________________
७८
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा ३३४-३३५ तत्वादधराक्षरान् । तथा उत्तरव्यञ्जनाः-गूजू डू दूपि० १०७, पा०.१]यूलूसू एषां लब्धि । क्रमेणैव सइ गज ड द बाः, एषु वर्गेषु अधरानुवलितत्वादधरं लभन्ते । तथा भूणूनू मू क्रमस(शः) सप्तमवर्गा यथा क्रमेण चि(चे)त्यधरानुवलितत्वादधरा(र)मिति । ई(ऐ)कार उत्तरव्यञ्जनसहितः यथा- कै चैटै तै पैयै शै । लब्धिस्तु क्रमसः(शः) एषु वर्गेषु तु(त्रि)धा भवति । [t..................] तत्त्वादधराक्षरं । बु । अ क च ट त प। एवं गज डा दयोऽपि ऐकारयुक्ता वक्तव्याः । ङबणा दयश्चेति । तथा ऊ(औ)कारयुक्ता उत्तरव्यञ्जनाः । कौ चौ टौ सौ पौ यो सौ(शौ)। लब्धिस्तु सप्तमवर्गात् अधरानुवलितत्वादधरान् । स क च ट त पाः। एवं ग जडा दयो ङ अ णा दयोऽपीति । एवं ऊकार-ऐकार-औकारयुक्ताः अधरा अधरा[न] लभन्ते । खूछ्ठूथू फूरूषू । लब्धिस्तूच्यते अधरानुवलितत्वादधरानेव [प० २०७, पा० २] ष आ ख छ ठ थ फ। " तथा, घू झू द धूभू वू हू। लब्धिक्रमो वर्गेषु अधरानुवलितत्वाधराधरलब्धिः । जइ घ झ ढ धभ यथा ऊकारयुक्तास्तथा ऐकारौकारावपि वाच्याविति एवं अधराधरेषु लभते । इत्युक्तो गाथार्थ इति ॥ ३३३॥
लभइ ककारो जुत्तो, चकारवग्गंमि तइय-चरिमेण । ट[त]वग्गे जइ पण्हे, दसमसरो [प० २०८, पा० १] तइओं यादीए ॥ ३३४ ॥
ककारः प्रश्नाक्षराणामादिस्थिति(त) ईकारेण सानुस्वारेण युक्तः चवर्गादेकमक्षरं लभते । उत्तरमुत्तरानुवलितत्वाल्लभते। प्रश्नाक्षराणामौकारस्यादिस्थस्य यदापत आकारयुक्तो टकारो दृश्यते तदा आकारयुक्तटकार एव लभ्यते । उकारस्यादिस्थितस्य प्रश्नाक्षर(रेषु) यदाप्रतः [प० २०८, पा०२] टकार: इकारयुक्तो दृश्यते तदा टकार एव ईकारयुक्तो लभ्यते । प्रश्नाक्षराणामौकारस्य यदाप्रतः तकारः अकारयुक्तो दृश्यते तदा ताकारो लभ्यते । औकारादिस्थस्य यदाऽप्रतः तकार ईकार• युक्तो दृश्यते तदा तीकारो लभ्यते । प्रश्नाक्षराणामादिस्थस्य इकारस्य यथा(दाs)प्रतः तकार
आकारयुक्तो दृश्यते तदा तकार आत्मानं लभते । प्रश्नाक्षराणामादिस्थस्य इकारस्य यदाऽप्रतः तकार इकारयुक्तो दृश्यते तदा तकारो लभ्यते । औकारस्याग्रतः याकारो यदा दृश्यते तदा [प० २०९, पा० १] याकारो लभ्यते । औकारस्याग्रतः ईकारो दृष्ट ईकार एव लभ्यते । इकारस्याग्रतः याकार आत्मानं लभते ॥ ३३४ ॥
बितिय-चउत्थेहि समं, सरेहि सो चेव लभइ त-पवग्गे ।
सत्तम-णवमेहि समं, सेसेहि समं अहरवग्गे ॥ ३३५ ॥
पूर्वार्दो अस्य(स्या) गाथ(था)या अनन्तराकान्तगाथया वर्णितः । प्रश्नाक्षराणामादिस्थस्य उकारस्याग्रतः तोकारं लभते । औकारस्य प्रश्नादिस्थस्य पकार एकारयुक्तः पेकारं लभते ।
औकारस्य प्रश्नादिस्थस्याग्रतः पाकार औकारयुक्तः पो(पौ)कारं लभते । इकारस्य प्रश्नादिस्थस्या30 [प० २०९, पा० २]प्रतः इकारः(तकारः) तकारं लभते । इकारस्य प्रश्नादिस्थस्याप्रतः टो(ट)कार: टोकारं लभते । ईकारस्य प्रश्नादिस्थस्याग्रतः स्थितः[तकारः?] तेकारं लभते । इंकारस्य प्रभादिस्थस्यामतः तकारः तोकारं लभते । ईकारस्य प्रश्नादेरणतः स्थितस्य [थकारः१] थेकारं लभते । इकारस्य प्रश्नादिस्थस्य ॥ ३३५ ॥
| अनादर्श कियान् पाठः पतितः प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org