________________
जैनपुस्तकप्रशस्तिसङ्ग्रह । चत्वारो मानदेवः कुलधर-बहुदेवी यशोवर्द्धनोऽस्य
श्रीभर्तुर्बाहुभूता अजनिषत सुता धर्मकर्मप्रवीणाः । सत्पुत्रा मानदेवाद् य इह धनदेवस्तथा राजदेवो
निंबार्कश्चाविरासन् हिमगिरित इव खर्गसिंधुप्रवाहाः ॥ ३ ॥ 5 देवधर-लोहदेवी जातौ कुलधरांगजौ । यकाभ्यां कुंडलाभाभ्यां पुण्यश्रीः समभूष्यत ॥ ४॥ बिभेजे [मु.]निचंद्रमा जिनपतिः पुत्रो यशोवर्धन-क्षीराब्धेर्जिनचंद्रविष्णुपदमाक्रांतं नितांतं महत् । बालेनापि हि येन साधुषु बहुज्योतिष्षु राज्यं दधे, शेषानां शिरसि स्थितं पितृकुलं विश्वं च संप्रीणितं ॥ ५॥
संजज्ञे बहुदेवसाधुनृपतेः पद्माकरोऽस्यांगभूः, पद्माभो गुरुदेवपादकमलार्चाभिः कृतार्थ जनुः ।
कुर्वाणो जयदेवसाधुरमलो लक्ष्म्याख्यधुर्यप्रिया-व्याजेन ध्रुवमन्वहं तमभजल्लक्ष्मीः खयं देवता ॥ ६॥ 10
लक्षिका चापरा वल्लभा शोभते पंचपरमेष्ठिपदहेमपंचेष्टकैः । आरभत्यत्र यस्या रसज्ञा सदा लाहिनी चापि पुत्री रसज्ञा मुदा ॥ ७ ॥ लक्ष्म्यां वृषोव्या जयदेवसाधुरजीजनच्चाक्षतबोधबीजः ।
पुत्रप्रकांडौ वरदेव-धांधी शाखाकुलाधारकरौ सुसाधू ॥ ८॥ तत्राद्योऽजनि धार्मिको मतिमतां सीमा यतिप्रेक्षिणां, दीक्षादानगुरुर्मदोदयदवो लक्ष्म्याः प्रियो नंदनः । 15 श्रीजावालिपुरेऽत्र देवगृहिकां पार्श्वस्य वीरेशितु-श्चैत्ये यः समसूत्रयन्निजयशःश्रीकेलिशैलोपमां ॥९॥
देवा निपुणश्च पंचपरमेष्ठिध्यानदानक्षमा(?) हृन्नैर्मल्यपरोपकारमधुरालापादिकैः सद्गुणैः । यं लोकोत्तरमारचय्य नरराड् मान्यं व्यलोलुप्यत, श्रद्धा कार्तयुगेषु पुंसु विधिना धांधो द्वितीयस्त्वसौ ॥१०॥ आद्यासीद वरदेवसाध्वधिपतेः प्रल्हादनस्यांगजा, जाया चाहिनिका निकाममधुरालापा सुधायाः प्रपा ।
सैषाऽसूत सुतं......."विमलचंद्रं विश्वचंद्रोदयं, साऊ-रूयड नामिके च तनये श्रेयःश्रियःशेवधी ॥ ११ ॥ 20 हर्षाब्दो विमलो जिनेश्वरगुरोः पार्थे सुवर्धनैः, वर्षन्नृत्यति रनवृष्टि तनयां प्रव्राजयन्नुत्सवैः । श्रीप्रल्हादनपत्तने जिनपतिं शांति प्रतिष्ठापयन् , विष्ण्वादीन् पुरुषोत्तमान् किल दृशामद्यापि चक्रेऽतिथीन् ॥१२॥ श्राद्धाः सन्ति महर्द्धिका निजगुरोभक्तानुभक्ता घनाः, स्तोकोक्तिप्रविधायिनोऽप्यथ सदा तत्पर्युपास्त्याहताः । खप्राणान्नधिरोपयन्निजगुरोः कार्ये तुलायां तु यो-ऽबैकोऽयं विमलेंदुरेव स इति प्रोत्क्षिप्य बाहू ब्रुवे ॥ १३ ॥
प्रिया द्वितीयाऽस्य राजूर्दानशीलतपोगुणाः । यदंगजाः प्रणदंति भावनाः स्वसुराशिषा ॥ १४ ॥ षट् पुत्रा गुणचंद्रको भुवनचंद्रो हेमचंद्रस्तथा । .......... .. ..[ ॥ १५॥] ................[ अग्रे अपूर्णेयं प्रशस्तिः । ]...........
[९५] ऊकेशवंशीय-श्रा० खेतू-लेखित-अभयकुमारचरित्रादि-पुस्तकपश्चकप्रशस्तिः ।
[लेखनसमयः १४ शताब्दीपूर्वभागः] श्रीचन्दनाशोकसुबन्धुजीवपुन्नागसन्तानकदम्बकश्रीः ।
माकंदकुन्दार्जुनजातिराम ऊकेशनामा बत भाति वंशः ॥ १ ॥ वीरदेववरभक्तिर्वीरदेव इहाभवत् । मुक्ताफल मिव श्राद्धः शुचिः साधुमनोहरः ॥२॥
25
* इयं प्रशस्तिरेकस्मिन् त्रुटितताडपत्रे लिखिता लब्धाऽस्माभिः । अशुद्धिबहुला भ्रष्टपाठापीयमितिहासदृष्ट्या विशेषोपयोगिनी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org