________________
प्रश्नव्याकरणाख्यं
एवं तु सभावस्था, लहंति अह अणुवलाभिघाएणं । दिट्ठा पुवावरओ, लहंति तो णंतरं वग्गं ॥ २७४ ॥
[ गाथा २७४ -२७९]
एवं तु स्वभावत एव प्रस्तारेण लब्धिरुक्ता । प्रश्नाक्षराणामधरधातु (रानु ?) वलितत्वाच्चाक्षरं लक्षयेत् । उत्त[१० १६४, पा० १ ]रान (नु ) वलितत्वाच्च आलिंगिताभिधूमितदग्धाच्च तमेवाक्षरं यथोक्तं यथा लक्षयेत्। पूर्व्या(र्च्च ? ) क्रमेण पूर्वोक्ताभिघातसु (शु) द्धेन आलिंगितत्वादनन्तरं वर्ग लभते । । अभिधूमितत्वात् द्वितीयवर्गम्, दग्धत्वात् तृतीयं वर्गं यथा प्राप्नुवंति तथा पूर्वोक्तम् । स्वरवर्गाक्षरसंयोगवस्तु तृतीयम् ॥ २७४ ॥ इदानीं चतुर्थो भेदः - [प० १६४, पा० २ ]
परवग्गक्खरगरुया, अ(ज) त्तियमित्तेहि पण्ह आइल्ला ।
ते सधे पत्तेयं, पढमं पावंति संठाणं ॥ २७५ ॥
प्राक्षराणां मध्ये यावन्मात्राः परवर्गाक्षरगुरवो दृश्यन्ते तेषामुपरि अक्षरो यः स 10 प्रत्येकं प्राप्नोत्यात्मनो वर्गम् । उत्तरानुवलितत्वात् उत्तरं, अधरानुवलितत्वादधरमिति ॥ २७५ ॥ सेसा सकायगरुया, सबे वि लहंति अप्पणी वगं ।
साण विएस कमो, सव (ब)त्थ बलाबलविसेसो ॥ २७६ ॥
स्वकाय गुरुव (रवः) सर्वे [ १० १६५, पा० १] यथा प्राप्नुवन्त्यात्मनो वर्ग तथा उक्तमेव । शेषाणामेष क्रमः । शेषमहणेना लिंगिताभिधूमित दुग्ध (ग्धा ) भण्यन्ते । ते यथा स्व[व] प्रामु- 1s वन्ति तथा पूर्वमेवोक्तम् । सर्वत्र बलाबलविशेषो द्रष्टव्यः । इत्यभिहन्ता बलीयानी (नि)ति ॥२७६॥ ॥ चतुर्भेदं गजविलुलितं समाप्तम् ॥
पहाइमसंखाए, जाणिज्जा तंमि वग्ग एक्केकं ।
नामक्खरं तु लब्भइ, एवं से[ से] सुवि कमेणं ॥ २७७ ॥
प्रश्नादिमस्याक्षरस्य वाऽनवि ( भि) हतस्य या संख्या तया नामा १० १६५, पा० २ ]क्षरसंख्या 20 ज्ञेया । स एवानभिहतः स्ववर्गाक्षरं लभते । एवं येऽपि तत्राबलिष्ठा अभिहतास्तेऽपि स्ववर्गाक्षरं लभन्त एव ॥ २७७ ॥
I
जत्थऽट्टगाइरित्ता, हवंति तत्थऽद्वयं विसोहेत्ता ।
जं तत्थ हवाइ सेसं, तं मिंद्रा (?) णामक्खरवग्गे ॥ २७८ ॥
६३
प्रश्नाक्षराणां निपतितानां यदा एभ्यो अक्षरेभ्योऽभि (ति) रिक्ता [अ]क्षरा भवन्ति तदा तेषां या संख्या सौssद्याक्षराष्ट्रकमध्ये शोधयित्वा अष्टभिभा (र्भा) गमपहृत्य लब्धावसि (शि)ष्टाच 25 द्वौ वर्गों लभ्येते । [ ५० १६६, पा० १ ] कवर्गादिगणनया च तौ गण [ यि]तव्यौ । उत्तराक्षरबहुले प्रश्ने उत्तराक्षरो लभ्यते । अधराक्षराधिके प्रश्ने अधराक्षर इति ॥ २७८ ॥
एवं तु सभावत्थे, कीरइ णामक्खराण उत्पत्ती ।
अणुवलिहा (या) भिया वि य, पुवावरवग्ग एक्केकं ॥ २७९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org