________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा २८-३१] पढमो तइओ य सरो, सत्तम णवमो य संकडा हस्सा । वियडा अंतरदी[प० २०, पा० २ हा वि चउत्थो पंचमो चेव ॥२८॥
अकार-इकार-एकार-ओकारः, चत्वारोऽमी संकटसंज्ञाश्च ह्रस्वाश्च । प्रश्नाक्षराणां मध्ये यदा संकटखरबाहुल्यं भवति तदा प्रष्टा यस्यार्थे मोक्षं पृच्छति आत्मनो(नः) परस्य वा बद्धस्य तदा : मोक्षो [न?] भव[ती]त्यादेस्यं(श्यम् ।) नष्टमपि न लभते । दुर्गभङ्गादिकं न प्राप्नोतीत्यादेस्य(श्यम्) ।
एतद् व्यतिरिक्तमन्यद् यदा [प० २१, पा० १] पृच्छति तदे(दै)षां संकटसंज्ञानां स्वराणां बाहुल्ये सर्वमेव लभ्यत इत्यादेश्यम् । विकटा अन्तरदीर्घाः।के इत्यत्रोच्यते - द्वितीय आकारः, चतुर्थ ईकारः, पंचम उकारः, त्रयो विकटसंज्ञा अन्तरदीर्घाश्च । प्रश्नाक्षराणां मध्ये यदा विकटसंज्ञानां स्वराणां बाहुल्यं भवति तदा प्रष्टा यस्य कस्यचित् परस्यात्मनो वा बद्धस्य मोक्षं [प० २१, पा० २] पृच्छति ॥ तदा मोक्षो भवतीत्यादेश्यम् । नष्टमपि लभते। दुर्गादिभंगश्च सिध्यति, इत्यादेश्यम् । एतद् व्यतिरिक्तं यदन्यनु(तु) लाभादिकं पृच्छति तन्न भवतीत्यादेश्यम् ॥ २८॥
संकडा(ड)विअडा सेसा, सहा[व]दीहा य तिण्णि णि[य मेणं ।
छट्ठट्ठमा य वेण्णि विसमस्सरो चेय णायबो ॥ २९ ॥
संकट-विकटाः शेषाः स्वभावदीर्घाश्च । षष्ठ ऊकारः, ऐकारोऽष्टमः, औकारो दशमः, • इत्येते त्रयः । शेषग्रहणाद् बिन्दु-विसर्जनीयौ । प्रश्नाक्षराणां मध्ये संकट-विकटसंज्ञानां बाहुल्यं
भवति तदा प्रष्टा यदात्मनो यदि वा परस्यार्थ बद्धस्य मोक्षं [प० २२, पा० १] पृच्छति तदा भेदेन मुच्यत इति वक्तव्यम् । नष्टमपि किंचिद्रव्यं भेदेनैव लभ्यते । दुर्गभंगोऽपि भेदेनैव भवतीत्यादेश्यम् । यदन्यदेतद् व्यतिरिक्तं शुभमशुभं वा पृच्छति तन्मध्यमं भवतीत्यादेश्यम् ।। २९ ।।
पढमा(म त)इया य वियडा, बीय चउत्था य संकडा वग्गा ।
सेसा क(सं)कड-वियडी(डा), अड ई दंडस्स भेदतियं ॥ ३० ॥
प्रथमाः- क च ट त प य सा(शा), [तृतीयाः] गज ड द ब ल सा' एतौ विकटसंज्ञौ । प्रागवत् फलम् । द्वितीय(या:)- ‘ख छ ठ थ फर षाः'; चतुर्थ(र्थाः)- ‘घ झ ढ ध भ व हा' एते संकटसंज्ञाः । पूर्ववत् फलम् । शेषग्रहणा[त् ] 'बण न मा' एते उभयस्वभावाः। दण्डं विप्रनष्टं द्रव्यमुच्यते ॥ ३० ॥ [प० २२, पा० २]
॥ एवं संकट-विकटप्रकरणं समाप्तम् ॥
वग्गे गणणादेसे, स(द)वेसु य उत्तराहरो होइ। वग्ग(ग्गु)त्तरा य नियमा, अ च त य वगंत(ग्गुत्त)रा चउरो ॥ ३१ ॥
उत्तराधरं चतुर्विधं-वर्गोत्तरं गणनोत्तरं आदेशोत्तरं द्रव्योत्तरं चेति । अस्य च संबन्धः आह-२२२२ 'वेवेक उत्तर अहरा य तेसिं जाणे वग्गक्खरसराणं' । तदर्थं प्राग् वर्गोत्तरमु" च्यते - [प० २३, पा० १] 'अ च त य एते चत्वारः वर्गाः। उत्तरा प्रधाना इत्यर्थः । ततश्वाल्पे(न्ये) 'कट पश' संज्ञाश्चत्वारः अधरा अप्रधानाश्चेति ॥ ३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org