] व० १३ ॥ एतत्प्रशस्तियुक्तं पुस्तकं जेसलमेरुनगरस्थतपागच्छीयभाण्डागारे विद्यते । जे० सू० पृ० ५१ ↑ पुस्तकमिदं जर्मनराष्ट्रे बर्लिनमहानगरे राजकीयप्रन्थागारे विद्यतेऽधुना । द्र० वेबर, केटेलॉगपुस्तक, भाग १, नं० १६८१. For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy