________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा २८०-२८३ ] प्रश्नाक्षराणां मध्ये ये अक्षरा अनभिहताः स्वभावस्था उच्यन्ते तैः स्वभावस्थैरात्मीयवर्गाणाम(र्गनामा)क्षराणामुत्पत्तिज्ञेया । कथं ? उत्तरा(रः) सन् उत्तराक्षरं प्राप्नोति, अधराक्षरोऽपि अधराक्षरम् । [प० १६६, पा० २]अभिहतग्रहणेन आलिंगिताभिधूमितदग्धा मु(उ)च्यन्ते । तेष्वभिहतेषु अभिघातसंख्या शुद्धशुद्धशेषेषु यस्मिन् यस्मिन् वर्गे ते शुद्धशेषाः, तस्मिन् तस्मिन् वर्गाक्षराः प्राप्नुवन्ति । पूर्वापर्य चालिंगिताभिधूमितदग्धलक्षणमेव संख्याकरणं नाम ॥ २७९ ॥
अट्ठयवग्गस्स भवे, गुणयारो सेसयाण एकेकं ।।
परिहायंतं कमसो, [प० १६७, पा० १] चरिमो एकेकओ सरिसो ॥२८०॥
स्वराणामष्टभिर्गुणाकारः । ‘क ख ग घ ङा' सप्तभिर्गुणाकारः । 'च छ ज झा(झ) यां' षनिर्गुणाकारः । 'ट ठ ड ढा (ढ)णां' पंचभिर्गुणकारः । 'त थ द[ध] नां' चतुर्भिर्गुणकारः । " प फ ब भा(भ) मां' तृ(त्रि)भिर्गुणकारः । य र ल वां' द्वाभ्यां गुणकारः । श ष स हा'नां एकै (के नै)व गुणाकारः । प्रश्नाक्षरस्वरसंख्यापिंडमेकीकृत्य प्रश्ना[प० १६७, पा० २]क्षराणामादौ अक्षरो यस्तदुक्तवर्गसंख्यया ९ संगुण्याष्टाभिर्भागे कृते लब्धशेषा च कवर्गादिवर्गो शेयः । निदर्शनं यथा- तावत्प्रश्नाद्यक्षरः ककारवर्गप्रतिबद्धः । तत्प्रतिबद्धस्व (श्च) सप्तसंख्यागुणाकारः । तस्मात् प्रभाक्षरपिंडं सप्तभिर्गुणयेत् । [प० १६८, पा० १] यदा प्रश्नादौ स्वरो दृश्यते ततो(दो)क्तस्वराष्टगुणकारेण प्रश्नाक्षरसंख्यापिंडं गुणयेत् । यदा प्रश्नाक्षरो हकारः तदा तद्वर्गप्रतिबद्धैकसंख्यया प्रश्नाक्षरसंख्यापिंडं गुणयेत् । एवमन्येषामपि प्रभाक्षराणामुक्तगुणकारेण प्रभाक्षरसंख्यापिंडं गुणयित्वा [त]द्भागमाहरेत् । प्रसंगेनोक्तमनु(मु)[प० १६८, पा० २]मेवार्थमुपरि गाथया पुनर्वर्णयिष्यति ॥२८॥
पण्हख(क्ख)रा उ सबे, आइम-गुणकारसंगुणा काउं । " वग्गट्ठएण विभाए, सेसाण(णा)मक्खरुप(प्प)त्ती ॥ २८१ ॥
प्रश्नाक्षराणां निपतितानां यदादौ उक्तस्वराष्टगुणकारेण गुणयेत् । सर्व-प्रभाक्षरसंख्यापिंडं(डे) यदा आदौ स्वरा(रो) नास्ति तदा आद्यक्षरस्य संबंधी ओ(यो) वर्गः तस्य गुणकारः तेन गुणयेत् । अष्टभिः भागेऽपहृते ल(ब्धा)वसि(शि)ष्टा(ष्टः) च-वर्गो ज्ञेयः। ये वर्गा लब्धास्तेषामुत्तराधरक्रमेण अक्षरोत्पत्तिईया ॥ २८१ ॥ [प० १६९, पा० १]
पत्तेयं पत्तेयं, एवं पण्हक्खरेसु सन्वेसु । णियगुणकार(रे?) गुणिए, अट्ठविहि(ह)त्ते हवइ वग्गो ॥ २८२ ॥
प्रश्नाक्षरपिंडसंख्यामुक्तनिजगुणाकारगुणितं(ता) भाजयित्वा अष्टाभिर्यल्लब्धं तस्य शेषाञ्च पूर्वं तद्वर्गो शेयः । पूर्वगाथाया(यां?) नितरामेतद्[वि?]वृत्तं न पुनः विस्तरेणाख्यातम् ॥ २८२ ॥
चिंताए मुट्ठीए, णामे णक्खत्त सुमुणि(मिण)संखाए । .
अट्ठविभाए छेत्ते, काले लेहक्खरेसुं च ॥ २८३ ॥
चिंतायां मुष्टौ नाम्नि नक्षत्रे स्वप्ने चाद्यक्षरसंख्यया नामाक्षरसंख्या ज्ञेया। [प० १६९, पा० २] अष्टाभिर्भागे । 'अष्टविभागे क्षेत्रे' इत्येतदुच्यते-पूर्वाऽऽग्नेयी याम्या नैर्ऋती वारुणी वायव्या कौबेरी ऐशानी - इत्यष्टविभागं क्षेत्रम् । तत्पूर्वविहितप्रक्रमेणा(ग) कालप्रमाणं वक्तव्यम् । लेखाक्षराश्च प्रश्नाक्षरैः पूर्वाभिह(हि)तक्रमेणैव विज्ञेयाः ॥ २८३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org