________________
[गाथा २६-२७]
प्रश्नव्याकरणाख्यं स(श)कारः । ‘च छ ज झ' इत्येते चत्वारस्तालव्याः । ट ठ ड ढ' इत्येते [प० १७, पा० १] चत्वारः, द्वितीयस्वर आकारः, पञ्च एते मूर्द्धतालव्याः ॥ २५ ॥
त थ द ध सा पु(प)ण दंता, प फ ब भ धातुस्सरा वकारोद्धा(ट्ठा)। वग्गचरिमाणुणासी, मुद्धण्णा सेसया सवे ॥ २६ ॥
'त थ द ध सा' इत्येते पश्च दन्त्या[:] । 'प फ ब भ' इत्येते चत्वार(र.), धातुस्वरौ च । द्वौ पञ्चमषष्ठौ उ ऊ, 'व' कारश्व, सप्तैते औष्ठ्याः । वर्गचरिमग्रहणेन पञ्चमानुनासिका 'ङब ण न माः' गृह्यन्ते । [प० १७, पा० २]अथवा वर्गग्रहणेनानुनासिकाः, स्वराणां च मध्ये चरिमों ऽनुनासि[को] बिन्दुः, 'अ' इत्येते च षडनुनासिकाः । शेषाः-खराः के ते ? 'ईऐ औ' त्रयः । शेषास्त्र(श्वा)क्षराः 'रल षा' इत्येते त्रयः । एकत्र षड् मूर्धन्याः । सि(शिक्षाप्रकरणं समाप्तम् ॥ २६ ॥
अत्रावसरप्राप्ता अक्षरलब्धिः , [ता] नामप्रकरणेऽभिधास्यति । इह ति(तु) प्राप्तिमात्रमुच्यते । तदर्थं गा[५० १८, पा० १]थामाह
ठाणं ठाणं एकेकयं तु आलिंगिधा(या)इ हायति ।
उरसादी ठाणाणं, तालचे उवरिमो ठाइ ॥ २७ ॥
स्थानं स्थानमेकैकमालिंगिताभिधूमितदग्धास्त्यजन्ति । उरस्या निहतास्तालव्ये[न] इत्येवं ।। क्रम अभिहत इति । अभिहतग्रहणेनालिंगिताभिधूमितदग्धा उच्यते । उत्तरस्यो(उरस्यो)ऽनभिहतो असंयुक्त उरस्य एव लभते [५० १८, पा० २] अक्षरम् । उरस्य आलिंगितकण्ठस्थानं लभते । उरसोऽभिधूमितो जिह्वामूलीयं लभते । उरस्यो दग्धस्तालव्यं लभते । कण्ठ्योऽनभिहतासंयुक्तः कण्ठ्य एव लभते । कण्ठ्य आलिंग्य(गि)तो जिह्वामूलीयं लभते । कण्ठ्योऽभिधूमितस्तालव्यं लभते। कण्ठ्यो दग्धो मूर्द्धतालव्यं लभते । जिह्वामूलीयोऽनभिहतासंयुक्तो जिह्वामूलीयं लभते । स . एवालिंगितसालव्यं [प० १९, पा० १] लभते । स एवाभिधूमित ऊर्द्धतालव्यं लभते । स एवा(व?)दुग्धो दन्त्यं लभते । तालव्यो अनभिहतासंयुक्तस्तालव्यं लभते । स एव दग्धो दन्त्यं लभते । तालव्यो(व्य) आलिंगितः ऊर्द्धतालव्यं लभते । स एवाभिधूमितो दन्त्यं लभते । स एव इन्धो(ग्ध) उ(औ)ष्ठ्यं लभते । मूर्द्धतालव्योऽनभिहतासंयुक्तः स्वस्थानं लभते । स एवालिंगितो दन्यं लभते । स एवाभि[धूमि]त उ(औ)ष्ठ्यं लभते । स एवा(वी)दग्धो अनुनासिकं लभते । 1 इन्यो अनभिहतासंयुक्त(क्तः)स्वस्थानं लभते । स एवालि[प०१९, पा० २]गित औष्ठ्यं लभते । स एवाभिधूमितो अनुनासिकं लभते । स एव दग्धो मूर्धन्यं लभते । औष्ठ्यो अ(s)नभि हतासंयुक्तः स्वस्थानं लभते । स एवालिंगितोऽनुनासिकं लभते । औष्ठ्योऽभिधूमितो मूर्धन्यं लभते। दग्ध उरस्यं लभते । अनुनासिको अनभिहतासंयुक्तः स्वस्थानं लभते । आलिंगितो मूर्द्धन्यं लभते । [१० २०, पा० १] अभिधूमित उरस्यं लभते । दग्धः कण्ठ्यं लभते । मूर्द्धन्यो . अनभिहतासंयुक्तः स्वस्थानं लभते । आलिंगित उरस्यं लभते । अभिधूमितः कण्ठ्यं लभते । स एव दग्धो जिह्वामूलीयं लभते ॥ २७ ॥
॥ एवं स(सा)माप्ति(सि)कं शिक्षाप्रकरणं समाप्तम् ॥
सामा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org