________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा १५-१८ ] (तु)मूलचिन्ताभ्यां गाथाया[म]न्तर्भूतास्ते चेत्युच्यन्ते । तद पवस' इत्येते पंच धात्वक्षराः अनभिहताः लघवो मात्रारहिताश्च जीवधातुचिन्तां कथयन्ति । लकार एक एव मूलाक्षरो लघुः । अनभिहतो मात्राविवर्जितः स स्वजीवमूलचिन्तां कथयति ॥ १४ ॥
मत्तासु जो विअप्पो, जो वि य आलिंगिओ वि अभिघाओ। । तं सवं वण्णेहं, जहक्कम आणुपुबीए ॥ १५ ॥
मात्रासु यो विकल्प इति वक्ष्यमाणोपन्यासार्थगाथा । विकल्पग्रहणेन मात्राभेद उच्यते । स ए[वं] तिर्यग्मात्रा अधोमात्रा इति । [प०८, पा० १ ]आलिंगिताभू(भि)धूमितदग्धलक्षणोपघाता[त्] (त्रि)धा । तदेतत् सप्रपंचं यथाक्रममानुपूर्व्या कथयिष्यामः ॥ १५ ॥
पढमो तइओ य सरो, सत्तम णवमो य तिरियमायाओ। ॥ मूलसर उद्द(ड)मत्ता, पंचम-छट्ठा अहोमत्ता ॥ १६ ॥
___अकारः प्रथमः स्वरः, इकारः तृतीयस्वरः, एकारः सप्तमस्वरः, ओकारो नवमखरः-एते चत्वारः स्वरास्तिर्यग्मात्राः । एतेषु मूलयोनौ लब्धायां तिर्यग्लतायां वल्यां(हयां) शाखायां वा संबन्धि मुष्टिगृहीतं किमपि कथयन्ति । नष्टप्रश्रेऽप्यन्तरीक्षतिर्यग्भागस्थितद्रव्यमेत एव स्वराः कथयन्ति । ईकारश्चतुर्थः, ऐकारोऽष्टमः, औकारो दशमः । [५० ८, पा० २] एते त्रयः स्वरा ऊर्द्ध15 मात्राः। मूलयोनौ लब्धायां वृक्षस्यो भागसंबन्धि किमपि मुष्टिगृहीतं कथयन्ति । नष्टप्रश्ने ऊर्द्धभागस्थितद्रव्यमेते त्रयः स्वराः कथयन्ति । पंचमः उकारः, षष्ठः औकारः, एतौ द्वौ स्वरौ अधोमात्रौ मूलयोनौ लब्धायां वृक्षस्याधोभागसंबन्धि किमपि मुष्टिम(ग)हीत(तं) कथयत(तः) । नष्टप्रश्रेऽप्यधोभागव्यवस्थित्रा(त)मेतावेव स्वरौ कथयतः ॥ १६ ॥ [१० ९, पा.१]
जीवाईसट्ठाणं, णियमा द[रि]संति उट्ट(ड)मत्ताओ। व(वि)वरीय अहोमत्ता, णायबा जीव-धाऊणं ॥ १७ ॥
ऊर्द्धमात्रा यि(येड)भिहतात्रयस्त्रयः स्वराः। ते जीवाक्षराणां पंचदशानामुपरिगता जीवमूलसंस्थानं दर्शयन्ति । काष्ठं मूलमुच्यते । तस्मिन्नुत्कीर्णप्राणिगणस्यान्यतमजीवमूलसंस्थानमुच्यते इति । अधोमात्रो(नौ) द्वौ स्वरावुक्तो(क्तौ) तौ यदा जीवाक्षरसंयुक्तौ दृश्य(श्ये)ते तदा जीवधातुं दर्शयतः । [प० ९, पा० २] को जीवधातुरित्यत्रोच्यते-सुवर्णरूप्यतांबा(ताम्रा)ऽरकांस(स्य)पाषा25 णादिष्वेवंविधेषु धातुषु(पू)त्कीर्णो जीवाकृतिसंस्थानः सकलपाणिगणो जीवधातुरित्युच्यते ॥१७॥
मूलक्खरा उ सबे, धाउं दंसंति जे अहोमत्ता। दंसंति तिरियमत्ता, परपक्खगया उभयपक्खं ॥ १८ ॥
मूलाक्षराः 'हु बण न म र ल षा' श्वाष्टावेते उक्ता व(अ)धोमात्रा(त्राः) स्वरद्वयसमेता यदा दृश्यन्ते तदा धातुद्रव्यं दर्शयन्ति । तिर्यग्मात्राभि[५० १०, पा० १ ]हताश्चत्वारो जीवखराः, ते * मूलाक्षराणामुपरिगता जीवमूलं दर्शयन्ति । जीवमूलस्य आकारः । पूर्वोक्तमेव । धात्वक्षराणामुपरिगताश्चैते यदा जीवस्वराश्चत्वारो दृश्यन्ते तदा जीवधातुं दर्शयन्ति । जीवधातुसंस्थानं चोक्तमेव ॥ १८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org