________________
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
पार्श्वाभिधः साधुरभूत्तदङ्गजोऽजिह्मं पटुः सद्गुणधर्मकर्मणि । प्रभूतलक्ष्मीर्गुरुरामरागभूः समुद्रमध्यस्थपरोपकारकृत् ॥ ३ ॥
5
तत्पुत्रो मानदेवः समजनि धुरि यस्याख्यया प्रापि गोत्रं सर्व्वं प्राप्नोति सिद्धिं कुलधर - बहुदेवौ यशोवर्धनश्च । जज्ञुस्तस्यानुजास्ते जगति वरदृशां पूर्णचन्द्रप्रकाराः कीर्तिज्योत्स्नाच्छटाभिर्दिशि दिशि परमं ये प्रकाशं प्रचक्रुः ॥ ४ ॥ यशोवर्धनिरूपशील...सुवा भूखस्तरुनंदने खे पट्टे जिनचन्द्रसूरिहरिभिर्बाल्यान्मुदा रोपितः । साधुस्कन्धविशालपात्रसुमनः श्रेयः फलस्थापको लोके मर्त्यगणैर्न कैर्जिनपतिः सूरिः सदोपास्यते ॥ ५ ॥ मानदेवस्य साधोस्त्रयः स्मांगजाः सन्ति धनदेव साधुस्तदादिरपरः । राजदेवस्तदनु साधुनिंबाभिधः खकुलकुमुदाकरानंदपर्वेदवः ॥ ६ ॥
धनदेवस्य धनश्रीर्जिनपालादीनसूत सुतानष्टौ । जायाया गुर्जरीति परा वरायस्युताना तु ॥ ७ ॥ एषु स्मास्ति यशोधरो जिनपतेः सौवात् पितृव्याद्गुरोः साधुश्रेणिपतेः सुसाधुकमलाभागं समादाय यः । सद्धर्मे व्यवहारकोटिमकृतः शुद्धिहेतोस्तथा संलेभे नितरामयं मुनिजने साधूत्तमत्वं यथा ॥ ८ ॥ .........यः शरणश्च साधुरिदमीयः साहणश्चात्मभूवरीजानि जो गुरुरुचिः सोमः कलाभूरभूत् । यात्रास्तीर्थगणे विधाय निजसद्धर्म ... नु यत् प्रीत्या शीतलनाथदेवगृहिकां वीजापुरेऽचीकरत् ॥ ९ ॥ निम्बदेवस्य गेहिन्यावासातां प्रथमा तयोः । पद्मश्रीः सद्गुणावासा शीलहंस कृतादरा ॥ १० ॥
तद्भार्याऽन्याजसहिणिर्या नमस्कारकोटिकां । गुणयित्वोद्यापनकं चक्रे कोट्यक्षतादिभिः ॥ ११ ॥ पूर्वी जेहडसाधुमंगजवरं तेजःप्रतिमांसवः पद्मश्रीः श्रितहर्षमानसुमनोमार्गानिशावस्थितिं । एकामात्मभुवं च कंचनभिधां नक्षत्रमाला श्रियं नित्यै कक्रमचारिणीं कुलनभोलंकारशीलेन्दुगां ॥ १२ ॥ साधू लालण- खीम्बडौ स्म भवतः श्रेयः कलासंगतौ सोम्यौ चामृतवर्षिणौ कुलगुरूपास्ती परस्याः सुतौ । वाल्हीत्यस्ति सुता कृताऽनणुतपा साध्वी सुकेशी च या नित्यैकांतरभुक्तिकांतरमहो पक्षोपवासादिकृत् ॥ १३ ॥ स्थानेऽस्ति साध्वी वरपुण्यभाजनं लक्ष्म्यंगभूः खीम्बडसाधुपुत्रिका । जिनेश्वरैः सूरिभिरर्पितत्रतश्रीका गुणै सुंदरी ॥ १४ ॥
25
आम्बश्री- प्रियसाधुलालणतनूजन्माऽसकौ विद्यते नाम्ना साधुकुमारपाल इति यः पित्रोः सुपुण्यश्रिये । श्रीपद्मप्रभनाथदेवगृहिकां वीजापुरेऽकार्यहो ! आँबी पुण्यतरंगिणीं त्रिपथगां कर्तुं वयं मन्महे ॥ १५ ॥ जिनप्रबोधसूरीणां पार्श्वे चाप्राहयद् व्रतं । खं सुपुत्रं स्थिरकीर्तिं सत्पुत्रं (त्रीं ? ) केवलप्रभां ॥ १६ ॥ युग्मम् । जेहडाधोर्धत बहुमाये शीलतपोजलगतमलकाये । षडुपधानमालास्ति शुभाये (?) लक्ष्मी - श्रीजाये ॥ १७॥ मोहिणिराद्यायास्तनया प्रत्यतिष्ठिपद् या निजगुरुभिः । सपरिकरौ जिनपार्श्वे सुतपःशीलाभरणरम्या ॥ १८ ॥ येन श्रीरात्मभूरत्नचतुष्कं कांतिबंधुरं । संपूरितवती लक्ष्म्या मांगल्यं खगृहागमे ॥ १९ ॥ तत्राभूद् धुरि नागपाल उरुधीः योऽचीकरत् सार्धं लालणसाधुना खजननीपुण्याय वीरप्रभोः । चैत्ये द्वादशदेवदेवगृहिकां सौवर्णकुंभध्वजां श्रीजावालिपुरे तथा द्विरकरोत्तीर्थेषु यात्रां मुदा ॥ २० ॥ वीजापुरे वासुपूज्यविधिचैत्ये शशिप्रभे । श्रीदेवगृहिकां यश्च खपुण्याय व्यधापयत् ॥ २१ ॥ जिनेश्वरगुरोः पार्श्वे महर्द्धा यो व्रतं ललौ । प्राज्ञः सुतापशक्ति (?) विद्याचन्द्रमुनिः परं ॥ २२ ॥ तीतीर्षुकः स नुरमतिर्बालचन्द्रोऽथ चक्रे । यः श्रीशत्रुंजयमुखमहातीर्थे समकार्षीत् ॥ २३ ॥ अजित-संभवयोरभिनंदन - सुमतितीर्थकृतो जिनगेहिकाः । विनिरमापयदत्र च यश्चतुर्विधसुधर्मरमानिलयानिव ॥ २४ ॥
१२ जे० पु०
Jain Education International
....
८९
For Private & Personal Use Only
10
15
20
30
www.jainelibrary.org