________________
[गाथा १९-२०]
प्रश्नव्याकरणाख्यं सविसग्ग-बिंदुसहिया, जीवाइ णिदि[दि]संति सट्ठाणं ।।
अहमत्तलक्खणं पुण, सबेसि सकायगुरुयाणं ॥ १९ ॥ __सविसर्ग-बिन्दुसहिता[:]-विसर्गो द्वादसः(शः) स्वरः, बिन्दुरेकादसः(शः)। [१०१०,पा०२] एतौ द्वौ जीवाक्षरसहितौ जीवयोनि कुरुतः । यदा च द्वावेतौ स्वरौ मूलाक्षरसहितौ दृश्येते, तदा मूलयोनि कुर(रु)तः । धात्वक्षरसहितौ धातुयोनि कुर(रु)तः। अधोमात्रलक्षणग्रहणेन । पंच भण्यन्ते । तद्यथा-स्वकायगुरु[:], स्ववर्गसंयोगः, परवर्गसंयोगः, अर्दाक्रान्तं, यक्षरसंयो. गश्चेति। तत्र तावत् खकायगुरोर्लक्षणमुच्यते-द्वौ ककारौ संयुक्तौ, द्वौ गकारौ, द्वौ डकारौ, एवं सर्ववर्गेषु व्याख्या। स्वकायगुरवो जीवयोनौ लब्धायां प्रष्टुः स्वकायचिन्तां कथयन्ति । धातुयोनौ लब्धायां [५० ११, पा० १] आत्मार्थे धातुचिन्तां कथयन्ति । मूलयोनौ लब्धायां आत्मार्थे मूलचिन्तां कथयन्ति । स्ववर्गसंयोगस्य लक्षणमुच्यते-खकारस्योपरिगतः ककारः, धकारसोपरिगतो गकारः, एवं वर्गे द्वौ द्वौ स्ववर्गसंयोगौ भवतः। जीवयोनौ लब्धायां प्रष्टुः खबन्धुचिन्तां कथयति(न्ति)। एतौ धातुयोनौ लब्धायां स्वबन्धुकृते धातुचिन्तां कथयन्ति । मूलयोनौ लब्धायां स्वबन्धुकृते मूलचिन्तां कथयन्ति । परवर्गसंयोगस्य लक्षणमुच्यते-गकारस्य उपरिगतः चकार(र.), गकारस्य उपरिगतो जकारः, पकारस्योपरिगतो(तः) सकारः इत्येवमादयोऽन्येऽपि परवर्गसंयोगा जीवयोनौ लब्धायां [प०११, पा० २] प्रष्टुः पर[प]क्षचिन्तां दर्शयति(न्ति)। धातुयोनौ लब्धायां परपक्षकृते धातुचिन्तां कथयन्ति । अर्द्धक्रान्तस्य लक्षणमुच्यतेउपरिर्यद्बोधा(उपर्यधोs)क्षराणां तुल्यसंख्यया सोअर्द्धक्रान्तमित्युच्यते। निदर्शनं यथा- 'क्व-ख्वम. इत्येवमादयः । चिन्तायां जीवयोनौ लब्धे स्त्री-पुरुषचिन्तां दर्शयन्ति । [५० १२, पा० १] धातुयोनौ लब्धे स्त्रीसंबन्धेन धातुद्रव्यं लभ्यत इत्यादेश्यम् । मूलयोनौ लब्धे स्त्रीसंबन्धेन मूलद्रव्यं लभ्यत इत्यादेश्यम् । यक्षरसंयोगस्य लक्षणमुच्यते-त्रिभित्रिभिरक्षरैर्योगः सत्यक्षरयोगः । यथा-" 'नि-क्रि-म्वि-स्थि-य-प्य(?)' एवमादयोऽन्येऽपि जीवयोनौ लब्धायां पृष्ठं(प्रष्टुः) [प० १२, पा० २] अपत्यचिन्त्यां कथयति(न्ति)। मूलयोनौ लब्धायां अपत्यार्थे मूलचिन्तां कथयन्ति । धातुयोनौ लब्धायां अपत्यार्थे धातुचिन्तां कथयति(न्ति) ॥ १९॥
अभिहयगुरुअक्खरया, रेफ यकार उ ज(ऊ?)कारसंजुत्ता। , सचे य अहोमत्ता, णायबा अप्पहाणा य ॥२०॥
रेफ व(य?)कार उकार ऊकार' एतेषा[प० १३, पा० १]मन्यतमेनाधोगतेन जीवधातुमूलाक्षराणां अन्यतनो(मो)ऽक्षरः संयुक्तमु(क्त उ)च्यते । तैरेवाधोगतैः अभिहत उच्यते। तैरेवाधोगतैरप्रधानमुच्यते । जीवयोनौ लब्धायां यस्य कस्यचिदक्षरस्य तले यदा रेफो दृस्य(श्य)ते, तदा प्रष्टा यस्यार्थे पृच्छति तस्याधः का[प० १३, पा० २ ]ये स(श)नप्रहार आदेश्यः । जीवयोनौ लब्धायां यस्य कस्यचिद् अक्षरस्य तले यदा यकारो दृस्य(श्य)ते, तदा प्रष्टा यस्यार्थे पृच्छति तस्य स्त्रीनिमित्तं । बन्धनमादेश्यम्।नीवयोनौ लब्धायां कस्यचिदक्षरस्य तले उकारो दृस्य(श्य)ते, तदा प्रष्टा यस्यार्थे पृच्छति तस्य मूलमादेश्यम् । जीवयोनौ लब्धायां यस्य कस्यचिद् अक्षरस्य तले ऊकारो दृस्य (श्य)ते.. तदा प्रष्टा यस्य कृते पृच्छति तस्य [प० १४, पा० १] दीर्घकालं बन्धनमादेश्यम् । एते चार्थी यद्यपि गाथायां नोक्तास्तथाप्येते (द्र)ष्टव्याः ॥ २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org