________________
ततः सुहृत्परामर्शात् सिंधीवंशनभस्वता। भा वि द्या भ व नायेयं ग्रन्थमाला समपिता ॥ आसीत्तस्य मनोवाञ्छाऽपूर्वा ग्रन्थप्रकाशने । तदर्थ व्ययितं तेन लक्षावधि हि रूप्यकम् ॥ दुर्विलासाद् विधेर्हन्त ! दौर्भाग्याच्चात्मबन्धूनाम् । स्वल्पेनैवाथ कालेन स्वर्ग स सुकृती ययौ ॥ इन्दु-ख-शून्य-नेत्राब्दे मासे आषाढसंज्ञके। कलिकाताख्यपुर्यां स प्राप्तवान् परमां गतिम् ॥ पितृभक्तश्च तत्पुत्रैः प्रेयसे पितुरात्मनः । तथैव प्रपितुः स्मृत्यै प्रकाश्यतेऽधुना पुनः ॥ इयं ग्रन्थावलिः श्रेष्ठा प्रेष्ठा प्रज्ञावतां प्रथा। भूयाद् भूत्यै सतां सिंधीकुलकीतिप्रकाशिका ॥ विद्वज्जनकृताल्हादा सच्चिदानन्ददा सदा । चिरं नन्दत्वियं लोके श्रीसंधी ग्रन्थपद्धतिः ॥
॥ सिंघीजैनग्रन्थमालासंपादकप्रशस्तिः ॥ स्वस्ति श्रीमेदपाटाख्यो देशो भारतविश्रुतः । रूपाहेलोति सन्नाम्नी पुरिका तत्र सुस्थिता ॥ सदाचार-विचाराभ्यां प्राचीननृपतेः समः । श्रीमच्चतुरसिंहोऽत्र राठोडान्वयभूमिपः ॥ तत्र श्रीवृद्धिसिंहोऽभूद् राजपुत्रः प्रसिद्धिभाक् । क्षात्रधर्मधनो यश्च परमारकुलाग्रणीः ॥ मुज-भोजमुखा भूपा जाता यस्मिन् महाकुले । किं वर्ण्यते कुलीनत्वं तत्कुलजातजन्मनः । पत्नी राजकुमारीति तस्याभूद् गुणसंहिता । चातुर्य-रूप-लावण्य-सुवाक्-सौजन्यभूषिता ॥ क्षत्रियाणी प्रभापूर्णा शौर्योद्दीप्तमुखाकृतिम् । यां दृष्टव जनो मेने राजन्यककुलजा त्वियम् ॥ पत्रः किसनसिंहाख्यो जातस्तयोरतिप्रियः । रणमल्ल इति चान्यद यन्नाम जननीकृतम । श्रीदेवीहंसनामात्र राजपूज्यो यतीश्वरः । ज्योतिभैषज्यविद्यानां पारगामी जनप्रियः ॥ आगतो मरुदेशाद् यो भ्रमन् जनपदान बहून् । जातः श्रीवृद्धिसिंहस्य प्रीति-श्रद्धास्पदं परम् ॥ तेनाथाप्रतिमप्रेम्णा स तत्सूनुः स्वसन्निधौ । रक्षितः, शिक्षितः सम्यक, कृतो जैनमतानुगः ॥ दौर्भाग्यात् तच्छिशोर्बाल्ये गुरु-तातौ दिवंगतौ । विमूढः स्वगृहात् सोऽथ यदृच्छया विनिर्गतः ॥
तथा च -- भ्रान्त्वा नेकेषु देशेष सेवित्वा च बहून् नरान् । दीक्षितो मुण्डितो भूत्वा जातो जैनमुनिस्ततः । ज्ञातान्यनेकशास्त्राणि नानाधर्ममतानि च । मध्यस्थवत्तिना तेन तत्त्वातत्त्वगवेषिणा ॥ अधीता विविधा भाषा भारतीया युरोपजाः । अनेका लिपयोऽप्येवं प्रत्न-नूतनकालिकाः ।। येन प्रकाशिता नैके ग्रन्था विद्वत्प्रशंसिताः । लिखिता बहवो लेखा एतिह्यतथ्यगुम्फिताः ॥ स बहुभिः सुविद्वद्भिस्तन्मण्डलैश्च स सत्कृतः। जिनविजयनाम्नाऽसौ ख्यातोऽभवद् मनीषिषु । तस्य तां विश्रुति ज्ञात्वा श्रीमद्गान्धीमहात्मना । आहूतः सादरं पुण्यपत्तनात् स्वयमन्यदा ॥ पुरे चाहम्मदाबादे राष्ट्रीयशिक्षणालयः । विद्यापीठ इति ख्यातः प्रतिष्ठतो यदाऽभवत् ॥ आचार्यत्वेन तत्रोच्चैनियुक्तः स महात्मना । रस मुनि निधीद्वन्दे पुरातत्त्वाख्यमन्दिरे ॥ वर्षाणामष्टकं यावत् संभूष्य तत् पदं ततः। गत्वा जर्मनराष्ट्रे स तत्संस्कृतिमधीतवान् । तत आगत्य सँल्लग्नो राष्ट्रकार्ये च सक्रियम् । कारावासोऽपि संप्राप्तो येन स्वराज्यपर्वणि ॥ क्रमात ततो विनिर्मक्तः स्थितः शान्तिनिकेतने । विश्ववन्द्यकवीन्द्रश्रीरवीन्द्रनाथभषिते ।। सिंघीपदयुतं जैनज्ञानपीठं तदाश्रितम् । स्थापितं तत्र सिंघीश्रीडालचन्दस्य सूनुना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org