________________
जैनपुस्तकप्रशस्तिसङ्ग्रह । यश्चैत्येऽत्र च दंडनालममलोधद्भूतपट्टोटं सन्मुक्तानिपुणं सहंसकनकश्रीकुंभवत् काश्रितं ।
तच्छत्रं वरपद्ममात्रदयितापुण्याय चाधापयल्लोलंती चमरेव येषु सुमनोहंसाविवास्याग्रतः ॥ २५॥ यात्रा रैवतकादिषु प्रकृतवांस्तीर्थेषु संघान्वितश्चैत्यार्चादिककार्यचिंतनमुनिसद्भक्तिवृत्तामलः । श्रेयःश्रीवरकीर्तिकांतिललितैः सत्यां स्वकीयाभिधां तन्वानः कुलचन्द्रसाधुऋजुधीस्तुर्यः समास्तेऽसकौ ॥ २६ ॥ 5 आदेशाच जिनेश्वरस्य सुगुरोः श्रीवासुपूज्यप्रभुप्रासादे वृषभादिदेवगृहिकाप्रारंभमारंभयन् । यस्तामादिजिनस्य देवगृहिकामाधापयद् वैक्रमे वर्षेऽष्टद्विशिखीन्दुमानविदिते माघे नवम्यां सिते ॥ २७ ॥
एषां सहोदरा भनी कुमारीत्यस्ति या व्यप्रधात् । श्रेयोमालां द्विधा लातुं तपः षडुपधानकम् ॥ २८॥
पद्मला नागपालस्य नागश्रीश्च प्रिये प्रिये । ......शीलतपसोः पालने नित्यव्यापते ॥ २९ ॥ खां श्वश्रू न्वनुकर्तुमत्र चतुरः पुत्रानसूतादिमा साधुर्मोहण आद्य एषु जनुषा श्रेयोगुणैश्चावरः । 10 पाताख्यः शुभमूर्तिकोऽथ लखमोऽन्यो देवसिंहो लघुर्ये...... खपराभवे कुलगतं गच्छंति तेजो निज(8) ॥३०॥ पद्मलाम्बाकृते साधुर्मोहणः सुविधीशितुः । कारयन् देवगृहिकामन्यूनकं यशो व्यधात् ॥ ३१॥ पाताख्यः श्रीसुपार्श्वस्य खाख्यया देवगेहिका । कारयामास यत्सूनुः पद्मः पाल्हणदेवीभूः ॥ ३२ ॥
नागश्रिया आत्मभुवौ सुपद्मौ ......... रम्यगुणाभिरामौ ।
श्रीमूलदेवो धणसिंह एतौ सद्धर्मबुद्धिस्तनया च नाही ॥ ३३ ॥ 15 श्रीवासुपूज्यपूज्यार्थे सघाटौ पीतलामयौ । प्रदीपप्रवरौ प्रादात् नागश्रीः सुकृताप्तये ॥ ३४ ॥
जंबूमुनिप्रमुखपूर्वयुगप्रधान-श्रीपार्श्वनाथजिनचारुचरित्ररम्या ।
ज्ञानप्रपा प्रविदधे किल पुस्तिकैषा नागश्रिया शुभधिया तु निजौरसाभ्यां ॥ ३५ ॥ सा बालचन्द्रदयिता घेलाभिधास्ति शीलतूलीया । अकृत षड्डुपधानांकं श्रेयस्तल्पे सुखं ललितुं ॥ ३६ ॥ एतस्यास्तनयौ साधू नेत्रवत्सरलाकृती । सुव्यापारौ सदा लोके स्तरेतौ हेम-जैत्रलौ ॥ ३७ ॥
राल्हणसाधुसुतावरवइजी-श्रेष्ठित्रिभुवनसिंहसुपुत्री।।
साधोः कुलचन्द्रस्यास्ते जाया खेतू.......... धर्मशुभाशा ॥ ३८ ॥ साक्षादात्मनि वीक्ष्य सुकुलजनुरुपेत्यादर (?) दिव्यालङ्कृतिवस्त्रगन्धकुसुमाभोगं फलं श्रेयशः ।
तत्सर्वेश्वरदानशीलसुतपोभावेषु दानाद्यतः श्रेयः प्रीणयितुं विशेषत इयं योत्तिष्ठमाना ध्रुवं ॥ ३९ ॥ प्रासादे जिनवासुपूज्यसुविभोर्विद्युत्पुरेऽचीकरच्छीवीरप्रतिमांकखत्तकवरं मातॄश्चतुर्विशतेः। 25 तीर्थेशां च करात् जिनेश्वरगुरोस्तासां प्रतिष्ठामधाच्चैत्रैकादशीकादिने रस-कर-त्र्येकमिते वत्सरे ॥ ४० ॥ युग्मम् ।
श्रीशचुंजयमुख्यतीर्थनिवहे यात्रामकार्षीच या चैत्यानां निरमीमपञ्च कुसुमैर्लक्षेण पूजाधनः।
श्रीश्रेयांस-जयाजदेवगृहिके श्रेयोनिधिप्राप्तयेऽभिज्ञाने धनसिंहनामकलघुभ्रातुस्तथा खस्य च ॥ ११ ॥ • ज्ञानार्चा कुलसाधुरिमका सत्पुस्तिकादीपिका पृथ्वीचन्द्रचरित्ररत्नघटितां खेतूप्रियायाः कृते ।
क्रीत्वा धाप्यव सौवसद्गुरुजनेभ्योऽदादियं येन तैस्ताभ्यां दर्शितमार्गतः ......श्रीभव्यसाथैः समः ॥ ४२ ॥ 30. श्रीतीर्थेशजयाभुवोऽभयकुमारर्षेश्चरित्रोत्तमे ........ त्रितये व्यलीलिखदियं खेतूः सुवर्णैध्रुवं ।
ज्ञानश्रीनिधिबीजकं .........ध्वसात्प्राकरोत्पधेनास्य बलात् क्षणादपि लभे श्रेयोवरं खश्रियः ॥ ४३ ॥ श्रीवासुपूज्यचैत्ये श्रीपार्श्वसुखत्तकं कवल्यंतः । व्यधापयत् कुलचंद्रः श्रेयोऽथ महणदेवि-पद्मलयोः ॥ १४ ॥
आस्तेऽन्या कुलचंद्रस्य प्रिया कांवलदेविका । भावेन याऽऽत्मधर्म च वर्धयत्यात्मबालकं ॥ १५ ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org