________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा २६७-२७० ] आइल्लाणं दोण्हं, सबे वि सरा हवंति सरिपक्खा । [५० १५७, पा. १] पंचम-चउत्थ-णवमा, होइं(हों)ति इकारस्स सरपक्खा ॥ २६७ ॥
आद्यौ द्वौ स्वरौ 'अ आ' तयोः सर्वे स्वराः भवंति मित्राणि । पंचम उकारः, चतुर्थ ईकारः, नवम ओकारः । इत्येते त्रय इकारस्य मित्राणि ॥ २६७ ॥
अट्ठम-दसमा दोण्णि वि, एते सत्तमसरस्स सरिपक्खा । एकारस-बारसमा, छट्ठो हवंति उकारसरिपक्खो(क्खा) ॥ २६८ ॥
अष्टम ऐकारः, दशम औकारः । इत्येते द्वौ सप्तमस्वरस्य एकारस्य मित्राणि । एकादशमस्वर[ 'अ', द्वादशमस्वर] 'अ' षष्ठस्वर ओ(ऊ)कारः । एते त्रय(श्च) उकारस्य मित्राणि ।
ऐकारौकाराणं, दुविहा [५० १५७, पा० २] दिट्ठी उ होइ नायबा । __ जइ उत्तराणुवलिया, लहंति तो संकडा एदे ॥ २६९ ॥
ऐकारस्य औकारस्य च द्विविधा संज्ञा संकट(टा) विकटा चेति । प्रयोजनमुपरिष्टादक्ष्यति । 'अ इ एउ' इत्येते स्वराश्चत्वारः संकटसंज्ञाः । एतैरुप[रि]गतैः 'क च ट त प य शा'द्याः पंचवर्गाक्षराः संकटसंज्ञा भवंति । एतैरेव संकटस्वरै प० १५८, पा० १]र्युक्तानां अक्षराणां विद्यमानाभिघाते शोधिते सति योऽक्षर उत्पद्यति संकटविधिना लभ्यत इति संकटसंज्ञा ॥ २६९ ॥
अधरबलेण य वियडा, उत्तरअहरेण मिस्सया होति । अहरुत्तरेण वि(?)सेसं, लक्खेज बलाबलविसेसं ॥ २७० ॥
'आई औ' इत्येते त्रयो विकटसंज्ञाः । एतैर्युक्ताः क च ट त प य शा'याः पंच [प० १५८, पा० २]वर्ग:(र्गाः?) संकटसंज्ञा भवन्ति । एतैरेव विकटस्वरैर्युक्तानां अक्षराणां विद्यमानाभिपाते 0 शोधिते सति योऽक्षरः प्रश्न आकारयुक्तः स आलिंगितत्वात्स्वरसंख्यया द्वितीयवर्ग प्राप्नोति । यथा ककार आकारेणालिंगितो द्वितीयवर्गं प्राप्नोति । (यथा ककार आकारेणालिंगितो द्वितीयवर्ग प्राप्नोतीति।) [प०१५९, पा० १] तस्मिनप्यधराक्षरो(रा)नुवलितत्वाधराक्षरम् । स एव ककार इकारेणाभिधूमितो टवर्गमिश्रांतस्वरसंख्यया पवर्ग प्राप्नोति । तस्मिन्नप्यधरानुवलितत्वादधराक्षरम् ।
स एव ककार उकारयुक्तेन दह्यते । दग्धः स वर्गे मिश्रांतवरसंख्यया तवर्ग प्राप्नोति । तवर्ग 25 उत्तरानुवलितत्वादुत्तराक्षरम् । एभिः स्वरैस्तृ(खि)भिरन्येऽप्य[प० १५९, पा० २]क्षराः पूर्वोक्तन्यायेन
द्रष्टव्याः। 'ऊ ऐ औ' इत्येते त्रयः संकट-विकटसंज्ञाः । एतैर्युक्ताः पूर्ववर्गी[याः] पंच संकटविकटसंज्ञा भवन्ति । एतैः संकटविकटैयु(यु)क्तानां अक्षराणां अभिघाते शोधिते सति संकट-विकटप्रकारेण योऽन्योऽक्षरो लभ्यते स संकट-विकटसंज्ञः। आलिंगिताभिधूमितदग्ध-लक्षणवर्गप्राप्तिश्च पूर्वाभिह(हि?)ता । लक्षयेत् बलाबलविशेषमिति । येऽक्षरा आलिंग्यन्तेऽभिधूम्यन्ते दह्यन्ते वा " तेषामा ५० १६०, पा० १]भिघातशुद्धानां या(यः) संख्याधिको भवति स बलीयान् तेनादेशः कार्यः ॥ २७०॥
+ लेखकप्रमादात् आदर्श द्विरुक्तः पाठोऽयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org