SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह । [१०४] दीशापालवंशीय श्रे०आम्रदत्तसन्तानीय-लेखित [ हेमचंद्रकृत ] महावीर चरित-पुस्तकप्रशस्तिः । [ लेखनकाल १२९४ विक्रमाब्द ] परमगरिमसारः प्रोल्लसत्पत्रपात्रं स्फुरितघनसुपर्वा श्रेष्ठमूलप्रतिष्ठः । लसितविशदवों वर्यशाखाभिरामः समभवदिह दीशापालवंशः प्रसिद्धः ॥ १॥ आम्रदत्तोऽभवत् तत्र मुक्तामणिरिवामलः । तच्चित्रमेव यदसावच्छिद्रः........"॥२॥ श्रीदेवीनामतः ख्याता शीलसत्यादिसद्गुणैः । प्रेमपात्रं प्रिया जज्ञे तस्येंदोरिव रोहिणी ॥ ३ ॥ ......॥४॥ [१०५] ____10 ऊकेशवंशीय-साधुदेदाक-लेखित-व्यवहारसूत्रचूर्णि-पुस्तकप्रशस्तिः । [लेखनसमयो नोल्लिखितः] ले० खीवडेन लिखितं पुस्तकं ॥ मंगलं महाश्रीः ।। ऊकेशवंशप्रभवः प्रसिद्धः वाछाकपुत्रो नरसिंहसाधुः । सोहीतनूजास्तनयास्तदीया सप्तैव कृप्तोज्ज्वलधर्मकृत्याः ॥ १ ॥ तत्राद्यः सांगण इति चीताकस्त्रिभुवश्च लाखाकः। रावण-देदाकावथ धानाक इति क्रमेणामी ॥२॥ व्यवहारचूर्णिमेनामलीलिखन्निजसुतस्य सोमस्य । देवश्रीतनुजस्य श्रेयो) साधुदेदाकः ॥ ३ ॥ जयति जिनशासनमिदं निर्वृतिपुरमार्गशासनं यावत् । मुनिभिरिह वाच्यमानस्तावदसौ पुस्तको नंद्यात् ॥ ४ ॥ [१०६] पल्लीवालवंशीय-साधुगणदेव-लेखित-त्रिषष्टिशलाकापुरुषचरित्र-पुस्तकप्रशस्तिः। , [लेखनकाल अनुल्लिखित ] पल्लीवालकुले पुनात्मजो बोहित्थसंज्ञितः । साधुस्तस्य सुतो जज्ञे गणदेवः सुधार्मिकः ॥ १ ॥ 25 खंडं तृतीयं संलेख्य विषष्टेः पुस्तके वरं । ददौ पौषधशालायां स्तंभतीर्थे पुरे मुदा ॥ २ ॥ यावन्नंदति जिनमतमिदमसमं सकलसत्त्वहितकारि । तावत् सुपुस्तकं वाच्यमानमेतद् बुधैर्जयतु ।। ३ ॥ * पुस्तकमिदं पत्तने संघवीपाडावस्थितभाण्डागारे विद्यते। अन्तिमपत्रस्य नष्टखात् अपूर्णेयं प्रशस्तिः । 1 एतत्प्रशस्तियुक्तं पुस्तकं स्तम्भतीर्थे शान्तिनाथमन्दिरगतभाण्डागारे विद्यते । द्रष्टव्यम्-पिटर्सनीपोर्ट, पुस्तक ३, पृ० १७१ । एतत्प्रेशस्तियुक्तं त्रिषष्टिशलाकापुरुषचरित्रगतान्तिममहावीरचरित्रात्मकं पुस्तकं पत्तने संघसत्कभांडागारे विद्यमानमस्ति । 15 2. 5 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy